परिच्छिन्नत्वहेतुनिरासः
परिच्छिन्नत्वहेतुरपि न साध्यसाधकतामध्यास्ते । तथा हि । परिच्छिन्नत्वं नाम देशतः परिच्छिन्नत्वं वा कालतो वाऽन्योन्या- भावाधिकरणत्वं वा । नाद्यः । कालाकाशादिभागेऽसिद्धेः । अत एव न द्वितीयः । ब्रह्मव्यतिरिक्तं सकलमपि देशकालाभ्यां परिच्छिन्नमिति चेन्न । व्याघातात् । तथा हि । देशतः परिच्छिन्नत्वं नाम क्वचिन्निष्ठा- भावप्रतियोगिता । तथा च सर्वस्याभावं प्रतिजानता किञ्चिदधिष्ठानमभ्यु- पेयम् । अभावस्याधिष्ठानबोधाधीनबोधत्वात् । तथा च कथं न व्याघातः । सकलमपि ब्रह्मण्यध्यस्ततस्तत्र नास्तीति निषेधान्नाधिष्ठानाभ्युपगत्या व्याघात इति चेन्न । परिच्छिन्नता नाम बाध्यतेत्यर्थः स्यात्तथात्वे साध्या- विशिष्टतयैव दुष्टतापत्तिः । कालपरिच्छेदे चानित्यता सादिता त्रिकालासत्यता वाऽभिप्रेता भवेत्तथा च कालस्यैतादृशपरिच्छेदायोगेनागतः स एव दुरात्मा व्याघातः ।
ननु माऽस्तु जडत्वं, परिच्छिन्नत्वं तु हेतुः स्यादित्यत आह || परिच्छिन्नत्वेति । न केवलं दृश्यत्वजडत्वे इत्यपेरर्थः । प्रतिज्ञातं परिच्छिन्न- त्वस्य साधकत्वाभावमुपपादयितुं पृच्छति ।। परिच्छिन्नत्वमिति ।। कालतो वेति । परिच्छिन्नत्वमिति सम्बन्धः । वस्तुतः परिच्छिन्नत्वं तृतीयकोटि- स्तदभिप्रायकथनमन्योन्येति । कालाकाशादीति । कालशब्देनात्रांशी कालो गृह्यते । न तु क्षणलवाद्यंशः । आकाशशब्देन चाव्याकृताकाशः । न तु भूताकाशः । येन तयोर्जन्यत्वेन यथायोगं देशकालपरिच्छिन्नत्वेनासिद्धिर्न स्यात् । आदिपदेनाज्ञानं पराभिमतो रूप्यादेर्जगतश्च प्रतिपन्नोपाधि- स्थत्रैकालिकनिषेधश्च गृह्यते । न च कालादिव्यतिरिक्तस्य पक्षतेति वाच्यम् । तत्र मिथ्यात्वासिद्ध्यापत्तेः । दृश्यत्वादेर्दूषितत्वादिति भावः । कालादौ भागासिद्धेरेव द्वितीयोऽप्यपास्त इत्याह ।। अत एवेति । पक्षद्वयेऽपि नासिद्धिरिति शङ्कते ॥ ब्रह्मेति । सर्वस्य देशकालाभ्यां परिच्छेदे उक्तं व्याघातं प्रतिपिपादयिषुर्देशतः परिच्छेदं तावदुपपादयितुं देशतः परिच्छिन्नत्वं निर्धारयति ।। देशत इति । अस्त्वेवं प्रकृते किमित्यत आह ।। तथा चेति । अत्र हेतुमाह ।। अभावस्येति । तथा च सुस्थो व्याघात इत्याह । तथा चेति । इदमुक्तं भवति । सर्वस्य देशतः परिच्छेदे हि सर्वं कस्मिंश्चिदेशेऽस्ति कस्मिंश्चिद्देशे नास्तीति वक्तव्यम् । तथा च सर्वाभावाधिष्ठानत्वेन देशशब्दितमाकाशमङ्गीकृत्य पुनस्तस्याप्यभावाभिधाने माता वन्ध्येतिवद्व्याघात इति । ननु न व्याघातः सर्वस्यापि ब्रह्मनिष्ठाभावप्रतियोगित्वेनान्याधिष्ठाना- नभ्युपगमादिति शङ्कते ।। सकलमिति । निषेधति ॥ नेति । देशत: परिच्छिन्नत्वं नामाध्यासाधिष्ठानब्रह्मनिष्ठाभावप्रतियोगित्वमित्युक्तं स्यात् । तथा चेदमेव साध्यत्वेनाभिमतं मिथ्यात्वमित्यसिद्धिः स्यादित्याह ॥ तथात्व इति । अध्यासाधिष्ठानब्रह्मनिष्ठाभावप्रतियोगित्व इत्यर्थः । एवकारस्य न तु दोषान्तरान्वेषणायास इत्यर्थः । एवं सर्वान्तर्गताकाशस्य देशतः परिच्छेदे व्याघातमभिधाय कालस्य कालतः परिच्छेदे व्याघातं विवक्षुः कालपरिच्छेदो नाम भविष्यत्कालतः परिच्छेद उत भूतकालतो यद्वा त्रिकालत इति विकल्पत्रयाभिप्रेतार्थकथनपूर्वमाह || कालेति । कालस्येति शेषः । अनित्येति भाविकालतः परिच्छेदे सादितेति भूतकालतः परिच्छेदे त्रिकालासत्यतेति कालत्रयपरिच्छेदे । अस्त्वेवं किं तत इत्यत आह । तथा चेति ॥ अयोगेनेति । पूर्वं कालो नास्ति पश्चान्नास्ति सर्वदा नास्तीति निषिध्यमान- कालाभावाधिकरणत्वेन पूर्वादिकालाङ्गीकारेण पुनस्तन्निषेधो व्याहत इत्यर्थः । अत्र कालस्येदानीं कालो नास्तीत्यादिकालतः परिच्छेदे व्याघात इति वक्तव्ये यदनित्यतेत्यादिना कालपरिच्छेदाभिप्रायकथनं तस्यायम्भावः । पश्चात्पूर्वं वाऽसत्त्वमात्रेण वर्तमानकालेऽप्यभावसाधने प्रमाणविरोधस्याविशिष्टतया वर्तमानकाले सत्त्वेन कालान्तरेऽपि सत्त्वसाधनं स्यात् । त्रिकालासत्त्वं त्वसिद्धमिति ।