Join Tattvasudhā to study.

परिच्छिन्नत्वहेतुनिरासः

§10Mūla

कुतश्चाकाशादेः कालपरिच्छेदाध्यवसायः । जडत्वहेतुनेति चेन्न । तस्यापाकृतत्वात् । घटादौ कार्यताप्रयुक्तत्वाच्च परिच्छिन्नत्वस्य । यज्जडं तत्कार्यमिति चेन्न । अविद्यायां व्यभिचारात् । तस्याश्च कार्य- त्वेऽनादित्वपरिभाषा परिलुप्येत । तत्कारणस्याभावश्च । पञ्चमप्रकारं मोक्षमाचक्षाणस्य जडत्वहेतोर्मोक्षे नित्यतयाऽभ्युपगते व्यभिचारः । तस्य च कालपरिच्छिन्नत्वे पुनरावृत्तिप्रसङ्गः । न हि सहस्राक्षोऽपि क्षयं क्षेप्तुं क्षम (त) इत्युन्मत्तवादश्च स्यात् । न तृतीयः । नेति नेतीत्यादिना ब्रह्मण्यपि जगदन्योन्याभावाधिकरणतायाः श्रुतत्वात् । सोऽपि भेदोऽविद्याविलसित इति चेन्न । तत्किमिदानीं परमार्थभेदभिन्नत्वं हेतुः । तथा सति पक्षे तदसिद्धिः स्यात् । विरुद्धता च स्यादिति ॥ छ ॥ परिच्छिन्नत्वहेतुनिरासः ॥ छ ॥

एवं व्याघातेन कालाकाशयोर्देशकालाभ्यां परिच्छिन्नत्वं नेति व्युत्पाद्य प्रमाणाभावाच्च तयोर्न देशकालाभ्यां परिच्छिन्नत्वमित्याह । कुतश्चेति । किञ्चेति चार्थः । न कस्मादपि प्रमाणादित्याक्षेपार्थः किंशब्दः । आदिपदेन कालाज्ञानादेर्ग्रहणम् । ननु कालादिर्देशकालाभ्यां परिच्छिन्नो जडत्वाद्घटादिवदित्यनुमानात्तन्निश्चय इत्याशङ्क्य निराह । जडत्वेति । परिच्छिन्नत्वे कार्यत्वमेव प्रयोजकं न तु जडत्वमिति भावेन तस्य साध्यव्यापकत्वमाह ।। घटादाविति । ननु कार्यत्वं न परिच्छिन्नत्वे प्रयोजकं तस्य साध्यव्यापकत्वे सत्यपि साधनाव्यापकत्वाभावाज्जडत्वहेतुमति पक्षे कालादौ तेनैव कार्यत्वस्यापि साधनादिति भावेन जडत्वकार्यत्वयोर्व्याप्तिमाह ॥ यदिति । अनाद्यविद्यायां जडत्वे सति कार्यत्वाभावाव्यभिचार इति भावेन निषेधति ।। नेति । ननु तत्र साध्यस्यापि सत्वान्न दोष इत्याशङ्क्य बाधकमाह ।। तस्या इति । अनाद्यनिर्वाच्यत्वे सति विज्ञानविलाप्येत्यादि- त्वदीयपरिभाषोच्छेद इत्यर्थः । किञ्चाविद्यायाः कार्यत्वे तदुपादानं किञ्चिदुपेयं न च तदस्तीत्याह ॥ तदिति । एवं कालादिकं कालादितः परिच्छिन्नं जडत्वादित्यत्र कार्यत्वमुपाधिं व्युत्पाद्याधुना व्यभिचारं चाह || पञ्चमेति । न सन्नासन्न सदसन्नानिर्वाच्यश्च तत्क्षय इत्यादिनाऽविद्यानिवृत्तिलक्षणमोक्षं पञ्चमप्रकारं वदतस्तव जडत्वहेतोर्व्यभिचार इत्यन्वयः । नित्यतयाऽभ्युपगत इत्येतत्कालपरिच्छेदाभावरूपसाध्याभावोपपादनाय । जडत्वरूपहेतूपपादनाय च पञ्चमप्रकारेत्याद्यंशः । अविद्यानिवृत्तेरात्ममात्रत्वे तत्र जडत्वाभावात् । ननु तत्र साध्यस्यापि सत्त्वान्न व्यभिचार इत्याशङ्क्य बाधकमाह ।। तस्येति । उक्तरूपमोक्षस्येत्यर्थः । मोक्षस्यापगमे पुनः संसारापत्तिरित्यर्थः । नन्वविद्यानिवृत्तिलक्षणमोक्षः कालतः परिच्छिन्न एव । न चैवमविद्या- निवृत्तेर्निवृत्तौ पुन: संसारापत्तिरिति वाच्यम् । यथा प्रागभावनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावस्योन्मज्जना भावस्तथाऽविद्यानिवृत्तेर्निवृत्तेरपि संसारविरोधित्वेन पुनरावृत्त्यभावादित्यत आह । न हीति । सहस्राक्ष इन्द्रः । क्षयं निवृत्तिम् । क्षेप्तुं नाशयितुम् । अप्रामाणिकानन्तनिवृत्त्यापातादिति भावः । किञ्चैवं न सा पुनरावर्तत इत्यादिनिवृत्त्यनिवृत्तिवादश्चायुक्तः स्यादित्याह || उन्मत्तेति । उपलक्षणमेतत् । त्वन्मते तदात्माऽन्यस्याभावात्तन्मात्रस्य चाहेतुत्वेन निवर्त्यनिवृत्तिहेत्वभावाच्चेति ध्येयम् । अन्योन्याभावाधिकरणत्वं वेति तृतीयं निराह || न तृतीय इति । तत्र हेतुमाह || नेतीति । बृहदारण्यके तन्नेति नेतीत्यादिवाक्ये इति नेति नेति मूर्तामूर्तविलक्षणत्वेनाभिधानात्तत्र तदन्योन्याभावसत्त्वेन व्यभिचारादित्यर्थः । तात्त्विकभेदवत्त्वं हेतुरिति भावं हृदि निधाय व्यभिचारमुद्धर्तुमाह ॥ सोऽपीति । श्रुतोऽपीत्यर्थः । पराभिप्रायं प्रश्नमुखेन व्यनक्ति ।। तत्किमिति । हेतुरित्यनन्तरं बाढमिति शेषः । दूषयति ।। तथा सतीति । पारमार्थिकभेदवत्त्वस्य हेतुत्वे सतीत्यर्थः । त्वयाऽनङ्गी- कारदिति भावः । किञ्च पारमार्थिकभेदवत्त्वस्य सत्यत्वेनैव व्याप्तेस्तादृशा- नृतभेदवत्यात्मन्युपलम्भेन शुक्तिरूप्यादौ मिथ्यात्वे सत्यपि पारमार्थि- कभेदवत्त्वाभावेन साध्याभावेनैव व्याप्तत्वेन विरुद्धहेत्वाभासत्वं च स्यादित्याह ।। विरुद्धतेति । उपलक्षणमेतत् । आत्मनि तादृशानृतभेदवत्त्वेन व्यभिचारश्च बोध्यः । इतिशब्दः परिच्छिन्नत्वहेतुदूषणसमाप्तौ || छ ।

Loading…