मिथ्यात्वानुमानस्य प्रत्यक्षबाधः
सन्घट इत्यादिप्रत्यक्षेण बाधितविषयत्वात्कालात्ययापदिष्टश्च । ननु केयं सत्यता या प्रत्यक्षगोचरा । किं सत्त्वं वा विधिगम्यत्वं वाऽर्थक्रियाकारित्वं वा प्रातिभासिकेतरत्वं वाऽसत्त्वातिरिक्तत्वं वाऽबाध्यत्वं वा । आद्यपञ्चका- न्यतमाभ्युपगमे नास्माकं प्रत्यक्षविरोधः । तस्यास्माभिरनिराकरणात् । न षष्ठः । प्रत्यक्षस्योत्तरकालीनबाधाभावग्राहितायोगात् । तस्मात्सद्गन्धर्वनगर- मित्यादिवदयं प्रत्यक्षेण सत्त्वग्रहणप्रवाद इति ।
एवं दृश्यत्वादिहेतून् प्रातिस्विकरूपेणासिद्धविरुद्धानैकान्ति- कत्वैर्निराकृत्याधुनां सर्वसाधारण्येन बाधितविषयत्वरूपदोषेणापि दुष्टतां वक्तुमाह ।। सन्निति । आदिपदात्सन्पटः सत्सुखमित्यादि गृह्यते । ननु न मिथ्यात्वानुमानस्य प्रत्यक्षबाधः । भिन्नविषयत्वेनाविरोधात् । यत्प्रत्यक्षवेद्यं सत्त्वं न तदभावोऽनुमानबोध्यः । यदभावोऽनुमानवेद्यो न तत्प्रत्यक्षवेद्यमिति भावेन शङ्कते ॥ नन्विति । सत्त्वमिति । सत्ताजातिरित्यर्थः ॥ विधीति । घटोऽस्ति पटोऽस्तीत्यादिविधिमुखप्रत्ययविषयत्वमित्यर्थः । तस्येति । आद्यपञ्चकान्यतमस्येत्यर्थः । अनिराकरणात् अनुमानेनेति शेषः । अन्यथा शून्यवादापत्तेरिति भावः । अबाध्यत्वरूपसत्त्वस्यानुमानेन निराकरणेऽपि । नाक्षबाधः । तस्य वर्तमानमात्रग्राहित्वेन त्रैकालिकनिषेधाप्रतियोगित्वरूपा- बाध्यत्वग्रहाक्षमत्वादिति भावेनाह ।। न षष्ठ इति । नन्वबाध्यत्व- स्याक्षागोचरत्वे कथं घटसत्त्वं प्रत्यक्षमिति व्यवहार इत्यत आह || तस्मादिति । अबाध्यत्वरूपसत्त्वस्याक्षागोचरत्वादित्यर्थः ॥ सद्गन्धर्वन- गरमिति । मायाविनिर्मितान्तरिक्षगत गन्धर्वनगरसत्त्वग्रहणवदित्यर्थः शुक्तिरूप्यादिसत्त्वग्रहणमादिपदार्थः ।