मिथ्यात्वानुमानस्य प्रत्यक्षबाधः
मैवम् । अबाध्यतायाः प्रत्यक्षग्राह्यत्वात् । न च तस्योत्तरकालीनबाधाभावाग्राहकत्वमिति वाच्यम् । तदानीमबाध्यताग्रहणेनैव तत्सिद्धेः । तत्कालीनाबाध्यता गन्धर्वनगरेऽपि गृह्यत इति चेत् । सत्यम् । तथाऽप्यस्ति विशेषः । प्रामाण्यं हि ज्ञानस्योत्सर्गतोऽपवादादप्रामाण्यमिति विद्वत्सम्मतिः । तथा च तत्र बाधकादप्रामाण्यमुपस्थाप्यते प्रकृते तु तादृशबाधकादर्शनात्त्रिकालाबाध्यतैव निरपवादात्सिध्यतीति ।
निषेधति ॥ मैवमिति । किमक्षस्य प्रामाण्येsपि त्रिकालाबाध्यत्व ग्रहणाक्षमतेत्यभिप्राय उत तस्य गन्धर्वनगरप्रत्यक्षवत्प्रामाण्यमेव नेति विकल्प्याद्ये यदनुमाननिषेध्यमबाध्यत्वं तदेव प्रत्यक्षग्राह्यं तथा च ग्राह्या भावावगाहित्वेनाक्षस्यानुमानबाधकत्वं युक्तमिति भावेनाह ।। अबाध्यताया इति । नन्वाबाध्यत्वं कालत्रये बाधाभाव: । एवञ्च वर्तमानमात्रग्राहिप्रत्यक्षं कालान्तरीयबाधाभावं कथं गृह्णीयादित्याशङ्क्य निषेधति ।। न चेति । प्रत्यक्षस्य वर्तमानसत्त्वग्राहित्वेऽपि स्वकाले स्वविषयसत्त्वं गृह्णत्प्रत्यक्षं त्रिकालासत्त्वं प्रतिबध्नात्येवेति भावेनाह । तदानीमिति । स्वयं यदा विषयं गृह्णाति तदानीमित्यर्थः 1 तत्सिद्धेस्त्रिकालबाधाभावरूपाबाध्यत्वग्रहण- सिद्धेरित्यर्थः । अयमाशयः । त्रिकालासत्त्वाभावो हि द्वेधा । कदाचित्सत्त्वेन वा कालत्रयेऽपि सत्त्वेन वा । तत्र कालत्रयसत्त्वग्रहणे सामर्थ्याभावेऽपि कदाचित्सत्त्वग्रहणसमर्थेनाक्षेण कथं कालत्रयासत्त्वं न प्रतिबध्यमिति । ननु गन्धर्वनगरप्रत्यक्षवद्विश्वसत्त्वग्राहिप्रत्यक्षमप्रमाणमिति द्वितीयं गूढ- भावेन शङ्कते ।। तत्कालीनेति । यदा गन्धर्वनगरं गृह्यते तत्कालावच्छेदे - नाबाध्यतेत्यर्थः । विप्रतिपन्नाक्षस्याप्रामाण्यं किं प्रमाण्यस्य परतस्त्वेन तदूग्राहकप्रमाणान्तरसंवादाभावाद्वा मिथ्यात्वग्राह्यनुमानादिबाधकाद्वोत गन्धर्व - नगरप्रत्यक्ष इवात्रापि कालान्तरे किञ्चिद्वाधकं भविष्यतीति शङ्कामात्रेण वेति त्रेधा विकल्प्याद्ये सन्घट इतिवत्सद्गन्धर्वनगरमिति तस्य सत्त्वग्रहणेऽपि घटादिवन्नात्यन्ताबाध्यता प्रामाण्यस्य 'स्वतस्त्वेन संवादानपेक्षत्वेन बाधकैकापोद्यतया गन्धर्वनगरादौ बाधकेन तत्सत्त्वग्राहिणः प्रामाण्यत्यागेन तद्विषयस्यासत्त्वेऽपि न घटादौ तथा बाधकाभावादिति भावेन परिहरति ॥ सत्यमिति । तथाऽपि सन्घटः सद्गन्धर्वनगरमिति ज्ञानयोः सत्त्वग्रहण- साम्येऽपीत्यर्थः । अस्ति विशेष इत्युक्तमेव प्रामाण्याप्रमाण्यरूपं विशेषं विशदयितुमाह ॥ प्रामाण्यं हीति । तस्य युक्त्यादिसिद्धत्वं हिशब्दार्थः ॥ ज्ञानस्येति । प्रकृते तावतैवोपपत्त्या ज्ञानग्रहणम् । न तु करणप्रामाण्य- व्युदासाय । तस्याप्युत्पत्तौ स्वतस्त्वादिति ध्येयम् । यद्वेह ज्ञप्तावेव स्वतस्त्व- कथनात्करणानां च ज्ञप्तौ परतस्त्वाज्ज्ञानग्रहणमिति बोध्यम् । उक्तं च प्रमाणपद्धतौ । ज्ञप्तिस्तु परत एव । इन्द्रियादिस्वरूपस्य यथायथं प्रमाणवेद्यत्वात् । यथार्थज्ञानसाधनत्वस्यानुमानवेद्यत्वादिति । बाह्यैरप्रामाण्य- स्यौत्सर्गि कत्वाङ्गीकारात्कथं सम्मतिरित्यत उक्तम् ॥ विद्वदिति । परीक्षकाणामित्यर्थः । तार्किकाणामप्यविद्वत्त्वादिति भावः । कि यद्येवमित्यत आह । तथा चेति । प्रामाण्यस्य बाधकैकापोद्यत्वे चेत्यर्थः । तत्र गन्धर्वनगरादिसत्त्वग्राहिणि । प्रकृते घटदिसत्त्वग्राहिणि ।। तादृशेति । असदेव गन्धर्वनगरं प्रत्यभादिति विशेषदर्शनजन्यबलवत्प्रत्यक्षरूपेत्यर्थः । बाधकाभावस्यासिद्धतां व्युदसितुमदर्शनादित्युक्तम् । तेन निरपवादेत्यस्य नासिद्धिरिति भावः । तस्मात्प्रत्यक्षबांध: सुस्थ इति घट्टार्थः । नन्विदं रूप्यमितिवत्सन्घट इत्यत्रापि सदित्यधिष्ठानब्रह्मानुवेध एव न तु घटगतं सत्त्वं प्रतीयत इति चेन्न । नीलो घटोऽनित्यः पटो मिथ्या रूप्यमसन्नृशृङ्गमित्यादावपि नीलादिरधिष्ठानानुवेध इत्यापातात् । । ननु नैल्यादिकं घटेऽस्ति सत्त्वं तु नेति चेन्न अस्यारोपित- सिद्ध्यधीनत्वेनान्योन्याश्रयात् । सिद्धे ह्यारोपितत्वे घटादेः सत्त्वाभावसिद्धिः। सत्त्वाभावसिद्धौ चाधिष्ठानब्रह्मानुवेध सम्भवेनारोपितत्वसिद्धिरिति । किञ्च रूपादिहीनस्यासंसारमज्ञानानुवृत्तस्य शब्दैकगम्यस्य ब्रह्मणः सन् घटः सन् शब्द इति चाक्षुषादिज्ञाने भानायोगात् । न च स्वरूपेणाप्रत्यक्षस्यापि राश्वन्द्रावच्छेदेनेव ब्रह्मणो घटाद्यवच्छेदेन प्रत्यक्षता युक्तेति वाच्यम् । शब्दाद्यवच्छिन्नगगनादेः श्रावणादित्वापातात् । राहोस्तु दूरदोषेणाज्ञातस्य नीलस्य शुक्लभास्वरसम्बन्धाच्चाक्षुषता युक्तेति ।