मिथ्यात्वानुमानस्य प्रत्यक्षबाधः
अस्त्वनुमानमेव बाधकं प्रत्यक्षस्येति चेन्न । प्रत्यक्ष- विरोधेन प्राप्तमरणावस्थस्य प्रत्यक्षविरोधाक्षमत्वात् । अन्यथा दहनशैत्यानु- मानमपि तदुष्णतावगाहिप्रत्यक्षबाधकत्वेन प्रमाणं प्रसज्येत । यदा च प्रत्यक्षं समबलप्रत्यक्षान्तरेण न बाध्यते हन्त तदा का वार्ता तत्पादोपजीविनो वराकस्य तर्कस्य तद्वाधकत्वे । नभोमलिनतामाकलयत्प्रत्यक्षममूर्तानुमानेन बाधितं दृष्टमिति चेन्न । तत्राप्याप्तवाक्यादिनैव बाधाभ्युपगमेनासम्प्रतिपत्तेः । यदा च पुनः स्वयमेवानुमिमीते तदाऽपि बलवत्प्रत्यक्षगृहीतव्याप्तिकादेव तस्मादध्यवसायः ।
ननु घटादिसत्त्वग्राहिणो बाधकादर्शनादित्युक्तमयुक्तम् । मिथ्यात्त्वानुमानस्य जागरूकत्वादिति द्वितीयं शङ्कते ॥। अस्त्विति ॥ प्रत्यक्षस्य घटादिसत्त्वग्राहिण इत्यर्थः । नानुमानं प्रत्यक्षबाधकम् । तस्यानुमानाद्यगृहीतरेखोपरेखादिविशेषविषयकत्वेन तदनिवर्तितदिङ्मोहादि- निवर्तकत्वेन जात्याऽनुमानापेक्षितपक्षलिङ्गव्याप्त्यादिग्राहित्वेन तज्ज्ञानानां प्रामाण्यग्राहित्वेन विशेषदर्शनजन्यसमानविषयकज्ञानान्तररूपसजातीयसंवा- दादिरूप परीक्षासध्रीचीनत्वेन च प्रबलतया तद्वाधितस्य मिथ्यात्वानुमानस्य कुतस्तन्निरोधकत्वं कुतस्तरां च तद्बाधकत्वं कुतस्तमां च प्रत्यक्षस्याप्रामाण्य- मित्याशयेन परिहरति ।। नेति । विरोधेन बाधेनेत्यर्थः । प्राप्तेति । निश्चितप्रमेयापहाररूपाप्रामाण्यस्येत्यर्थः । बाधकत्वं दूरापेतमिति भावः । स्यादेतत् । अनुमानस्य प्रत्यक्षापेक्षया स्वतो दौर्बल्येऽपि व्यावहारिकसत्त्व- विषयकप्रत्यक्षापेक्षया तात्त्विकमिथ्यात्वविषयकत्वेन प्राबल्यसम्भवात् । अत एव पूर्वतन्त्रे आद्यस्य तृतीये शिष्टाकोपाधिकरणे वेदं कृत्वा वेदिं कुर्यादिति दर्भमुष्टिवेदिकरणयोः क्रमप्रतिपादकश्रुतिविरुद्धाया अपि क्षुत आचमेदिति वेदवेदिकरणयोर्मध्ये क्षुतनिमित्ताचमनप्रतिपादकस्मृतेः पदार्थधर्मभूतक्रमप्रति- पादकश्रुत्यपेक्षयाऽऽचमनरूपपदार्थविषयकत्वेन प्राबल्यमुक्तमित्याशङ्क्योप- जीव्यप्रत्यक्षविरोधेन तस्य तात्त्विकार्थविषयकत्वमेव न सम्भवत्यन्यथा दहनानौष्ण्यानुमानस्यापि व्यावहारिकोष्णत्वग्राहिप्रत्यक्षापेक्षया तात्त्विका- नौष्ण्यग्राहित्वेन प्राबल्यप्रसक्त्या कालात्ययापदिष्टमात्रोच्छेदप्रसङ्ग इति भावेनोत्तरमाह ।। अन्यथेति । तात्त्विकविषयकत्वेनानुमानस्यैव बाधकत्व इत्यर्थः । अत्र केनचित्प्रलपितं दहनानौष्ण्यानुमानं न श्रुत्यनुगृहीतम् । मिथ्यात्वानुमानं तु नेह नानेत्यादिश्रुत्यनुगृहीतमिति बाधकमिति । तन्न । अनुमानप्राप्तातात्त्विकमिथ्यात्वानुवादित्वेनापि श्रुतेरुपपत्त्या दुर्बलत्वेनाननु- ग्राहकत्वात् । यदपि मिथ्यात्वानुमानं तर्कानुगृहीतं न शैत्यानुमानमिति तदपि न । अक्षबाधेन तर्काणामप्याभासतयाऽननुग्राहकत्वात् । उक्तं च त्वयैव सुरेश्वरवार्तिके स्थायित्वप्रत्यभिज्ञानेन क्षणिकतर्काणामाभासत्वं प्रत्यभिज्ञायमानेऽर्थे तदेवेदमिति ध्रुवे । लिङ्गमाभासतामेति प्रत्यक्षार्थविरुद्धदृगिति । कैमुत्यन्यायेनापि नाक्षबाधकतानुमानस्येत्याह । यदा चेति । नन्विदं रूप्यमिति ज्ञानं नेदं रूप्यमित्यक्षेण बाध्यं दृष्टमित्यत आह ।। समबलेति । तस्य विशेषदर्शनजन्यतया बलवत्त्वादिति भावः । ननु यद्युक्तरीत्या प्रत्यक्षं तर्कबाध्यं न स्यात्तदा नीलं नभ इति प्रत्यक्षस्य नभो न नीलममूर्तत्वात्काला - दिवदित्यनुमानेन बाधो न स्यादिति शङ्कते ॥ नभ इति । मलिनतामा - कलयन्नैल्यं गृह्णदित्यर्थः ।। आप्तवाक्येति । यद्यपि न वाक्यस्याप्यक्षबाधने क्षमता । अन्यथाऽद्वैतश्रुत्यैव तद्वाधसम्भवेन पराभिमतसिद्धेः । तथाऽप्यक्षस्य तर्काबाध्यत्वे तात्पर्यम् । अत एव तत्रारुच्याss दिपदप्रयोगः । इदमुक्तं भवति । नानुमानेन नैल्यप्रत्यक्षबाधः । किन्तु तन्मूलभूतबलवत्प्रत्यक्षानु- गृहीताप्तवाक्येनैवेति । अश्रावणे नभसि श्रावणीशब्दाभावधीरिवाचाक्षुषेऽपि नभसि नैल्याभावधीर्वायाविव चाक्षुष्येवादूरस्थस्य पुंसो यत्र नभः प्रदेशे नैल्यधीः समीपस्थस्य तस्यैव तत्रैव चक्षुषैवानैल्यबुद्धेरिति वदन्ति । ननु यदाऽऽप्तवाक्यं नास्ति स्वयमेवामूर्तत्वानुमानेन नैल्याभावमनुसन्धत्ते तदा तद्बाध्यत्वमक्षस्येत्यत आह ।। यदा चेति । नैल्याभावमिति शेषः । स्वतो दुर्बलमप्यनुमानं स्वमूलभूतबलवत्प्रत्यक्षबलादेव प्रबलमिति प्रत्यक्षं बाधते । यथा राजगौरवाद्राजभृत्योऽमात्यम् । प्रकृते च मिथ्यात्वानुमानमूलं च प्रत्यक्षं स्वविषयसत्त्वाग्राहीति तत्प्रतिकूलमिति भावः । ननु कथमद्वैतिनो नभसि नैल्याभावधीरनुमानात् । परममहत्परिमाण- लक्षणस्यामूर्तत्वस्यान्त्यावयविभिन्नद्रव्यानारम्भकत्वादेर्वाऽऽत्मन आकाशः सम्भूत इत्युत्पत्तिमत्त्वेनाङ्गीकृते नभस्यसिद्धेर्निःस्पर्शद्रव्यत्वस्य तमसि व्यभिचारात्पृथिव्यादित्रितयान्यत्वस्याप्रयोजकत्वात्पञ्चीकरणेन रूपस्यापि सत्त्वेन बाधाच्चेति चेत् । सत्यम् । तार्किकमतावष्टम्भेन शङ्कमानं प्रति तुष्यतु दुर्जन इति न्यायेनोत्तरमभ्यधायीति ध्येयम् । अत एव वक्ष्यत्युत्तरत्रावय- वित्वहेतुदूषणावसरेऽनुमानस्याप्रसारात्तथा हीत्यादिना ।