मिथ्यात्वानुमानस्य प्रत्यक्षबाधः
प्रत्यक्षत्वाद्गन्धर्वनगरप्रत्यक्षवद्विप्रतिपन्नमपि प्रत्यक्षं भ्रान्तं किन्न स्यादिति चेत्तर्हि वाक्यत्वाज्जरद्गवादिवाक्यवत्सत्यज्ञानादिवाक्यमप्रमाणं किन्न स्यात् । किञ्च प्रत्यक्षशब्देन प्रत्यक्षाभासविवक्षायां पक्षे तदभावः । प्रमाणाभिप्राये दृष्टान्तेऽनन्वयः । ज्ञानत्वमात्रस्य हेतुत्वे सत्यज्ञानादि- वचनजन्यज्ञाने व्यभिचारः ॥ छ ॥ मिथ्यात्वानुमानस्य प्रत्यक्षबाधः ॥ छ ॥
कालान्तरे किमपि बाधकमस्य भविष्यतीति तृतीयपक्षमाशङ्कते ॥ प्रत्यक्षत्वादिति ॥ विप्रतिपन्नमिति । सत्त्वग्राहिप्रत्यक्षमित्यर्थः ॥ भ्रान्तमिति । अत्रापि कालान्तरे बाधसम्भवादिति भावः । यदि कचित्प्रत्यक्षं बाधितमुप- लब्धमित्येतावता सर्वत्रापि बाधशङ्कया प्रामाण्येऽविश्वासस्तदा वाक्याभासे प्रामाण्यादर्शनेनात्माद्वैतादिबोधकवाक्येऽपि तच्छङ्कया त्वदभिमतात्मादि- सिद्धिरपि न स्यादित्याह । तहीति । कचिद्व्यभिचारदर्शनेन सर्वत्रानाश्वास इत्यर्थः ।। जरद्गवेति । जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति भद्रकाणि । तं ब्राह्मणी पृच्छति रन्तुकामा राजनुमायां लशुनस्य कोऽर्थः ॥ इत्यादिवाक्याभासवदित्यर्थः । तथा च वृद्धिमिच्छतो मूलहान्यापत्तिरिव त्वदभिमतहानिरिति भावः । ननु प्रत्यक्षस्य सम्भावितदोषत्वेनानाश्वास- सम्भवेऽपि न वेदे तत्सम्भवस्तस्य नित्यनिर्दोषत्वादित्यतो दोषान्तरमाह ॥ किञ्चेति । प्रत्यक्षत्वादित्यत्र किं प्रत्यक्षाभासत्वादित्यर्थ उत प्रमाणभूत- प्रत्यक्षत्वादिति विकल्प्याद्येऽसिद्धिमाह ॥ पक्ष इति । अद्याप्याभासत्वा- सिद्धेरिति भावः । द्वितीये साधनविकलो दृष्टान्त इत्याह || प्रमाणेति । गन्धर्वनगरप्रत्यक्षस्य प्रामाण्यासिद्धेरिति भाव: । आभासप्रमाणसाधारण- प्रत्यक्षत्वमात्रं हेतुरिति तुल्यन्यायतया दृश्यत्वनिरासप्रस्तावे निरस्तप्रायमिति भावः । ननु न प्रत्यक्षत्वं हेतुः किन्तु ज्ञानत्वमेवेत्यत आह ।। ज्ञानत्वेति ॥ सत्येति । तत्र त्वया प्रामाण्याभ्युपगमात् । अन्यथा तदप्येवमेव स्यादिति भावः ॥ छ ॥