Join Tattvasudhā to study.

मिथ्यात्वानुमानस्य श्रुतिविरोधः

§12Mūla

विश्वं सत्यमित्याद्यागमविरोधश्च व्यावहारिकं सत्त्वम- त्रोच्यत इति चेन्न । निर्बीजत्वात्कल्पनायाः । व्यर्थं च प्रपञ्चे व्यावहारिकस- त्यत्वप्रतिपादनम् । न हि कश्विल्लौकिको वैदिको वा व्यावहारिकसत्यतां प्रपञ्चे नाभ्युपैति । तस्माद्वादिप्रसिद्धमिथ्यात्वनिषेधेन पारमार्थिकसत्त्वमेव प्रतिपाद्यते । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । नेह नानेत्यादिश्रुतिनिषेध्य- समर्पकतयाऽनुवदति विश्वसत्यतावाक्यमिति चेन्न । तथा सति विश्वं सत्यमित्यादिवचनविधानसिद्ध्यर्थं नेह नानेत्यनुवाद इति प्रसङ्गात् ।

तदेवं प्रत्यक्षे स्वतः प्राप्तप्रामाण्यस्य बाधकाभावेन निश्चित- प्रामाण्यकेन प्रबलेन प्रत्यक्षेण मिथ्यात्वानुमानस्य बाधमुक्त्वाऽऽगमबाधं चाह || विश्वमिति । विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वामिति श्रुतेरयमर्थः । हे मघवानौ धनवन्तौ युवयोः सम्बन्धीदं विश्वं सङ्कोचकाभावा- त्प्रत्यक्षादिसिद्धं सर्वं सत्यं ब्रह्मवदबाध्यम् । अत एव तादृशविश्वान्तर्गतत्वादेव वां व्रतं तदर्थं कर्मविशेषम् । आपश्चनाबभिमानिन्यो देवता अपि प्रमिनन्ति प्रतीत्या विषयीकुर्वत इति । आदिपदेन यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता । याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः । सत्यः सो अस्य महिमा अथैनमाहुः सत्यकर्मेति । सत्यं ह्येवेदं विश्वमसौ सृजते । कथमसतः सज्जायेतेत्यादिश्रुतयः । विरोधो बाध इत्यर्थः । ननु नानुमानस्यागमबाधः । भिन्नविषयत्वेनाविरोधात् । अनुमानं हि तात्त्विक- सत्त्वाभावमवगाहते श्रुत्यादिकं व्यावहारिकसत्त्वमावेदयतीति भावेनाशङ्क्य निषेधति ।। व्यावहारिकमिति । अत्र श्रुत्यादौ । निर्बीजत्वादिति । व्यावहारिकसत्यत्वकल्पनाया मिथ्यात्वसिद्ध्युत्तरकालीनत्वेनाद्यापि तदसिद्ध्या कल्पकाभावादित्यर्थः । अन्यथा तत्सत्यमित्यादिब्रह्मसत्ताश्रुतिरपि प्राति- भासिकसत्त्वपरा स्यात् । न च मिथ्यात्वबोधकाद्वैतश्रुतिविरोधात्सत्यत्व- श्रुतेर्व्यावहारिकत्वपरता कल्प्यत इति वाच्यम् । त्वत्पक्षे तस्या लक्षण - याऽखण्डचिन्मात्रपरत्वेन विश्वसत्ताऽविरोधित्वात् । असद्वा इत्यादिश्रुति- विरोधेन तत्सत्यमित्यादेः प्रातिभासिकसत्त्वपरत्वसाम्याच्च । न च ब्रह्मसत्त्व- श्रुतिविरोधादसद्वा इदमित्यादिवाक्यमप्रमाणमन्यार्थं वेति वाच्यम् । विश्वसत्य- त्वश्रुति विरोधात्तन्मिथ्यात्वश्रुतिरप्रमाणमन्यार्थ वेत्यपि साम्यात् । न च मिथ्यात्वश्रुतिः षड्विधतात्पर्यलिङ्गोपेतत्वात्प्रबलेति वाच्यम् । अत्रापि वाक्यशेषे आपश्चन प्रमिनन्तीति प्रामाणिकत्वरूपायाः सत्यमित्तन्न मोघ- मित्यर्थक्रियाकारित्वरूपायाश्चोपपत्तेस्तात्पर्यलिङ्गस्य सत्त्वात् । तस्मात्साधूक्तं निर्बीजत्वात्कल्पनाया इति । किञ्चैवमविप्रतिपन्नार्थबोधकत्वेनाग्निर्हिमस्य भेषजमितिवदनुपादेयमेव स्यादित्याह || व्यर्थं चेति । वैय्यर्थ्यमेवोपपादयति ।। न हीति ।। व्यावहारिकेति । असत्प्रातिभासिकविलक्षणसद्रूपतामित्यर्थः । ननु भवतामप्ययं दोषः समानो विश्वसत्यत्वस्य विश्वजनीनत्वादि- त्याशङ्क्य वैदिकाभासविवादनिरासेनार्थवत्त्वमाह । तस्मादिति । व्यावहारि- कपरत्वे वैय्यर्थ्यप्रसङ्गादित्यर्थः । तत्र युक्तिमाह || अप्राप्त इति । मानान्तरानवगतार्थं बोधयच्छास्त्रं सप्रयोजनमित्यर्थः 1 अत एव शासनादप्रतीतार्थबोधनाच्छास्त्रमिति वदन्तीति भावः | नन्वथाऽपि नागमादनुमानस्य बाधस्तस्य प्रत्यक्षावगतसत्त्वानुवादित्त्वेन दुर्बलत्वात् । न चानुवादित्वे तस्य वैय्यर्थ्यमिति वाच्यम् । नेह नानेति निषेधवाक्या- पेक्षितप्रतियोगिसमर्पकत्वेन सार्थक्यादिति शङ्कते । नेह नानेति । अनुवदति विश्वसत्यतामिति शेषः । निषेध्यसमर्पणाभावे निषेधानुपपत्तेरिति भाव: । यदि विश्वसत्यतावाक्यं निषेध्यसमर्पकं तर्हि नियामकाभावेन नेह नानेति श्रुतिरेव बाध्यत्वरूपबाधनिषेधाय विश्वबाधानुवादिनी किन्न स्यादित्याह || तथा सतीति । विधानेति । बाधाभावरूपाबाध्यत्वलक्षणसत्यताविधानार्थ- मित्यर्थः । अनुवाद इति । तत्र प्रतियोगिभूतबाधानुवाद इत्यर्थः । अत्र यद्यपि विश्वं सत्यमिति न निषेधः । तथाऽपि न्यायनये तमः शब्दवत्सर्वमते प्रलयशब्दवच्चार्थंगत्या भवत्येव निषेध इति भावः । उपलक्षणं चैतत् । नेह नानेति वाक्य एव किञ्चनेति निषेध्यार्पकस्य सत्त्वेन तद्धानेनातिदूरस्थकर्म- काण्डगतस्य विश्वं सत्यमित्यादेर्ब्रह्मकाण्डगतनेनानेति वाक्यनिषेध्यार्प- कताकल्पनमन्याय्यमिति च बोध्यम् । ननु न विश्वं सत्यमित्यनेन विश्वस्य सत्यत्वं विधातुं शक्यते । तस्याक्षसिद्धत्वेनाप्राप्त्यभावेन विधानायोगादिति चेत्तर्हि विश्वबाधस्यापि विज्ञानवादादितो दृश्यत्वादिकुतर्कैश्च प्राप्त्या नेह नानेत्यनेनापि तन्निषेधविधानायोगात् । किञ्च वर्तमानकतिपयमात्रविषय प्रत्यक्षाप्राप्तसर्वप्रपञ्चनिष्ठत्रिकालाबाध्यत्वरूपसत्त्वविधानसम्भावाच्च अन्ये तु । अक्षसिद्धस्य सत्त्वस्य नेह नानेत्यादिना निषिद्धस्य प्रतिप्रसवार्थं विश्वं सत्यमित्यादि किन्न स्यादिति विधानशब्दस्य प्रतिप्रसवार्थाभिधायकत्वमाहुः।

Loading…