मिथ्यात्वानुमानस्य श्रुतिविरोधः
किञ्चासदेवेदमग्र आसीदित्यादिवाक्यनिषेध्यसमर्पकतया सत्यज्ञानादिवाक्यं ब्रह्मणः सत्यतामनुवदतीति चातिप्रसङ्गः । विश्वमिथ्या- त्वब्रह्मसत्यत्वे श्रुतिमन्तरा न सिद्ध्यत इति कथमनुवाद इति चेन्न । दृश्यत्वादिहेतुना मिथ्यात्वसाधनात् । भ्रमानुपपत्त्याऽधिष्ठानतया ब्रह्मणोऽपि सत्यत्वकल्पनात् । किञ्च विश्वसत्यत्वानुवाद इति वदता विश्वस्य प्रामाणिकताऽभ्युपेयते न वा । नाद्यः । तत्प्रमाणविरोधात् । निषेध्यस्य स्वेन प्रमाणविषयताऽनभ्युपगमाच्च । न द्वितीयः । असिद्धस्यानुवादायोगात् । लोकसिद्धानुवाद इति चेन्न । लोके च प्रमाणसिद्धमनूद्यते भ्रान्त्या वा । नाद्यः । दत्तोरत्वात् । नोत्तरः । तथैव लोकस्य भ्रान्तिसिद्धब्रह्मसद्भावो निषिध्यत इति प्रसङ्गात् । तस्माद्यद्वदन्तीत्यादिवचनं परिहारे विशेषयुक्तिं च विनाऽनुवादायोगात् । व्यावहारिकसत्यत्वस्य च वक्तुमप्रयोजकत्वात् । पारमार्थिकमेव सत्यत्वं जगत्युदितमित्यस्ति श्रुतिविरोधः ॥ छ ॥ मिथ्यात्वानुमानस्य श्रुतिविरोधः ॥ छ ॥
सत्त्ववाक्यस्य निषेध्यार्थकत्वे जगद्विषयकवाक्येऽतिप्रसङ्गमभिधाय ब्रह्मविषयकवाक्येऽपि तमाह । किञ्चेति । केचित्तु निषेधशास्त्रस्य निषेधप्रतियोग्यनपेक्षकं प्रति तत्समर्पकत्वमयुक्तम् । सत्यत्वं च न सप्रतियोगिकमिति तथैवातिप्रसङ्गान्तरमाह । किञ्चेतीत्यापाततः पूर्वफक्किकार्थं गृहीत्वाऽवतारयन्ति । इदमग्रेऽस्य जगतः पुरा । असदासीत्सदभाव आसीदित्यर्थः । तथा च तत्र प्रतियोग्यर्पकं सत्यज्ञानादिवाक्यमिति भावः । नन्वसदिति वाक्यं सृष्टेः प्रागव्याकृतनामरूपत्वमिदंशब्दार्थस्य प्रपञ्चस्याह न ब्रह्मसत्त्वाभावम् । तथा चेदं जगदसदासीदिति सामानाधिकरण्योपपत्तौ न तस्य शब्दार्थताकल्पनमपीति चेन्न । असदित्यस्याव्याकृतनामरूपत्वार्थ- कत्वेऽमुख्यत्वप्रसङ्गात् । किञ्च । अथ तस्यायमादेशो नान्तः प्रज्ञं न बहिः प्रज्ञं नोभयतः प्रज्ञं प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमलक्षणमचिन्त्यमव्यपदेश्यमित्यत्रा- लक्षणमिति साक्षादेव सत्त्वादिरूपब्रह्मलक्षणनिषेधावगमाच्च । तथा तदाहुः किं तदासीत्तस्मै स होवाच न सन्नासन्न सदसत्तस्मात्तमः सञ्जायत इत्यादि सुबालोपनिषदि स्पष्टं तन्निषेधाच्चेति न कोऽपि दोषः । अत एवाकरे आदिपदप्रयोगः । ननु यदुक्तं नेह नानेति वाक्यं विश्वं सत्यमित्यादि- वचनविधानायानुवादकं ब्रह्मसत्तापरं वाक्यं चासदिति निषेधायेति च तद्वयमप्ययुक्तम् । अनुवादस्य मानान्तरसापेक्षत्वेन विश्वसत्यतावाक्ये तत्सत्यतावेदकाक्षरूपमानान्तरसत्त्वेनानुवादितोपपत्तावपि न बाधबोधकस्य नेह नानेत्यादेः । न वा ब्रह्मसत्ताबोधकस्य सत्यं ज्ञानमित्यादेः सा सम्भवति । तयोर्बोधकस्य कस्यापीतोऽन्यस्याभावादित्याशयेन शङ्कते ॥ विश्वमिथ्यात्वब्रह्मसत्यत्वे इति । श्रुतिमन्तरेति । नेह नानेति सत्यं ज्ञानमिति च श्रुतिद्वयं विनेत्यर्थः । पररीत्यैव प्राप्तिसम्पादनं सुशकमिति परिहरति ।। नेति । साधनात्परेणेति शेषः । नन्वधिष्ठानत्वमात्रेण कथं ब्रह्मणः सत्त्वसिद्धिरित्यत उक्तं भ्रमेति । निरंधिष्ठानकभ्रमायोगादित्यर्थः । एवं विश्वं सत्यमित्यादिवाक्यमनुवादकमिति पक्षेऽतिप्रसङ्गमभिधायोपपाद्य चेदानीं तस्यानुवादकत्वाय पुरोवादस्थानीयं घटादिसत्ताग्राहिप्रत्यक्षं प्रमाणं चेत्तद्वाधो मिथ्यात्वश्रुतेर्न चेन्नानुवादकता सत्त्वश्रुतेरित्युभयतः पाशारज्जुरित्यभिप्रेत्य दूषयति ॥ किञ्चेति ॥ प्रामाणिकतेति । विश्वसत्त्वग्राहिणः प्रामाण्यमुपेयते न वेति यावत् ॥ तत्प्रमाणेति । घटादिसत्त्वग्राहिप्रमाणबाधादित्यर्थः । नेह नानेत्यादेरिति शेषः । निषेध्यस्य घटादिसत्त्वस्य । स्वेन परेण ॥ असिद्धस्येति । प्रत्यक्षस्याप्रामाण्ये घटादिसत्त्वस्यासिद्धत्वेनाप्राप्त्या नानुवादकत्वमित्यर्थः । तत्समानविषयत्वे च श्रुतेरसदर्थविषयकत्वेनाप्रामाण्यापत्तेरिति भाव: दत्तोत्तरत्वादिति । तत्प्रमाणविरोधादित्युक्तत्वादित्यर्थः । तथैव विश्व- सत्त्ववदेव । निषिध्यतेऽसदित्यादिवाक्यैरिति शेषः । ननु तर्हि कुत्राप्यनु- वादकता न स्यात् । अतिप्रसङ्गस्य तत्रापि वक्तुं शक्यत्वादित्याशङ्क्य यत्र यच्छब्दादि तल्लिङ्गं तत्रैवानुवादकता नान्यत्रेत्यभिप्रेत्य श्रुतिबाधं चोपसंहरति ॥ तस्मादिति । उक्तातिप्रसङ्गादित्यर्थः । यद्वदन्तीत्यादीत्यादिपदेन निषेधसमभिव्याहाररूपलिङ्गं गृह्यते । यद्यपि न कलअं भक्षयेदित्यादौ | यद्वदन्तीत्यादि निषेधार्थानुवादलिङ्गाभावेऽपि कलअं भक्षयेदित्यादेर्निषेध्य- समर्पकानुवादत्वमस्ति । तथाऽपि तत्रैवात्र निषेधसमभिव्याहाररूपलिङ्ग- स्याप्यभावादिति भावः । उदितं श्रुत्येति शेषः । इति यतोऽतः । श्रुतिविरोधो बाध इत्यर्थः ॥ छ ॥