मिथ्यात्वानुमानस्य स्मृतिविरोधः
“ असत्यमप्रतिष्ठं ये जगदाहुरनीश्वर" मित्यादिनिरव- काशस्मृतिविरोध । न चात्रासत्यशब्दोऽत्यन्तासत्परोऽत्यन्तासत्त्वा- भ्युपगन्तुर्वादिन एवाभावादाहुरित्यस्यायोगादिति ॥ छ ॥ मिथ्यात्वानुमानस्य स्मृतिविरोधः ॥ छ ॥
एवं श्रुतिविरोधमुक्त्वा विश्वमिथ्यात्वस्य स्मृत्या निन्दनाच्च न तद्वाध्यमित्याह ।। असत्यमिति । त आसुराः स्वयं नष्टा जगतः क्षयकारिण इत्युत्तरार्धेन तेषां निन्दनादिति भावः । निरवकाशेति । श्रुतिवन्निषेध्य- समर्पकत्वेन व्यावहारिकसत्त्वपरत्वेन वा शङ्कानवकाशादित्यर्थः । आदिपदेन “ एवं भूतो महाविष्णुर्यथार्थं जगदीदृशम् । अनाद्यनन्तकालीनं ससर्जात्मेच्छया प्रभुरिति वाराहवचनं नाभाव उपलब्धेर्वैधर्म्याच्च न स्वप्नादिवदित्यादिसूत्रं च गृह्यते । ननु भवेदयं स्मृतिविरोधो जगतोऽसत्त्वं ब्रुवतां शून्यवादिनामेव नास्माकम् । अस्माभिर्जगतोऽसद्वैलक्षण्याभ्युपगमेन व्यावहारिकसत्त्वस्वीकारादित्याशङ्क्य निषेधति ॥ न चेति ॥ वादिन वाभावादिति 1 शून्यवादिमतेऽप्यर्थक्रियाकारित्वादिना शशशृङ्गादि- वैलक्षण्यसत्त्वात् । प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेन तद्वैलक्षण्यस्याद्वैतिमत एवाभावाद्व्यावहारिकसत्त्वस्य च तन्मतेऽपि भावात् सत्त्वे समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतसत्यत्वं सत्त्वं च परमार्थतः । सत्त्वं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम् । सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम् ॥ इति बौद्धोक्तेरिति भावः । अत एवोक्तं भगवत्पादैः । “न च शून्यवादिनः सकाशाद्वैलक्षण्यं मायावादिन" इति । ननु माऽस्त्वत्यन्ता- सत्त्वाभ्युपगन्ता वादी स्मृतिकर्ता व्यासः स्वयमेवासत्त्वमाशङ्क्य निषेधतीति किन्न स्यादित्यत आह || आहुरिति । इतिशब्दः श्रुत्यादिबाधसमाप्तौ ।। छ ।।