मिथ्यात्वानुमानस्यानुमानविरोधः
विप्रतिपन्नं सत्यं प्रमाणदृष्टत्वाद्ब्रह्मवदित्यनुमानविरोधश्च । न च साध्यानिरुक्तिः । अबाध्यतायाः साध्यत्वात् । तस्याश्च ब्रह्मणि सिद्धत्वान्नाप्रसिद्धविशेषणता । ननु किमिदं प्रमाणदृष्टत्वम् । तात्त्विक- प्रमाणदृष्टत्वमतात्त्विक प्रमाणदृष्टत्वं वा । नाद्यः । अस्माकमसिद्धेः । प्रत्यक्षादिप्रमाणानां तत्त्वावेदकताऽनभ्युपगमात् । नोत्तरः । तवासिद्धेः । साधनविकलत्वं च दृष्टान्तस्येति ।
एवं मिथ्यात्वहेतूनां प्रत्यक्षागमविरोधमभिधायाधुनाऽनुमानविरोधं चाह ।। विप्रतिपन्नमिति । अत्र यद्यपि प्रत्यक्षविरोधकथनानन्तरं क्रमप्राप्तानु- मानविरोधमुक्त्वा पश्चादागमविरोधकथनमुचितम् 1 तथाऽप्यनुमानस्य स्वातन्त्र्येण साधकबाधकत्वान्यतराशक्तत्वात्प्रत्यक्षागमान्यतरमूलकस्यैव तच्छक्तत्वेन तदुभयनिरूपणानन्तरमेतन्निरूपणमिति ध्येयम् । विप्रतिपन्नं सत्यत्वमिथ्यात्वाभ्यां विवादविषयीभूतम् । असत्प्रातिभासिकब्रह्मान्य- जगदित्यर्थः । सत्यमबाध्यम् । प्रमाणदृष्टत्वात्प्रमाणजन्यज्ञानं प्रत्यनिषेध्यत्वेन साक्षाद्विषयत्वादित्यर्थः दृष्टत्वाज्ज्ञानविषयत्वादित्युक्तौ शुक्तिरूप्ये व्यभिचारः । अतः प्रमाणेति । प्रमितिविषयत्वादित्यर्थः । तावत्युक्तेऽपि रूप्यज्ञानवानहमिति व्यवसायद्वारा शुक्तिरूप्यस्यापि साक्ष्यादिरूपप्रमा- विषयत्वाद्व्यभिचार एव । अतः साक्षादिति । अव्यवधानेनेत्यर्थः । तावत्युक्तेऽप्यसद्रजतमिति बाधरूपप्रमां प्रति साक्षाद्विषयत्वेन पुनर्व्यभिचारः । अतो निषेध्यत्वेनेति विशेषणम् ।। ब्रह्मवदिति । शुद्धब्रह्मवदित्यर्थः । ब्रह्मणो वृत्तिव्याप्यत्वमतेनेदं दृष्टान्तकथनमतो न साधनवैकल्यम् । अत्र व्याप्त्यनभिधानं तदभिधाननियमाभावसूचनाय । ननु सत्यमित्यत्र किमिदं सत्यत्वं सत्ताजातिर्वा विधिगम्यत्वं वाऽर्थक्रियाकारित्वं वा प्रातिभासिकेतरत्वं वाऽसदतिरिक्तत्वं वा । सर्वस्यापि मयाऽङ्गीकृतत्वेन सिद्धसाधनादन्यस्यानिरूपणादित्याशङ्क्य निषेधति ॥ न चेति । अभिमतसत्यशब्दार्थमाह || अबाध्यताया इति । साध्यत्वात्सत्य- शब्दार्थत्वात् । एतेन सत्यत्वं नाम व्यावहारिकसत्त्वमुत पारमार्थिकसत्त्वम् । आधे सिद्धसाधनं साध्यहीनता दृष्टान्तस्य । अन्त्ये सिद्धान्ते व्यर्थविशेषणत्वं त्र्यावर्त्याभावादिति निरस्तम् । बाधाभावस्यैव साध्यत्वात् । नन्वेवमपि सप्रकारकबाधाभावो वा निष्प्रकारकबाधाभावो वा साध्यः । आद्ये इष्टापत्तेः । वादिनः सप्रकारकपदवैय्यर्थ्यं च । अन्त्ये वादिनोऽप्रसिद्धिरिति चेन्न । बाधसामान्याभावस्यैव साधनात् । ननु बाधो नामान्यथाविज्ञातस्य सम्यग्विज्ञातत्वं चेत्तर्हि सिद्धान्तेऽपि पक्षसपक्षयोः क्षणिकत्वनिर्गुणत्वादिना ज्ञातस्य सत्यत्वसगुणत्वादिना प्रमितत्वाङ्गीकाराद्बाधसाध्यवैकल्ये स्यातामिति चेन्न । प्रतिपन्नोपाधिस्थत्रैकालिकनिषेधाप्रतियोगित्वस्यैव तदर्थत्वादिति भावः । नन्वबाध्यत्वमप्रसिद्धम् । प्रपञ्चमात्रस्य पक्षत्वात् । शुक्तिरूप्यस्य विपक्षत्वादित्यत आह 11 तस्याश्चेति त्रैकालिकनिषेधाप्रति- योगित्वरूपाबाध्यताया इत्यर्थः । सिद्धत्वाद्वादिप्रतिवादिनोरिति शेषः । न वा साध्यवैकल्यामिति वाक्यशेषः । ननु प्रमाणदृष्टत्वादित्यत्र किं तत्त्वावेद- कप्रमाणविषयत्वमुतातत्त्वावेदकप्रमाणविषयत्वं हेतुः । पक्षद्वयेऽप्यन्यतरासिद्धो हेतुरिति शङ्कते । नन्विति । अस्माकमद्वैतिनाम् । असिद्धिमेवोपपादयति । प्रत्यक्षादीति । तवेति । सिद्धान्तिन इत्यर्थः । मतद्वयेऽपि दोषमाह || साधनेति । ब्रह्मणस्तत्त्वावेदकमानवेद्यत्वादिति भावः । 1