Join Tattvasudhā to study.

मिथ्यात्वानुमानस्यानुमानविरोधः

§14Mūla

मैवम् । प्रत्यक्षादिप्रमाणानामतत्त्वावेदकत्वे मानाभावात् । प्रत्यक्षादिकं तत्त्वावेदकं प्रमाणत्वात्सत्यज्ञानादिवाक्यवत् । अन्यथा प्रामाण्यमेव न स्यात् । प्रपञ्चस्तत्त्वावेदकप्रमाणदृष्टः । सम्प्रतिपन्नभ्रान्त- पदार्थेतरत्वाद्ब्रह्मवत् । आत्मत्वमुपाधिरिति चेन्न । अबाध्यत्वादेरात्मत्वस्य पक्षे सम्भवात् । अन्यथाऽऽत्मत्वस्याप्यभावः स्याद्ब्रह्मणि ।

आद्यपक्षमभ्युपेत्य तत्रासिद्धिमुद्धरति । प्रत्यक्षादीति । यथायथं घटपटादिप्रपञ्चग्राहकप्रत्यक्षादिप्रमाणानामित्यर्थः । मानाभावादिति । न च विश्वमिथ्यात्वमेव तन्मानमिति वाच्यम् । मिथ्यात्वसिद्धौ प्रत्यक्षादेरतत्त्वावेद- कत्वसिद्धिरतत्त्वावेदकत्वसिद्धौ मिथ्यात्वसिद्धिरित्यन्योन्याश्रय इति भावः । ननु प्रत्यक्षादेरतत्त्वावेदकत्वे मानाभावेऽपि न तत्त्वावेदकत्वम् । तत्साधका- भावात् । तथा चासिद्धिरेवेत्याशङ्क्य तामुद्धर्तुमाह ।। प्रत्यक्षादिकमिति । हेतोरप्रयोजकतामुद्धरति ।। अन्यथेति । प्रत्यक्षादेरतत्त्वावेदकत्व इत्यर्थः । तत्त्वावेदकस्यैव प्रमाणत्वादिति भावः । एवं प्रत्यक्षादेस्तत्त्वावेदकत्वं प्रसाध्य पक्षे हेतुसिद्धिं साधयति ।। प्रपञ्च इति । साक्षादनिषेध्यत्वेन तादृशप्रमाणविषय इत्यर्थः ॥ सम्प्रतिपन्नेति । भ्रमविषयत्वेनोभयवादिसिद्धो योऽर्थस्तद्भिन्न- त्वादित्यर्थः ।। उपाधेः साधनव्यापकतामाह ।। अबाध्यत्वादेरिति । अबाध्यत्वज्ञानत्वज्ञानाधारत्वात्मपदवाच्यत्वादिप्रागुक्तात्मत्वविकल्पानां पक्षेऽ नेनैव हेतुना साधनसम्भवादित्यर्थः । ज्ञानत्वादेरपि पक्षैकदेशे सत्त्वादिति भावः ।। अन्यथेति । उक्तहेतुनाऽबाध्यत्वादिरूपात्मत्वस्य पक्षेऽसिद्धौ तादृशहेतुमति ब्रह्मण्यप्यात्मत्वं न स्यादविशेषात् । तथा च साधनव्यापक- तेति भाव: तथा च तत्त्वावेदकप्रमाणविषयत्वरूपो हेतुर्नासिद्ध इत्यखण्डतात्पर्यम् ।

Loading…