मिथ्यात्वानुमानस्यानुमानविरोधः
किञ्च तत्त्वावेदकत्वादिविशेषानवधूय प्रमाणमात्रदृष्टत्वं हेतुः किन्न स्यात् । न ह्यस्य विपक्षे वृत्तिः । वृत्तिव्याप्यताया आत्मन्यभ्युपगमान्न तत्र साधानावृत्तिः । तथाऽपि प्रामाणिकत्वातिरिक्तं सत्यत्वं नास्तीति साध्याविशिष्टतेति चेन्न । स्वपरासम्मतेः । न तावत्स्वरीत्येदमुक्तम् । प्रमाणाविषयस्यापि ब्रह्मणः सत्यत्वाभ्युपगमात् । नाप्यस्मद्रीत्या | ब्रह्मण इव प्रपञ्चस्यास्माभिः प्रामाणिकत्वातिरिक्तस्य सत्यत्वस्याभ्युपगमात् । अन्यथा शशविषाणवत्प्रमाणवृत्त्ययोगात् । तथाऽपि ब्रह्मणः प्रामाणिकत्वाभावात्साधनविकलो दृष्टान्त इति चेन्न । असाधारणस्य दूषणत्वाभावपक्षे केवलव्यतिरेकित्वोपपत्तेः ब्रह्मणश्चाप्रामाणिकत्वे शशविषाणवदसत्त्वप्रसङ्गः । स्वतः सिद्धत्वान्नेति चेन्न । स्वत इति स्वेनेति वा प्रमाणेन विनेति वा । नाद्यः । अनभ्युपगमात् । न हि स्वस्मिन्स्वस्य कारकताऽभ्युपगम्यते । अन्यथा शशविषाणस्याप्येवं सिद्धि: स्यात् । न द्वितीयः । प्रमाणाभावे सत्त्वं न स्यादित्यस्य प्रमाणेन विना सिद्ध्यतीत्य- स्यानुत्तरत्वात् । सिद्ध्युपायान्तरस्यानुपन्यस्तत्वात् । स्वतःसिद्धत्वं नाम स्वप्रकाशत्वमिति चेन्न । दत्तोत्तरत्वात् ।
ननु यद्येवं हेतुस्तदा वादिनो व्यर्थविशेषणत्वं व्यावर्त्याभावादि- त्यनुशयेनाह ।। किञ्चेति । असिद्धिमुद्धृत्य प्रमाणदृष्टत्वमात्रस्य व्यभिचारं चोद्धरति । न हीति । नन्ववे ब्रह्मणि प्रमाणविषयत्वाभाव इत्याशङ्क्य तदभ्युगन्तृमतेनेदमभिधानमित्याह ॥ वृत्तीति । अन्तःकरणपरिणाम- रूपज्ञानविषयताया इत्यर्थः । एवमसिद्धिव्यभिचारसाधनवैकल्यानामुद्धारेऽप्य- धुना साध्यावौशिष्ट्यं शङ्कते ॥ तथाऽपीति । स्वरूपासिद्ध्याद्यत्वा- भावेऽपीत्यर्थः । प्रमाणदृष्टत्वादित्यस्य प्रामाणिकत्वं पर्यवसितमित्यभिप्रेत्योक्तं प्रामाणिकत्वेति । प्रामाणिकत्वमेव सत्यत्वमिति वादिप्रतिवादिनोरन्यतरस्यापि न सम्मतमित्युक्तम् । तत्क्रमेणोपपादयति ।। न तावदित्यादिना वृत्त्ययोगादि- त्यन्तेन ॥ प्रमाणविषयस्येति । वृत्यवेद्यत्ववादिमतेनेदं बोध्यम् ॥ प्रामाणिकत्वातिरिक्तस्येति । असति प्रमाणाप्रवृत्त्या तद्विषयत्त्वात्प्राक् तद्विषयत्वप्रयोजकस्यान्यस्यैवाबाध्यत्त्वादि रूपस्य वक्तव्यत्वादिति भावः ॥ अन्यथेति । प्रमाणप्रवृत्तेः प्राक् तस्य सत्त्वाभावे इत्यर्थः । एवं साध्यावैशिष्ट्यमुद्धृत्य ब्रह्मवृत्तिव्याप्यमपि नेति मते दृष्टान्ते साधनवैकल्य- दोषमुद्धर्तुं शङ्कामुपक्षिपति ।। तथाऽपीति । साध्यावैशिष्ट्याभावेऽपीत्यर्थः ॥ केवलेति । अन्वयव्याप्तौ ब्रह्मणो दृष्टान्तत्वेऽपि न व्यतिरेकव्याप्तौ । तत्र शुक्तिरूप्यस्य दृष्टान्तत्वात् । तत्र च साधनव्यावृत्तेः सत्त्वेनादोषत्वादिति भाव: । ननु सति सपक्षे तत्रावर्तमानो हेतुरसाधारणानैकान्तिक इति तल्लक्षणात्सपक्षे ब्रह्मण्यवर्तमानो हेतुः कथं साध्यसाधक इत्यत उक्तम- साधारणेति । असाधारण्यस्या नित्यदोषत्वेनानुकूलतर्कादिविशेषदर्शनदशायां तस्यादोषत्वादिति भावः । एवं ब्रह्मण: प्रामाणिकत्वाभावेऽप्यनुमानसामी- चीन्यमभिधायाधुना वस्तुस्थितिमनुरुध्य प्रामाणिकत्वं समर्थयितुं तदनङ्गीकारे बाधकमाह । ब्रह्मणश्चेति । किञ्चेति चार्थः । अप्रामाणिकत्वे प्रामाणिक - त्वाभावे । शशविषाणवत् शशविषाणस्येव । ब्रह्मण: प्रमाणविषयत्वाभावेऽपि नासत्त्वमिति शङ्कते ॥ स्वत इति ।। अनभ्युपगमादिति । परेणेति शेषः । तमेवोपपादयति ।। न हीति ॥ कारकतेति । स्वेनेति करणार्थे विहि ततृतीयाभिधेयकरणकारकत्वस्य वा सिद्ध इति विषयत्वरूपकर्मकारकत्वस्य वा त्वयाऽनङ्गीकारादित्यर्थः । यदि स्वकर्मकसिद्ध्यभावेऽपि तत्स्वत: सिद्धं तदाऽतिप्रसङ्गमाह || अन्यथेति । इत्यस्येत्यनन्तरमाक्षेपस्येति शेषः । अनुत्तरत्वमेव विशदयति ॥ सिद्धीति ।। दत्तोत्तरत्वादिति । दृश्यत्वहेतुदूषणावसरे स्वप्रकाशताया दूषितत्वादित्यर्थः । यद्वा स्वप्रकाशमिति स्वेनैव स्वयं प्रकाशत इत्यर्थ उत प्रमाणं विनेति । आद्ये स्वस्मिन्स्वस्य कारकताऽनभ्युपगमात् । द्वितीयेऽनुत्तरत्वादित्युक्तरीत्या दत्तोत्तरत्वादित्यर्थः ।