Join Tattvasudhā to study.

मिथ्यात्वानुमानस्यानुमानविरोधः

§14Mūla

अर्थक्रियाकारित्वाच्च सत्यत्वसाधनं सम्भवति । स्वाप्नरम्भासम्भोगादौ व्यभिचार इति चेन्न । पक्षसमत्वात् । न हि पक्षे पक्षसदृशे वा व्यभिचारः । रज्जुभुजङ्गादौ व्यभिचार इति चेन्न । तज्ज्ञानस्यैव भयकम्पादिजनकत्वात् ।

एवं प्रमाणदृष्टत्वेन जगतः सत्यत्वं प्रसाध्यानुमानान्तरेणापि तत्साधयति ।। अर्थक्रियेति । अयमत्र प्रयोगः । विप्रतिपन्नं सत्यमर्थक्रियाकारित्वादात्म- वदिति । अत्र साध्यं पूर्ववद्व्याख्येयम् । ननु सत्यार्थक्रियाकारित्वं हेतुरुतासत्यम् । नाद्यः । परं प्रत्यसिद्धेः । नान्त्यः । असत्यायाश्चैन्द्रजालि- कादौ व्यभिचारादिति चेदत्राहुः । सप्रकाराबाध्यार्थक्रियाकारित्वं हेतुः । परमते निष्प्रकारकबाध्यत्वेऽपि सप्रकाराबाध्यत्वात्सिद्धान्ते चाबाध्यत्वादेव सप्रकारकाबाध्यत्वस्यापि सत्त्वात् । न च परमते सप्रकारकेत्यस्यासिद्धि- वारकत्वं दोषः । विमतमकर्तृकं शरीराजन्यत्वात् । अनभ्यासदशायां सांशयिकत्वात् । विमतं निर्धूममार्द्रेन्धनप्रभववन्हिरहितत्वादित्यादौ तत्स्वी - कारात् । किञ्च परमतेऽबाध्यार्थक्रियाकारित्वस्य क्वाप्यभावेनाप्रसिद्ध्या व्याप्तिग्रहोपयुक्तत्वेन सार्थकत्वाच्च । व्यभिचारवारकस्यापि व्याप्तिग्रहोपयुक्त - त्वेनैव सार्थक्यात् । नन्वेवमपि भारतयुद्धादौ घटोत्कचादिनिर्मितपदार्थेषु व्यभिचार इति वाच्यम् । तेषामपि तच्छक्तिविशेषसृष्टत्वेन सत्यत्वान्न व्यभिचार इति । वस्तुतस्तु अर्थक्रियाकारित्वादिति यथान्यासमेवास्तु । न चैन्द्रजालिकादौ व्यभिचारः । तत्र हेतोरेवाभावात् । न च तत्राप्यसत्यं तदस्तीति वाच्यम् । अनुमानमात्रे आरोपितहेतोर्विपक्षवृत्तितासम्भवेनानुमा- नमात्रोच्छेदकतया स्वव्याघातात् । यदपि मायाविनिर्मितचतुरङ्गादिदर्शनाद्भ- यादिकं जायत इति तदपि मायाविप्रदर्शितपदार्थज्ञानस्य सत्यस्यैवेत्यवगच्छतो यथाश्रुतमेव साध्वित्युत्पत्स्यामः । ननु स्वाप्नरम्भासम्भोगादौं धातुविसर्जनरूपार्थक्रियाकारित्वे विद्यमानेऽपि न तत्र सत्यत्वमित्याशङ्क्य निषेधति ॥ स्वाप्नेति । आदिपदेनानिष्ट सूचककृष्णपुरुषमर्कटास्कन्दनादिपरिग्रहः । स्वाप्नार्थानां सत्यत्वमभिप्रेत्याह ।। पक्षेति । ततश्च किमित्यत आह ।। न हीति । अनुमानमात्रोच्छेदकतया स्वव्याहतत्वादिति भावः । ननु स्वाप्ने व्यभिचाराभावेऽपि रज्ज्वामारोपित भुजङ्गस्यासत्यस्य भयकम्पादिरूपार्थक्रियाकारित्वदर्शनाव्यभिचार इति शङ्कते ॥ रज्ज्वति । आदिपदेन सवितृसुषिरादिपरिग्रहः । न रज्जुभुजङ्गादे - र्भयादिजनकत्वम् । सत्यप्यर्थे तदज्ञाने भयादेरदर्शनात् । असत्यप्यर्थे तज्ज्ञाने सति तस्य दर्शनेनान्वयव्यतिरेकाभ्यां रज्जुसर्पादिज्ञानमेव भयादिजनकं न तु रज्जुसर्पादि । ज्ञानं च सत्यमिति भावेन परिहरति ।। तज्ज्ञानस्येति । ननु चार्थस्य मिथ्यात्वे ज्ञानस्यापि मिथ्यात्वाङ्गीकारादेवमपि व्यभिचारताद- वस्थ्यमिति चेन्न । अज्ञानस्यावच्छेदकस्यानिर्वचनीयत्वेऽपि तदवच्छिन्नाज्ञान- हानेर्ब्रह्माभिन्नायाः पञ्चमप्रकारायाः सदसद्वैलक्षण्यलक्षणानिर्वाच्यत्वा- भावादिति भावः ।

Loading…