Join Tattvasudhā to study.

मिथ्यात्वानुमानस्यानुमानविरोधः

§14Mūla

ननु ज्ञानमात्रमेव भयकम्पादिजनकमर्थविशेषितं वा । आद्ये सकलज्ञानानां भयकम्पादिजनकत्वप्रसङ्कः । द्वितीये सर्पस्यापि तज्जन- कत्वमायातमिति चेन्न । सर्पतया ज्ञातरज्जोरेव विशेषणत्वेन व्यभिचारा- भावात् । सर्पाजन्यत्वाच्च । आत्मन्यर्थक्रियाकारित्वं नास्तीति चेन्न । तस्य निखिलप्रपञ्चकारणत्वेन श्रुतिशतसमधिगतत्वात् । सोऽपि पक्षनिक्षिप्तश्चेन्म- हायानिकपक्षपातः स्यात् । तदतिरिक्तात्माभ्युपगमान्नैवमिति चेन्न । तदतिरिक्तस्याप्येतद्विशेषणवत्तया पक्षनिक्षेपात् ।

ननु सर्पादिज्ञानस्य भयादिजनकत्वेऽप्यर्थानवच्छिन्नस्य केवल- ज्ञानस्य वा तज्जनकत्वमुतार्थावच्छिन्नस्य विशिष्टस्य वा । आद्यस्याति- प्रसङ्गदुष्टतया द्वितीयेऽङ्गीकार्ये आगतमसतोऽप्यर्थक्रियाकारित्वमिति भावेन शङ्कते || नन्विति || ज्ञानमात्रमिति । न त्वर्थविशेषितमित्यर्थः ।। सकलेति । घटादिज्ञानानामपीत्यर्थः । सर्पस्यापीति । विशेषणानन्वयिनो विशिष्टान्व- यायोगादिति भावः । अर्थावच्छिन्नं ज्ञानं भयादिजनकमेवमपि न सर्पस्यार्थ - क्रियाकारितेति भावेन परिहरति ।। नेति । रज्जोरेवाधिष्ठानभूताया इति शेषः । सर्पज्ञानं प्रति तस्या एव विषयत्वेन विषयस्यैव व्यावर्तकत्वात्तस्य च सत्यत्वेन न काचिदनुपपत्तिरित्यर्थः । इदं चार्थावच्छिन्नं ज्ञानं हेतुरित्यभ्युपे - त्योक्तम् । वस्तुतस्त्वर्थानवच्छिन्नं सर्पादिज्ञानमेव भयादिहेतुः । न चासर्पज्ञानस्यापि हेतुताप्रसङ्गः । विषयावच्छेदमन्तरेण धर्मान्तरेणासर्पज्ञाना- व्यावृत्तेः । तथा हि । सर्पज्ञानमसर्पज्ञानव्यावर्तकधर्मोपेतं ततो व्यावृत्तत्वा- त्सम्मतवदित्यनुमानात्तत्सिद्धिः । न च विषयेणार्थान्तरता । तस्यातद्धर्म- त्वात्। नापि विषयसम्बन्धेन । ज्ञानज्ञेययोः संयोगादेरभावात् । स्वरूप- प्रत्यासत्तेश्च ज्ञानस्वरूपानतिरिक्तत्वेन तव्यावर्तकत्वायोगात् । किञ्च सत्य- सर्पज्ञानं विषयोपाधिमनपेक्ष्यासर्पज्ञानाद्विलक्षणम् । तज्जनकविलक्षणजनक- जन्यत्वात् । परोक्षज्ञानजनकविलक्षणजनकजन्यापरोक्षज्ञानवत् । न चासिद्धिः । असर्पज्ञानजनको यो सर्पेन्द्रियसंयोगस्तद्विलक्षण सर्वेन्द्रियसंयोग- जन्यत्वात्सर्पज्ञानस्य । न च दृष्टान्तस्य साध्यवैकल्यम् । एकविषयकयोरपि परोक्षत्वापरोक्षत्वलक्षणवैलक्षण्यदर्शनेनापरोक्षत्वस्य विषयोपाधिकत्वाभावात् । न च विलक्षणजनकजन्यत्वं सर्पस्य विषयसम्बन्धरूपवैलक्षण्येनैवोपपन्नमिति तदतिरिक्तवैलण्यसाधनेऽप्रयोजकता । यवबीजविलक्षणकलमबीजजन्यत्व- स्यापि कदाचिद्देवदत्तादिरूपसम्बन्धवैलक्षण्येनैवोपपत्त्या कलमबीजजन्याङ्कुरस्य यवबीजजन्यत्वात्स्वतो वैलक्षण्यरूपकलमाङ्कुरत्वस्य कदाचिदभावप्रसङ्गा- दिति । एवञ्चानेनानुमानेन सत्यसर्पज्ञानस्य स्वतो वैलक्षण्ये सिद्धे तन्यायेना- सत्यसर्पज्ञानस्यापि स्वतो वैलक्षण्यसिद्धेर्ज्ञानस्यैव भयादिजनकत्वं नार्थस्य न वाऽतिप्रसङ्ग इति । उक्तं च मिथ्यात्वानुमानखण्डनटीकायाम् । तत्रापि तज्ज्ञानस्यैव साधकत्वात् । ज्ञेयभेदानवच्छिन्नस्य ज्ञानमात्रस्याति प्रसङ्गित्वा - तदवच्छिन्नस्य सिद्ध्यङ्गतायां तस्याप्यङ्गत्वमिति चेन्न । दोषवशात्सत्यत- द्विषयज्ञानसदृशज्ञानस्याङ्गताऽङ्गी कारादित्यादिनाऽनवच्छिन्नस्य ज्ञानस्य हेतुत्वम् । एतेन मिथ्यात्वज्ञानं प्रति व्यावृत्तिधीहेतुत्वरूपव्यावर्तक- त्वमस्तीत्यसतोऽपि हेतुतेति निरस्तम् । विषयमनपेक्ष्य ज्ञान एव व्यावर्तकधर्मोक्तेः । न च तर्हि तेनैवासाधारणधर्मेण व्यवहारः स्यान्न तु सर्पज्ञानं घटज्ञानमित्यर्थस्य व्यावर्तकतया व्यवहारः इति वाच्यम् । व्यवहारदशायामनुभवसिद्धसत्ताऽपि तस्य ज्ञानगतविशेषस्य क्षीरमाधुर्यादि- बद्विशिष्याख्यातुमशक्त्या क्षीरपदवत्तदुपलक्षकं सर्पादिपदमेवानुप्रयुक्त- मित्यास्तां विस्तरः । नन्वर्थक्रियाकारित्वादित्यत्र न विशिष्टात्मा दृष्टन्तस्तस्य सत्यत्वाभावेन पक्षनिक्षेपात् । न शुद्धात्मा तस्य सत्यत्वेऽप्युदासीनस्य नार्थक्रियाकारित्वम् । तथा च साधनविकलो दृष्टान्त इति शङ्कते ॥ आत्मनीति । अत्रापि पूर्वानुमान इवासाधारणस्य दूषणत्वाभावपक्षेऽसद्दृष्टान्तेन व्यतिरेकित्वोपपत्तेरिति वक्तुं शक्यम् । तथाऽपि वस्तुस्थितिमनुरुध्य गूढाभिप्रायेण परिहारमाह ॥ नेति । ऐन्द्रजालिकसृष्टिवन्मायिकं किन्न स्यादित्यत उक्तं श्रुतिशतेति । यतो वा इमानि भूतानि जायन्ते, द्यावाभूमी जनयन्देव एकः, सत्यः सोऽस्य महिमा, सत्यकर्मा महात्मा, याथातथ्य- तोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य इत्यादिभिर्जगत्कारणत्वावगमादित्यर्थः । अन्यथा श्रुतेरप्रामाण्यापत्तेरिति भावः ॥ सोऽपीति । जगत्कारणत्वेन श्रूयमाणोऽपीत्यर्थः । स्वाशयमुद्घाटयति ।। महायानिकेति । जगत्कारणत्वेन श्रूयमाणस्याप्यात्मनो मिथ्यात्वे आत्ममिथ्यात्ववादिषु बौद्धेषु पक्षपात: कृतः स्यात् । बौद्धमतप्रवेशापत्तिरिति यावत् । ननु विशिष्टात्मान्यस्य शुद्धस्यात्मनो मयाऽङ्गीकारान्न बौद्धपक्षपातः स्यादित्याशङ्कते । तदिति ॥ एतद्विशेषणेति । विशिष्टात्मातिरिक्तत्वरूपविशेषणविशिष्टस्य मिथ्यात्वेन पूर्वदोषानिस्तार इति भावः ।

Loading…