Join Tattvasudhā to study.

मिथ्यात्वानुमानस्यानुमानविरोधः

§14Mūla

किञ्च विशिष्टस्याप्यात्मनोऽर्थक्रियाभ्युपगमादा- त्मांशस्य सा कथं न स्यात् । व्यावहारिकत्वं च विश्वसत्यतायां प्रमाणम्। अभिज्ञाऽभिवदनादीनामपि शुक्तिमात्रविषयत्वात् ॥ छ ॥ मिथ्यात्वानुमानस्यानुमानविरोधः ॥ छ ॥

ननु सविशेषणे हीति न्यायेनातिरिक्तत्वरूपविशेषणमात्रमेव मिथ्या न तु विशेष्यमपि तत्सत्त्वबोधकानेकागमविरोधात् । तथा च न दोष इत्यनुशयेनाह । किञ्चेति ॥ आत्मांशस्येति 1 विशिष्टान्वयिनो विशेष्यान्वयस्य नियतत्वात् । स्वर्गी ध्वस्तो, लोहितोष्णीषा, ऋत्विजः प्रचरन्ति न जीर्णमलवद्वासाः स्नातकः स्यादित्यादौ विशेष्यान्वयेन न विशिष्टान्वयोऽपि तु विशेषणमात्रान्वयित्वमेवेति ध्येयम् । ननु विष्णवे शिपिविष्टाय शक्ष्यते चरुमित्यादौ देवतात्वं यथा विशिष्टनिष्ठं न तु विशेष्यगतं तद्वदिहापि विशिष्ट एवार्थक्रियाकारितेति चेत्तद्वदेव विशेषणेऽप्यर्थ- क्रियाकारिता न स्यात् । विशेष्यविशेषणोभयानन्वयिनो विशिष्टान्वयायोगेन जगत्कारणत्वश्रुतयो निरालम्बना: प्रसज्येरन् । मिथ्यात्वमपि विशिष्ट एव न तु विशेषण इत्यपि सुवचत्वाच्च । वस्तुतस्तु परेणापि शुद्धात्मनोऽज्ञान- सुखादिसाधकत्वस्याङ्गीकृतत्वेन न साधनवैकल्यमिति बोध्यम् । अन्यथा साक्षी चेता केवलो निर्गुणश्च तेभ्यो विलक्षण: साक्षी चिन्मात्रस्तुरीयं तत्सर्वदृक् सदेत्यादिश्रुतिविरोधात् । अत्र चिन्मात्रस्य साक्षिपदेन दृक्पदेन साधनतोक्तेः । उक्तं चानुव्याख्याने । " साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता । स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनरिति । न चार्थक्रियाकारित्वेऽपि सत्त्वेन भाव्यमित्यत्र नियामकाभावाद- प्रयोजकत्वम् । ब्रह्मण्यर्थक्रियाकारित्वरूपहेतुं प्रति सत्यत्वस्यैव प्रयोजकत्वेन क्लृप्तत्वादसति च सत्यत्वाभावेनार्थक्रियानुपलम्भाच्च । एवञ्च प्रयोजकं विना प्रयोज्यं स्यादिति शङ्कायाः स्वव्याहतत्वेनानुदयात् । उक्तं च व्याघाताव- धिराशङ्केति । न चात्मत्वमुपाधिः । प्राग्वदेवोक्तहेतुनाऽबाध्यत्वादि- रूपस्यात्मत्वस्य पक्षे साधनसम्भवेन साधनव्यापकत्वात् । अन्यथा ब्रह्मणोऽप्यात्मत्वाभावप्रसङ्गादिति साध्याव्यापकत्वाच्चेति ध्येयम् । किञ्च विमतं सत्यं व्यावहारिकत्वादात्मवदित्यनुमानान्तराच्च सत्यत्व- सिद्धिरित्यभिप्रेत्याह || व्यावहारिकत्वं चेति । साध्यं प्राग्वव्याख्येयम् । ननु व्यावहारिकत्वं नाम व्यवहारविषयत्वं तत्र व्यवहारशब्देनाभिज्ञोच्यते उताभिलपनमथ प्रवृत्तिः । सर्वथाऽपि शुक्तिरूप्यादौ व्यभिचार इत्यत आह ।। अभिज्ञेति । यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इत्यनित्यज्ञाने व्यवस्था । तथा चेह शुक्तिसन्निकृष्टेन चेन्द्रियेण दोषवशाच्छु- क्तिरेव रूप्यतया प्रतीयत इत्यभिज्ञा तावत्तद्विषयैव । तज्जन्यव्यवहारश्च तद्विषयविषये भवितुमर्हतीति सोऽपि तस्यामेव । प्रवृत्तिश्च तद्विषयेत्यत्र न कस्यापि विवाद इति भाव: । ब्रह्म वृत्तिव्याप्यमिति मते तस्याप्यभिज्ञा- विषयत्वान्न साधनशून्यं निदर्शनम् । असद्वा व्यतिरेकिदृष्टान्तः असाधारण्यस्यागृह्यमाणविशेषदशायामेव दोषत्वादिह चासतो व्यावहारि- कत्वादर्शनेन सत्यत्वाभावे व्यावहारिकत्वमेव न स्यादिति हेतूच्छित्तिरूपस्य विपक्षे बाधकतर्कस्य विशेषस्य दर्शनात् । एतेनोपाध्यप्रयोजकत्वादि- शङ्कानवकाशा वेदितव्येति सुस्थो मिथ्यात्व हेतूनामनुमानबाध इति ।। छ । ।

Loading…