Join Tattvasudhā to study.

मिथ्यात्वानुमानस्यानुमानविरोधः

§14Mūla

दोषगम्यत्वमुपाधिश्व । न च दृश्यत्वादिना प्रपञ्चेऽपि तत्साध्यम् । मिथ्यात्वसाधन इवात्रापि दोषप्रसक्तेः ॥ छ ॥ मिथ्यात्वानु- मानस्य सोपाधिकत्वसमर्थनम् ॥ छ ॥

एवं मिथ्यात्वहेतूनां प्रत्यक्षागमानुमानैर्बाधितविषयत्वमभिधायाधु- नोपाधिं चाह । दोषेति । चशब्दो दूषणसमुच्चयार्थः । दोषेण गम्यत्वं दोषगम्यत्वं दोषजन्यज्ञानविषयत्वमित्यर्थः । मिथ्यात्वेन सम्मते शुक्ति- रूप्यादौ तस्य सत्त्वेन साध्यव्यापकत्वात् साधनवति पक्षे कॢप्ताति- दूरस्थत्वातिसामीप्यसौक्ष्म्यसमानद्रव्यभिघातादिदोषाणामभावस्य निश्चितत्वेन दोषगम्यत्वस्याभावात्साधनाव्यापकत्वमिति भावः । ननु दोषगम्यत्वं नोपाधिः साधनव्यापकत्वात् । विमतं दोषगम्यं दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाद्वा शुक्तिरूप्यवदिति तस्य पक्ष एव साधनसम्भवादित्याशङ्क्य निषेधति ॥ न चेति । यथा शुक्तिरजते तथा प्रपञ्चेऽपीत्यपेरर्थः । तत् दोषगम्यत्वमित्यर्थः । कुतो न साध्यमित्यतो हेतुमाह ।। मिथ्यात्वेति । अत्रापि दोषगम्यत्व- साधनेऽपीत्यर्थः । अयमाशयः । यथा मिथ्यात्वे दृश्यत्वादिना साध्ये दोषगम्यत्वमुपाधिरेवं दोषगम्यत्वे साध्ये मिथ्यात्वमुपाधिः स्यात् । न चोभयं युगपत्साध्यम् । तथाऽप्यन्यतरस्योपाधित्वानिस्तारात् । किञ्च यथा स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः शाकपाकजत्वसाधने श्यामत्व- मुपाधिरुभयसाधने त्वर्थान्तरमित्युच्यते । एवं दोषगम्यत्व मिथ्यात्वयोर्द्वयोरपि युगपत्साधनेऽर्थान्तरत्वं दूषणं बोध्यम् । मिथ्यात्व एव विप्रतिपत्तेरिति । ननु तर्हि शाकपाकजत्ववदेवायं साधनाव्यापकत्वसन्देहात्सन्दिग्धोपाधिरेव स्यान्न निश्चितोपाधिरिति चेत् । सत्यम् । तथाऽपि पक्षे स्वाव्यावृत्तिसन्देहेन साध्यसन्देहाधायकत्वेन सन्दिग्धोपाधेरपि दूषकत्वात् । न चानुमानमात्रो- च्छेदकतया साध्यसन्देहस्यानुमित्यप्रतिबन्धकत्वेनादोषत्वमिति वाच्यम् । स्वरसवाहिनः साध्यसन्देहस्यानुमित्यप्रतिबन्धकत्वेऽप्युपाध्यादिशङ्काहितस्य बाधसन्देहोत्थापकतया वा सन्दिग्धानैकान्तिकोत्थापकतया वा तत्प्रति- बन्धकत्वेन स्वीकारात् । उक्तं च तत्त्वनिर्णयटीकायाम् । अन्यतरप्रामाण्येऽपि व्याघातसम्भवेन सन्दिग्धकालातीतत्वस्यानैकान्तिकत्वस्य वाऽऽपातादित्य- प्रयोजकत्वशङ्काहितस्य तस्य दोषत्वम् । यद्वा यथा दृश्यत्वादिना मिथ्यात्वे साध्येऽसिद्धविरुद्धानैकान्तिकत्वकालात्ययापदिष्टत्वादयो दोषा अभिप्रेतास्तथा तेनैव हेतुना दोषगम्यत्वस्यापि पक्षे साधनेऽसिद्धत्वादयो दोषाः प्रादुष्युः । तथा च दृश्यत्वादीनां पक्षे दोषगम्यत्वसाधनासमर्थत्वेन पक्षे तदसिद्धौ साधनाव्यापकत्वनिश्चयात्साध्यव्यापकत्वस्य च शुक्तिरूप्यादौ निश्चितत्वेन तद्व्यावृत्त्या पक्षे साध्याभावं निश्चयितुं समर्थमिति भवत्युपाधिरिति । इदमुपलक्षणम् । विमतं प्रातिभासिकं दृश्यत्वाच्छुक्तिरूप्यवदित्यपि साधन- सम्भवेनाभाससाम्यं च बोध्यम् ॥ छ ॥

Loading…