Join Tattvasudhā to study.

मिथ्यात्वानुमानस्य दृष्टान्ते साध्यवैकल्यनिरूपणम्

§15Mūla

अनिर्वचनीयत्वाविद्यातत्कार्ययोरन्यतरत्वस्य मिथ्यात्वा- भिप्राये निदर्शनस्य साध्यविकलत्वं च । ननु कादाचित्कत्वहेतुना सकारणकत्वानुमाने कारणस्य सदसद्रूपत्वासम्भवादविद्याकार्यत्वमेव पर्यव - स्यतीति चेन्न । केयं कादाचित्कता नाम । कदाचित्प्रतीतता वा कदाचिदुत्पन्नता वा । नाद्यः । व्याप्त्यभावात् । नोत्तरः । हेतोरसिद्धत्वात् । तस्मान्न त्रिविधोऽप्ययं प्रयोगो युक्तिपथमवतरतीति ॥ छ ॥ मिथ्यात्वानु- मानस्य दृष्टान्ते साध्यवैकल्यम् ॥ छ ॥

एवं मिथ्यात्वहेतूनां सोपाधिकत्वमुक्त्वा दृष्टान्ते साध्यवैकल्यं चाह || अनिर्वचनीयत्वेति I निदर्शनस्य शुक्तिरूप्यस्यासत्त्वसद्विविक्त- त्वादिरूपमिथ्यात्वे विवक्षिते तस्य शुक्तिरूप्यादौ सिद्धान्तेऽपि सत्त्वान्न साध्यहीनतेत्यत उक्तमनिर्वचनीयत्वेति । तथा चानिर्वचनीयत्वस्याविद्या- तत्कार्ययोरन्यतरत्वस्य वा मिथ्यात्वस्य विवक्षायां साध्यहीनतेत्यर्थः । तयोः सिद्धान्ते तत्रानङ्गीकारादिति । ननु न दृष्टान्तः साध्यहीनस्तस्यानिर्वचनीयत्वं साधकलक्षणप्रमाणयोर्मिथ्यात्वरूपसाध्यविकल्पखण्डनवेलायां खण्डितत्वे- नानिर्वाच्यत्वरूपसाध्याभावेऽप्यविद्याकार्यत्वरूपमिथ्यात्वं सम्भवत्येव । तथा हि । विमतं शुक्तिरूप्यं सकारणकं कादाचित्कत्वाद्धटवदिति तस्य सकारण - कत्वे सिद्धे तच्च कारणं न सत् । तज्जन्यस्य रूप्यस्यापि सत्त्वापत्त्या बाधायोगात् । नाप्यसत् । तस्य कारणत्वासम्भवात् । नोभयं विरोधात् । ततोऽनिर्वचनीयमेव तत्कारणमेषितव्यम् । सैव चाविद्येति सामान्यपरि- शेषाभ्यामविद्याकार्यत्वसिद्धेरिति भावेन शङ्कते ॥ नन्विति ॥ सकारण- कत्वेति । कारणशब्दश्चोपादानपरः । शुक्तिरूप्यस्येति शेषः ।। सदसद्रूप - त्वेति । सद्रूपत्वासद्रूपत्वयोः सदसद्रूपत्वस्य चेत्यर्थः । असम्भव-श्वोक्तरीत्या बोध्यः ।। व्याप्त्यभावादिति । आसंसारमज्ञानावृतस्य शुद्धस्य वेदान्तजन्य- चरमसाक्षात्कारेण कदाचित्प्रतीतत्वे विद्यमानेऽपि सकारणकत्वा- भावात्तुच्छस्यापि शब्दादिना कदाचित्प्रतीतिसम्भवेन च व्यभिचारादिति भावः ।। असिद्धत्वादिति । मन्मते तस्यासिद्धत्वात् । त्वन्मते च तस्य सद्विलक्ष- णत्वेन सत्तन्त्रस्य कादाचित्कसत्त्वस्याभावेन सकारणकत्वानुपपत्तेरिति भावः । न च सकारणकत्वेऽसद्वैलक्षण्यमेव तन्त्रम् । न तु कादाचित्क- सत्त्वमिति वाच्यम् । गौरवेण तस्यातन्त्रत्वात् । ब्रह्मणोऽपि सकारणकत्वा- पत्तेश्चेति । अतः साध्यहीनत्वं दृष्टान्तस्य सुस्थमिति भावः । एवं दृश्यत्वादिहेतूनां दूषणान्यभिधायोपसंहरति ।। तस्मादिति । उक्तदूषण- गणादित्यर्थः । त्रिविधो दृश्यत्वजडत्वपरिच्छिन्नत्वलक्षण: || युक्तिपथमिति । युक्तेर्निर्दोषानुमानस्य यः पन्था असिद्धत्वाद्याभासशून्यत्वरूपस्तन्न प्राप्नोति । अनेकहेत्वाभासलंक्षणलक्षितोऽयं न स्वसाध्यं साधयितुमलमिति ॥ छ ॥

Loading…