Join Tattvasudhā to study.

मिथ्यात्व हेतूनां प्रतिकूलतर्कपराहतिः

§16Mūla

किञ्च यदि जगत् भ्रान्तिकल्पितं स्यात्तर्हि कल्प्यमानजगत्सदृशसत्याधिष्ठानप्रधानपूर्वकमङ्गीकार्यं प्रसज्येत । न च सत्यजगद्वयाङ्गीकारो युक्तः । पिण्याकयाचनार्थं गतस्य खारीतैलप्रदानप्रतिज्ञावदधिकापातात् । ततो नेदं जगद्भान्तिकल्पितमिति तर्कपराहतं दृश्यत्वाद्यनुमानम् । किञ्च कल्पनाया आरोप्यसदृशाधिष्ठानप्रधानपूर्वकत्वं व्यापकम् । तच्चात्र नास्ति । सत्यजगद्वयाङ्गीकारादस्यैव जगतः सत्यत्वाङ्गीकारस्य लघुत्त्वात् । अतो व्याप्यकल्पनापि नास्तीति प्रमाणविरोधः । तथा च प्रयोगः । प्रपञ्चो न भ्रान्तिकल्पितः । निरधिष्ठानत्वान्निष्प्रधानत्वादात्मवद्व्यतिरेकेण वा रजतवत् । विपक्षे त्वारोप्यसदृशाधिष्ठानप्रधानभूतसत्यजगद्द्वयाङ्गीकारप्रसङ्गो बाधकः ।

– मिथ्यात्वहेतूनां प्रतिकूलपराहतिं चाह || किश्चेति ।। कल्प्यमानेति । कल्प्यमानं यज्जगत्तत्सदृशं सत्यभूतं यदधिष्ठानं यच्च प्रधानं तत्पूर्वकं स्यादित्यर्थः । यद्भान्तिकल्पितं तत्तादृशसत्यवस्तुद्वयपूर्वकं यथा शुक्ति- रूप्यमिति व्याप्तेरिति भावः । आपाद्यस्यानिष्टत्वमाह । न चेति । कुतो न युक्तमित्यतो दृष्टान्तपूर्वं हेतुमाह । पिण्याकेति । कश्चित्कञ्चित्पुरुषं पिण्याकं भक्षयितुं ययाचे । तदा स एनं बद्ध्वा खारीपरिमाणकं तैलं मह्यं दत्वा गच्छेत्युक्ते तर्हि दास्यामीति प्रतिज्ञा यथाऽधिका तद्वदेकस्य मिथ्यात्वं वक्तुमागतस्य तव सत्यवस्तुद्वयाङ्गीकारापातोऽधिक इत्यर्थः । विपर्यये पर्यवसानमाह ।। तत इति । सत्यद्वयाङ्गीकारस्यायोगादित्यर्थः । ननु तर्कस्य प्रमाणानुग्राहकत्वेन स्वानुग्राह्यप्रमाणद्वारैव कस्यचिदर्थस्य साधकत्वं बाधकत्वं वा स्यान स्वत इति मन्यमानं प्रति तदनुग्राह्यमनुमानं वक्तुमाह । किञ्चेति । वक्ष्यमाणप्रयोगे व्याप्यत्वासिद्धिवारणाय व्यतिरेकव्याप्तिं दर्शयति ॥ कल्पनाया इति । यद्यप्यवक्रत्वादन्वय एव प्रदर्यः । तथाऽप्येतत्प्रदर्शनं तु वक्ष्यमाणहेतोर्व्यभिचारशङ्कानिवृत्तिश्च कृताभवतीत्यभिप्रत्येति बोध्यम् ॥ व्यापकमिति । शुक्तिरूप्यादौ दर्शनादिति भावः । हेतोः पक्षधर्मतां च दर्शयति ।। तदिति । तादृशाधिष्ठानप्रधानपूर्वकत्वमित्यर्थः । अत्र जगत्कल्पनायामित्यर्थः । तत्र हेतुमाह । सत्येति । अधिष्ठानत्वेन प्रधानत्वेन च सत्यद्वयं तावदपेक्षितम् । अधिष्ठानप्रधानयोश्चारोप्येण सादृश्य- स्यापेक्षितत्वात् । जगत एव जगता सादृश्यसम्भवात्सत्यजगद्वयाङ्गी- कारादित्युक्तम् । अस्यैव विप्रतिपन्नस्यैवेत्यर्थः । व्याप्तिपक्षधर्मतावद्धेतूक्तिपूर्वं साध्यं निगमयति । अत इति । कल्पितत्वव्यापकाधिष्ठानादेरभावादित्यर्थः । कथमनुमानप्रयोग इत्याशङ्कायामाह ।। तथा चेति । व्याप्तिपक्षधर्मतयोः सिद्धत्व इत्यर्थः । हेतोरप्रयोजकतामुद्धर्तुं तदनुग्राहकं विपक्षे बाधकतर्कमाह ॥ विपक्ष इति । साध्यानङ्गीकारे कल्पितत्वानङ्गीकार इत्यर्थः प्रत्यक्षबाधादिरादिपदार्थ: ।

Loading…