Join Tattvasudhā to study.

मिथ्यात्व हेतूनां प्रतिकूलतर्कपराहतिः

§16Mūla

ननु यदुक्तं यद्भ्रान्तिकल्पितं तत्साधिष्ठानमिति तन्न । स्वाप्नपदार्थे व्यभिचारात् । तथा हि । स्वाप्नास्तावत्पदार्थाः भ्रान्तिकल्पिताः । सत्यत्वे हि तेऽनादिनित्या उतोत्पत्तिविनाशवन्तः । आद्ये प्रागूर्ध्वं चोपलभ्येरन् । द्वितीये किन्न बोधानन्तरमुपलभ्यन्ते । तदैवोत्पद्यविनष्टा इति चेन्न । असम्भावितत्वात् । किञ्चैवमुपादानानि निमित्तानि चोपलब्धव्यानि । अपि चैतानन्तः पश्यति बहिर्वा । नाद्यः । अल्पप्रदेशे महतां दर्शनासम्भवात् । नोत्तरः । पार्श्वस्थानामप्युपलम्भप्रसङ्गात् । केन चैते करणेनोपलभ्यन्ते । न तावद्बाह्येन्द्रियैः। तेषां तदोपरतत्वात् । नापि मनसा । तस्य बहिरस्वातन्त्र्यात् । किञ्च काश्यां सुप्तो मधुरां पश्यति तथा हेमन्ते सुप्तो वसन्तम् । न च तत्र तयोः सम्भवः । तस्माद्भ्रान्तिकल्पिताः । न चात्र किञ्चिदधिष्ठानमस्ति । आत्मनो भेदेनोपलम्भात् । न ह्यहं गज इति तदा प्रतीतिरस्तीति । एतदप्यविमर्शसुन्दरम् । तेषां सत्यत्वात् । तेन निरधिष्ठानत्वेऽपि न विरोधः ।

उक्तानुमाने च निरधिष्ठानत्वहेतोर्व्याप्तिहीनतामाशङ्कते ।। नन्विति ॥ व्यभिचारादिति । तत्र भ्रान्तिकल्पितत्वसत्त्वेऽपि साधिष्ठानत्वाभावादिति भावः । ननु तत्र कल्पितत्वमेव नास्ति येनोक्तदोषः स्यादित्याशङ्क्य तस्य कल्पितत्वं साधयितुं प्रतिजानीते ।। तथा हीति । ननु कथं भ्रान्तिकल्पितेति प्रतिज्ञा । अप्रामाण्यस्य परतस्त्वेन विषयान्यथात्वस्य बाधकैकाधीनज्ञान- त्वादित्यतः सत्यत्वे बाधकानि वक्तुं विकल्पयति ।। सत्यत्वे हीति । न च तृतीय : प्रकारोऽस्तीति भावः । प्रागूर्ध्वामिति । अनादित्वात्सुप्तेः पूर्वं जाग्रदवस्थायामुपलभ्येरन् । नित्यात्वाच्च सुप्त्युत्थानानन्तरमप्युपलभ्येरन्नित्यर्थः ॥ द्वितीय इति । किमिति काकुः । उपलभ्येरन्नेव । अनुपलम्भे हेत्वभावादित्यर्थः । उत्पद्यमानस्य प्रागसत्त्वेन प्रागनुपलम्भसत्त्वेऽप्युत्पन्नस्य कियत्कालं स्थायित्वनियमेन सुप्त्युत्थानानन्तरमप्युपलम्भः स्यादेवेति भावः । ननु स्वप्ने चोत्पन्नानां तदानीमेव नाशान्नोत्थानान्तरं तदनुपलम्भो दोष इत्याशङ्क्य क्वापि तादृशवस्तुनोऽदृष्ट्याऽयोगादित्याह । तदैवेति । स्वप्नदशायामेवेत्यर्थः । एतेन तस्य प्रमाणेन सत्यत्वसाधनं च परास्तम् । उक्तं च सम्भावितः प्रतिज्ञाया अर्थ: साध्येत हेतुनेति । विद्युद्बुद्बुदादौ तथा दर्शनादसम्भावितत्वमसिद्धमित्यरुचेराह ॥ किञ्चेति ।। उपलब्धव्यानीति । प्रागूर्ध्वमिति शेषः । सत्यत्वे पदार्थस्वरूपं खण्डयित्वा प्रतीतिमपि खण्डयति ॥ अपि चेति । अन्तर्हृदयाकाशे । बहिर्देहाद्बहिरित्यर्थः ।। महतामिति । गजतुरगपर्वतसरित्सागरादीनां दर्शने हृदयविदारणप्रसङ्ग इत्यर्थः || पार्श्वस्थानामिति । सुप्तस्योभयापार्श्वे जाग्रतां पुंसामित्यर्थः । बहिः पश्यतीति पक्षे प्रतीतिकारणमपि दुर्वचमित्याह ॥ केन चेति । देशविशेषस्य कालविशेषस्य च दर्शनात्तदा तत्र तयोरसत्त्वादकामेनापि तस्य कल्पितत्वं वाच्यमित्याह । किञ्चेति । तत्रेत्यनन्तरं तदेति शेषः । प्रतिज्ञातं साध्यं निगमयति ॥ तस्मादिति । सत्यत्वे बाधकसद्भावादित्यर्थः । एवं साध्याभावमुपपाद्य तत्र निरधिष्ठानत्वहेतुं चोपपादयति ।। न चेति । नन्वात्मन एवाधिष्ठानत्वात्कथमेवमित्यत आह ।। आत्मन इति । तस्याधिष्ठानत्वे इदं रूप्यमितिवदहं गज इत्यधिष्ठानसम्भेदेनैव धीः स्यादिति भावः 1 भेदोपलम्भमेवोपपादयति ।। न हीति । तस्मात्तत्र व्यभिचार इत्यर्थः । इतिशब्दः पूर्वपक्षसमाप्तौ । उपन्यस्तं पूर्वपक्षं प्रतिक्षिपति ।। एतदपीति । न केवलं विश्वमिथ्यात्ववर्णनमापातरमणीयमित्यपेरर्थः I न हि प्रति- ज्ञामात्रेणार्थसिद्धिरित्यत आह ।। तेषामिति । तेनेति । अकल्पितत्व- रूपसाध्यसत्त्वेनेत्यर्थः ।

Loading…