Join Tattvasudhā to study.

मिथ्यात्व हेतूनां प्रतिकूलतर्कपराहतिः

§16Mūla

ननु सत्यत्वे बाधकमुक्तम् । मैवम् । उत्पत्तिविनाशाङ्गीकारात् । न च प्रागूर्ध्वमुपलम्भप्रसङ्गः । विद्युदादिवत्तात्कालिकत्वसम्भवात् । तर्ह्युपादानाद्युपलब्धिः स्यादिति चेन्न । वासनोपा- दानकत्वात्। वासनानां चातीन्द्रियत्वादनुपलब्धिर्युज्यते । निमित्तादिकं त्वदृष्टेश्वरादिकमिति । अतीन्द्रियकार्यस्यापि त्र्यणुकवदुपलम्भः सम्भवति । अत एवान्तर्मनस उपलब्धिर्युज्यते ।

पूर्वोक्तदूषणान्युद्धर्तुं शङ्कामुपक्षिपति । नन्विति । उपादानानुपलम्भं समर्थयिष्यमाणस्तदनुगुणमुपादानमाह ।। वासनेति । संस्कारेत्यर्थः । तत्र निमित्तकारणकर्तृजिज्ञासायामाह || निमित्तेति । आदिपदार्थः कर्ता । ननु स्वाप्नपदार्थानामतीन्द्रियवासनो पादानकत्वेनोपादेयानामनुपलम्भः स्यादित्या- शङ्क्याह ।। अतीन्द्रियेति । अतीन्द्रियद्व्यणुककार्यत्र्यणुकस्येवेत्यर्थः । अत एवोपलम्भदेशकारणयोः खण्डनमप्ययुक्तमित्याह ।। अत एवेति । वासनो- पादानकत्वादेवेत्यर्थः । अन्तर्हृदयदेशे । तज्जन्यानां गजपर्वतादीनामति- सूक्ष्मत्वादिति भावः । एतेन मधुरादिदर्शनं च समाहितं बोध्यम् । नन्वेवं स्वप्ने स्वशिरश्छेदादिप्रतीतिरनुपपन्ना । तस्याननुभूतत्वेन वासनासम्भवादिति चेन्न । मनसस्तावदनादित्वं प्रसिद्धम् । अन्यथा संसारस्य सादित्वप्रसङ्गात् । मन एव मनुष्याणां कारणं बन्धमोक्षयोरित्युक्तेः । तथा च तस्य मनसो जन्मान्तरानुभूतवस्तुवासनारूपेण परिणामसम्भवेनादोषत्वात् ननु रूपादिहीनाया वासनायाः कथं रूपादिमद्गजादित्वेन परिणाम इति वाच्यम् । वेदान्तिनां नीरूपादपि वायो रूपवतोऽग्नेरुत्पत्तेः सम्मतत्वात् । स्यादेतत् । यदि स्वाप्नपदार्थानां सत्यत्वं प्रमाणसिद्धं स्यात्तत्सर्वं कल्प्येत । तदेव कुत इति चेन्मैवम् । प्रामाण्यस्य स्वतस्त्वात् । स्वाप्नपदार्थप्रतीत्यैव तत्सत्त्वसिद्धेः। तत्प्रामाण्यापवादकस्य बाधकस्य सर्वस्य परिहृतत्वात् । किञ्च बृहदारण्यके न तत्र रथा न रथयोगा न पन्थानो भवन्तीति प्रागभावमुक्त्वाऽथ रथान्रथयोगान्पथः सृजते इति य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाण इत्यादिश्रुत्या, मनोगतांश्च संस्कारान्स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स स्वप्न इति गीयते ॥ इत्यादिस्मृत्या सन्ध्ये सृष्टिराह हि, निर्मातारं चैके पुत्रादयश्च, मायामात्रं तु कात्स्नर्येनानभिव्यक्तस्वरूपत्वादिति सूत्रैश्च तत्सिद्धेश्च । ननु यदि स्वाप्नं जगत्सत्यमिति सूत्रकाराभिमतं तर्हि वैधर्म्याच्च न स्वप्नादिवदिति सूत्रं कथितमिति चेदित्थम् । यत्तत्र बाह्यपदार्थोपादानकत्वं बहिरनुभूतैक्यं च दृश्यते तदपेक्षं तत्सूत्रमित्यवगच्छ । बाह्यत्वारोपे चाधिष्ठानादिकमस्त्येवेति न व्याप्तिभङ्गः । गजमद्राक्षं किन्त्वसौ स्वाप्न एव न बाह्य इत्येव हि प्रतीतिरुत्थितस्योत्पद्यते । उक्तं च तत्त्वनिर्णये भगवत्पादैः । स्वप्नेऽपि वासनारूपं सत्यमेव जगन्मनसि स्थितं बहिष्ठत्वेन दृश्यत इति । नन्वथाऽपि पीतः शङ्खो नभो नीलं तिक्तो गुड इत्यादौ प्रधानाधिष्ठानयोः सम्भवेऽपि सादृश्याभावान्नारोप्यसदृशसत्यवस्तुद्वयपूर्वकत्वमिति चेन्न । तस्य सोपाधिक- भ्रमत्वेन निरुपाधिकभ्रमे सादृश्यनियमात् । द्रव्यत्वादिना किञ्चित्सादृश्यस्य तत्रापि सत्त्वाच्च । अङ्गीकृतैव परेणाप्येषा व्याप्तिः । यदवोचत स्मृतिरूप: परत्र पूर्वदृष्टावभासोऽध्यास इति । अत्र हि स्मृतिरूपपदेन सादृश्यमङ्गीकृतम् । परत्रेत्यधिष्ठानं पूर्वदृष्टेति प्रधानम् । अत एव केशोण्डूकादिभ्रमस्य निरधिष्ठानत्वमाशङ्क्य तेजशाधिष्ठानत्वेन समाहितम् । बालस्य गुडतिक्त - ताभ्रमे प्रधानाभावमाशङ्क्य जन्मान्तरानुभूतत्वोपपादनेन परिहार उक्तः । अत एव ग्रन्थकारैरेतद्व्याप्युपपादनार्थं नातीव पराक्रान्तम् । स्वप्नस्य तु सत्यत्वव्युत्पादनाय शङ्कासमाधाने कृते इति द्रष्टव्यम् ।

Loading…