मिथ्यात्व हेतूनां प्रतिकूलतर्कपराहतिः
निरधिष्ठानत्वमसिद्धम् । आत्मनोऽधिष्ठानत्वादिति चेन्न । आत्मनोऽधिष्ठानत्वासम्भवात् । नात्मा जगदारोपाधिष्ठानम् । अविषयत्वात् । तद्विरुद्धतया प्रतीयमानत्वात् । यथा पर्वतो न सर्षपारो- पाधिष्ठानम् । प्रपञ्चो वा नात्मन्यध्यस्तः । तद्विरुद्धतया प्रतीयमान- त्वात् । यथा सर्षपो न पर्वतेऽध्यस्तः । विरुद्धाकारप्रतीतावध्यासाङ्गीकारे तस्य कदाऽप्यनिवृत्तिप्रसङ्गः । किञ्च यदि जगदात्मन्यारोपितं स्यात्त- दाssत्मनो भिन्नत्वेन न दृश्यते । यद्यत्रारोपितं तत्ततो भिन्नत्वेन न प्रतीयते । यथा शुक्तिकायामारोपितं रजतं न शुक्तिकाया भिन्नत्वेन प्रतीयते भ्रान्तौ । दृश्यते चेदमिदानीं जगदात्मनो भिन्नत्वेन । तस्मान्न तत्रारोपितमिति ।
नन्वस्तु भ्रान्तिदृष्टस्य साधिष्ठानत्वनियमः । इहापि प्रपञ्चाध्यासे आत्मरूपाधिष्ठानमस्त्येव । स हि सर्वस्योपादानतया श्रूयते न चापरिणामिनः सा सम्भवति । अतोऽविद्योपादानके प्रपञ्चारोपेऽधिष्ठानमेव सिध्यतीति निरधिष्ठानत्वमसिद्धमिति शङ्कते । निराधिष्ठानत्वमिति । अविषयत्वादिति । घटादिप्रतीताविति शेषः । अध्यस्तसम्भिन्नत्वेन प्रतीतस्यैवाधिष्ठानत्वात् । न हि शुद्धस्वरूपं घट इति प्रतीयत इति भावः । ननु सन्घटः स्फुरति घट इति सत्प्रकाशानुविद्धतया घटः प्रतीयते । सत्प्रकाशात्मकश्चात्मेति कथमात्मनो घटादिसम्भिन्नतया प्रतीत्यभावः । असाधारणाकारानुवेधस्तु रजतादावपि नास्तीति चेन्न । रूपादिहीनस्यात्मन आसंसारमज्ञानावृतस्य वेदान्तजन्यच- रमसाक्षात्कारविषयस्य कथं चाक्षुषादिप्रतीतिविषयत्वमित्युक्तत्वात् । अधिकं तु तत्रैवानुसन्धेयम् ॥ तद्विरुद्धतयेति । जगद्ध्यनात्मत्वेन पराक्त्वेन दृश्यत्वादिना प्रतीयते । आत्मा त्वात्मत्वेन प्रत्युक्त्वेन दृक्त्वादिना प्रतीयते । तथा च जगद्विरुद्धधर्मतया प्रतीयमानं कथमधिष्ठानमित्यर्थः । तत्तेदन्ते स्वतान्यत्वे त्वत्तामत्ते परस्परम् । प्रतिद्वन्द्वितया लोके प्रसिद्धे नास्ति संशयः || इति स्वयमात्मेति च पर्यायाविति च परेणैवोक्तेरिति भावः । तद्विरुद्ध- तयेति । आत्मविरुद्धतयेत्यर्थः । ननु विरुद्धतया प्रतीतावारोपोऽस्तु को दोष इत्यतो विपक्षे बाधकमाह । विरुद्धेति । भ्रमकाले ज्ञातविरुद्धाकारदर्शनेन हि भ्रमस्य निवृत्तिः स्यात् । तद्यदि विरुद्धदर्शनेऽपि भ्रमस्तर्हि तस्य निवर्तकाभावात्कदाऽपि तस्य निवृत्तिर्न स्यात् । निष्प्रकारकज्ञानस्य च भ्रमानिवर्तकत्वादित्यर्थः । आत्मन उपादानत्वश्रुतिस्तु नास्त्येवेत्यन्यत्र विस्तरेणोपपादितत्वादिति भावः । ननु जगदारोपानङ्गीकारे प्रतियोग्यप्रसिद्ध्याऽनुमानयोरप्रसिद्धविशेषण- त्वमिति चेन्न । प्रतिषेध्यस्य परप्रसिद्ध्याऽप्यनुमानोपपत्तेः । अन्यथा प्रतितन्त्रसिद्धान्तस्य क्वापि प्रतिषेधाभावप्रसङ्गादिति बोध्यम् । युक्त्यन्त- रेणाप्यात्मनो जगदारोपाधिष्ठनत्वं निराकरोति । किञ्चेति । शुक्तिकाया- मारोपितमपि रजतं भ्रान्तेरुत्थितेन भिन्नत्वेन दृश्यत इत्यत उक्तं भ्रान्ताविति । तथा च न व्याप्तिभङ्ग इति भावः । विपर्यये पर्यवसानमाह || दृश्यते चेति । इदानीं तव भ्रमत्वेन सम्प्रतिपन्नदशायामित्यर्थः । भिन्नत्वेनेति धर्म्यारोपपक्षे बोध्यम् । धर्मारोपपक्षे त्वसंसृष्टत्वेनेति बोध्यम् । प्रत्यक्पराग्भावेन भेदप्रतीतेः स्पष्टत्वात् । परेणाप्यङ्गीकृतमित्युक्तत्वाच्च । प्राग्विरोधप्रतीतिरुक्तेदानीं तु भेदप्रतीतिमात्रमिति न पौनरुक्त्यमिति भावः । भेदेन प्रतीयमानमपि तत्रारोपितं चेत्कदाऽप्यारोपानिवृत्तिः स्यादिति विपक्षे बाधकं च बोध्यम् ।