Join Tattvasudhā to study.

मिथ्यात्व हेतूनां प्रतिकूलतर्कपराहतिः

§16Mūla

किञ्च ब्रह्मणि प्रपञ्चस्यारोपितत्वं वदन्नन्यत्र प्रपञ्चस्य सत्तामङ्गीकरोति न वा । आद्ये परस्य मिथ्यात्वप्रतिज्ञाहानिः । न चेत्कस्य कुत्रारोपः । न हि शशविषाणं क्वचिदारोप्यते । नास्माभिरन्यत्र सतः प्रपञ्चस्य ब्रह्मण्यारोपोऽभिधीयते । येन सर्वमिथ्यात्वप्रतिज्ञाहानिरापद्येत । किन्त्वनिर्वचनीयरूपः कश्चिदनात्माकारोऽयं प्रपञ्चो ब्रह्मण्यारोपित इत्यङ्गीक्रियत इति चेन्न । अनात्माकारः प्रपञ्च इति कोऽर्थः । किमात्म- नोsन्य उतात्मविरुद्ध उतात्माभावो वा । नाद्यद्वितीयौ । क्वचित्प्रपञ्चस्य सत्यतापातात् । न तृतीयः । आत्मन्यात्माभावारोपस्य क्वाप्यदृष्टत्वात् । न हि कश्चिदहमहं न भवामीति भ्रान्तो दृश्यते । विमत आत्माऽऽत्माभावारोपाधिष्ठानं न भवति । आत्मत्वाद्देवदत्तवत् ।

युक्त्यन्तरेणापि जगत आत्मन्यारोपितत्वं निषेधति ।। किञ्चेति । द्वितीय आह ॥ न चेदिति । अन्यत्र सत्त्वं न चेदित्यर्थः । रूप्यस्याप्यन्यत्र सत एव शुक्तिकादावारोपो दृष्ट इति भावः । तदेवोपपादयति ।। न हीति । प्रधानस्यान्यत्र सत्त्वाभावे आरोप एव न सम्भवतीत्येतदभिप्रायकत्वं किञ्चेति ग्रन्थस्य बुद्ध्वाऽन्यत्र सत एवान्यत्रारोप इत्यभिप्रायं बुद्ध्वा चोदयति ।। नास्माभिरिति । किन्त्वित्यादिनोक्तस्याभिप्रायं त्रेधा विकल्प्य दूषयति ॥ अनात्मेति ।। किमिति । नञस्तदन्यतद्विरुद्धतदभावार्थकत्वादिति भावः ॥ सत्यतेति । अन्यत्र सत्यस्यैव तदन्यस्य तद्विरुद्धस्य वा रूप्यादेः शुक्तिकादावारोपदर्शनादन्यथा शशशृङ्गादेरपि क्वचिदारोपः स्यादिति भावः । अदृष्टत्वमेवोपपादयति ॥ न हीति । अहमिति प्रत्यक्त्वेनात्मानमनु- भवन्नेवात्मन्यहं न भवामीति तद्विरुद्धतया प्रतीयमानमारोपयन् कश्चिन्न हि दृश्यत इत्यर्थः । भ्रान्तिपदप्रयोजनं प्राग्वत् । व्याप्तिमुपपाद्यानुमानमाह । विमत इति । तस्मान्निरधिष्ठानत्वान्न भ्रान्तिकल्पितमित्यनुमानं सुस्थमित्याखण्डलकतात्पर्यार्थः ।

Loading…