मिथ्यात्व हेतूनां प्रतिकूलतर्कपराहतिः
ननु निष्प्रधानत्वमसिद्धम् । पूर्वपूर्वप्रपञ्चस्योत्तरोत्तरप्रपञ्चारोपे प्रधानत्वादिति चेन्न । असत्त्वात् ॥ छ ॥ मिथ्यात्वहेतूनां प्रतिकूलतर्क- पराहतिः ॥ छ ॥
ननु यदुक्तं निष्प्रधानत्वान्न भ्रान्तिकल्पितमिति तदयुक्तम् । यद्रान्तिकल्पितं तत्स- प्रधानमिति नियममङ्गीकुर्मः । इहापि पूर्वपूर्वप्रपञ्च उत्तरोत्तरारोपे प्रधानं भविष्यति । न च सत्यत्वाभावान्न प्रधानमिति वाच्यम् । प्रधानं किं स्वरूपेणोपयुज्यत उत ज्ञानेनाथ संस्कारेण । नाद्यः । अज्ञातरजतस्यापि रजतारोपप्रसङ्गात् । न द्वितीय: । ज्ञानस्याचिरविनष्टस्य कारणत्वानुपपत्तेः । तृतीये तूपपद्यत एव मिथ्यार्थस्यापि प्रधानत्वम् । तज्ज्ञानजन्यसंस्कार- सम्भवात्। न च प्रथमारोपेऽनुपपत्तिः । अनादित्वादारोपपरम्परायाः । आदिसृष्टावपि पूर्वकल्पसंस्कारोऽस्त्येव । अत एव नानवस्थादोषः । सिद्धविषयत्वात् । अतो निष्प्रधानत्वमसिद्धमिति शङ्कते ॥ नन्विति ॥ असत्त्वादिति । पूर्वपूर्वारोपेणोत्तरारोपस्यासत्त्वादित्यर्थः । अयमाशयः । एवं कल्पेन आदिसृष्टौ भ्रमानुपपत्तिः । न च पूर्वकल्पानुभवसंस्कारमादाय तदुपपत्तिरिति वाच्यम् । तथा सति नारिकेलद्वीपवासिनो गुञ्जपुञ्जादौ ज्वलनसमारोपप्रसङ्गात् । न ह्यनादौ संसारे कदापि तेन ज्वलनो नानुभूत इति शक्यते वक्तुम् । नन्वेतज्जन्मन्यननुभूततिक्तरसस्यापि बालस्य गुडादा- वास्यगतपित्तद्रव्यनिष्ठतिक्तत्वारोपस्य जन्मान्तरीयसंस्कारजन्यत्ववदिहापि तत्कल्पनमिति चेन्न । अनन्यथासिद्धे हि कार्ये जन्मान्तरानुभवस्याप्युपयोगः कल्प्यते । न चेदानीमपि जगदारोपः प्रमितः । अनुमानागमयोर्निराकृत- त्वादिति । यद्वाऽसत्त्वादसत्त्वापातादित्यर्थः । एवं सत्यधिष्ठानस्येति शेषः । तथा चायमर्थः । यथा प्रधानसत्त्वं नापेक्षितम् । तथाऽधिष्ठानस्यापि धीरेव भ्रमहेतुः । तद्धीश्व भ्रमरूपानादिरिति शून्यवादिरीत्याऽधिष्ठानस्याप्यसत्त्वा- पातेनाधिष्ठानत्वेन ब्रह्म सदिति त्वदुक्त्ययोगात् । अधिष्ठानवदबाध्यत्वस्य प्रधानेऽपि सत्त्वादिति ॥ छ ॥