भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्
अपर आह । नेश्वरेण स्वस्मात्संसारिणो भेददर्शनेऽपि मुक्तस्य भेदः सिध्यति । न हि वयं मायावादिन इव जीवब्रह्मणोर्जीवानां वा भेदमपारमार्थिकं ब्रूमः । किन्तूपाधिकृतमेव । अतः पारमार्थिकत्वादीश्वरेणा- नुभूयमानत्वं युज्यते । औपाधिकत्वादुपाधिनाशे मुक्तौ तन्नाशात्स्वाभाविकाभेदः सिध्यतीति । तदसत् । अभेदस्य स्वाभाविकत्वे सुखदुःखाद्यनुसन्धानप्रसङ्गात् । न हि चैतन्यैक्ये स्वाभाविके वर्तमाने सुखदुखाद्यननुसन्धानं क्वचिद्दृष्टम् । ननु वयं जीवान् ब्रह्मणोंऽशानभ्युपगच्छामः । तत्र किमंशानामन्योन्यानुसन्धानमापाद्यते उतांशिनः । नाद्यः । हस्तपादाद्यवच्छिन्नात्मांशानां तदभावात् । औपाधिकभेदस्य सत्त्वात् । अत एव नोत्तर इति चेन्न । अंशिनः परमेश्वरस्यैव स्वाभाविकाभेदे सकलजनसुखदुःखानुसन्धानापादनात् । ननूक्तमत्र जीवेश्वरयोः स्वभावेनाभेदेऽप्युपाधिकृतभेदस्य सत्त्वान्न जीवगतसुखदुःखादिप्राप्तिरीश्वरस्येति । तन्न । हस्तपादाद्युपाधि- भेदेऽपि भोक्तुरेकत्वानुभवात् ।
ईश्वरेणानुभूयमानत्वादिति हेतोः प्रकारान्तरेणाप्रयोजकत्वमाशङ्कते ।। अपर आहेति । सत्योपाधिकृतसत्यभेदमुपेत्य स्वाभाविकमद्वैतं वदन्नीश्वरेणानुभूयमानोऽपि मुक्तौ निवर्तताम् । किं विपक्षे बाधकमित्याहेत्यर्थः । तदेव व्यनक्ति ।। नेश्वरेणेति । ननूक्तमत्र भ्रान्तत्वप्रसङ्ग इति तत्राह । न हीति । अत इत्यस्य विवरणं पारमार्थिकत्वादिति । यद्वोपाधिकृतत्वादित्यर्थः । पारमार्थिकत्वे हेतुरयम् । इत्याहेतीति शब्दस्य पूर्वेणान्वयः । स्यादेवं यद्यभेदः स्वाभाविको भेदस्त्वौपाधिक इत्युपपद्यते न चैवमित्याशयेन बाधकमाह । अभेदस्येति । सुखदु:खेति । सर्वचेतनगतदुःखानुसन्धानमीश्वरस्य स्यादिति गूढाभिप्रायेणापादनमेतत् । अभेदेऽप्यनु- सन्धानं माऽस्त्वित्यतोऽनुसन्धाने स्वरूपाभेद एवं प्रयोजको न त्वन्यदिति भावेनाह ।। न हीति । स्वाभाविकेऽकल्पित इत्यर्थः । आपादकमापाद्येन व्यभिचारीति भावेनापादनाभिप्रायं व्यञ्जयंश्चोदयति । नन्विति । अंशान्स्वतो निरंशस्यैव ब्रह्मण औपाधिकानंशानित्यर्थः ॥ हस्तेति । शरीरेऽपि जीवस्यौपाधिकब्रह्मांशस्यापि हस्तपादाद्युपाधिभेदेनौपाधिकांशाः सन्ति । तत्र कण्टकवेधादिना जातपादावच्छिन्नांशगतदुःखाद्यनुसन्धानं हस्ताद्यवच्छिन्नस्य नास्तीति तत्र स्वरूपैक्यमनुसन्धानव्यभिचारीत्यर्थः । तदभावादनुसन्धानाभावादित्यर्थः । औपाधिकभेदाभावसहकृतमेव स्वरूपैक्यं प्रयोजकं न तु केवलम् । तच्च ब्रह्मांशेषु जीवांशेषु वा नास्तीत्यननुसन्धानं युक्तमेवेति भावेनाह ।। औपाधिकेति । अत एवेति । अंशांशिनोरौपाधिकभेदस्य सत्यत्वादेवेत्यर्थः । भेदाभावविशिष्टस्वरूपैक्यस्याभावेनाननुसन्धानोपपत्तेरिति भावः । आपादनाभिप्रायं तत्रोक्तदोषं परिजिहीर्षुर्व्यनक्ति ।। अंशिन इति । स्वरूपैक्यमेव प्रयोजकमनुसन्धाने न त्वौपाधिकभेदाभावसहितं व्यभिचारादिति भावेनाचार्यवाक्यमेवाह ।। हस्तेति । हस्तपादाद्युपाधिकृतभेदे विद्यमानेऽपि भोक्तुरेकत्वानुभवादेकस्यैवांशिनः सर्वानुसन्धानदर्शनादिति यावत् ।