भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्
किञ्चेश्वरवचनैस्तस्य संसारिभेदानुभव एवानुमीयते । कुतस्तत्राभेदानुभवप्रत्याशा । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप । सुखं दुःखं भवो भावो भयं चाभयमेव च ॥ इत्यादिभिः । किञ्च विमतो भेदो मुक्तौ न निवर्तते । ईश्वरेणानुभूयमानत्वात् । स्वरूपवदिति तत्सिद्धेः । नन्वीश्वरेणानुभूयमानोऽपि मुक्तौ निवर्तताम् । किं विपक्षे बाधकमिति चेन्न । यदीश्वरेणानुभूयमानोऽपि बाध्येत तर्हीश्वरस्य भ्रान्तत्वं प्रसज्येत । बाध्यशुक्तिकारजतद्रष्टृवत् । तस्य त्वभ्रान्तत्वान्नानेनानुभूयमानो ब्रह्मात्मभेदो निवर्तत इति सिद्धम् ।
अनुभूयत इति चेदित्यत्रानुमानविरोधरूपदोषान्तरमाह ॥ किश्चेति । न केवलं दु:खित्वप्रसङ्गः अपि त्वनुमानविरोधाख्यमन्यच्च दूषणमस्तीत्यर्थः । तत्त्वोद्योत एवोदाहृतमीश्वरवचनरूपं गीतावाक्यं पठति ॥ तानीति ॥ “तानि, बहूनि मे व्यतीतानि जन्मानि तव चार्जुने” ति पूर्वार्धोक्तान्यतीतानि जन्मानि । अत्र ज्ञानित्वाज्ञानित्वाभ्यां भेदो व्यक्त इति भावः । इत्यादिभिरित्यनेन, अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः । यस्मात्क्षरमतीतोऽहमित्यादेः सङ्ग्रहः । भव उत्पत्तिः, भावः सत्ता, समता द्वन्द्वेषु निर्विकारत्वं, तुष्टिर्विषयालम्बुद्धिः भावाधर्माः । अत्रेश्वरत्वेशितव्यत्वाभ्यां भेदो व्यक्तः । इत्यादिभिरित्यस्येश्वरवचनैरिति पूर्वेणान्वयः । न हीश्वरोऽर्जुनस्यानाप्तः । येनाननुभूतमपि वदेदिति सम्भावयामः । तथा चेश्वरस्य संसारिभेदस्यानुभूयमानत्वस्य तदीयवचनरूपानुमाने सिद्धतया तद्विरोधात् दुःखित्वप्रसङ्गाच्च न संसारिणैक्यं तेनानुभूयत इति युक्तमितीश्वरेणानुभयेतेति तर्कस्यानिष्टापादनरूपत्वान्नाभासत्वमिति विपक्षे मुक्तस्य संसार: इत्यादिवाक्येनोक्ततर्कद्वयरूपबाधकसत्त्वान्नाप्रयोजको मुक्तत्वहेतुरिति भावः । एवं मुक्तत्वहेतुना मुक्तस्य भेदवत्तां प्रसाध्य तत्र भेदत्वहेतोर्व्यभिचारः स्थापितः । अनुमानान्तरेणापि मुक्तकोटिनिविष्टेश्वरस्य भेदवत्तां साधयति । किञ्चेति । तत: एवाभ्रान्तत्वान्न मुक्तस्यापि भेदनिवृत्तिरिति तत्त्वोद्योतवाक्यसूचितप्रयोगमाह ॥ विमत इति । निवर्त्यत्वानिवर्त्यत्वाभ्यां विमतः संसारीश्वरभेद इत्यर्थ: ।। स्वरूपवदिति । स्वस्वरूपवदित्यर्थः । न चासिद्धिः । प्राचीनवचनसिद्धत्वात् । तथा च तत्र मुक्तिनिष्ठभेदे भेदत्वहेतोर्व्यभिचार इति भाव: । हेतोरप्रयोजकत्वमाशङ्कय विपक्षे बाधकतर्कमाह || नन्वित्यादिना । विपर्यये पर्यवसानमाह । तस्यत्विति । अभ्रान्तत्वं चाज्ञानाच्छादनाभावात् । विपक्षे सद्भावाभ्युपगमाच्च सिद्धमिति भावः ॥ ब्रह्मात्मभेद इति । तथा च तत्र व्यभिचारो भेदत्वहेतोरिति भावः ।