Join Tattvasudhā to study.

भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्

§40Mūla

एवं संसारिणो मुक्तत्वं स्यादिति कोऽर्थः ॥ किं संसाराधिकरणस्वरूपस्यैव मुक्तत्वं स्यादिति किं वा संसारिण एव सतो मुक्तत्वानुभवः स्यादिति । नाद्यः । पूर्ववदिष्टापादनात् । नोत्तरः । संसारिणो मुक्ताद्भेदसद्भावात् । मुक्तस्य संसारिणो भेदाभावे कथं संसारिणो मुक्ताद्भेद इति चेत् । भवेदेवं यद्ययं भेदो वास्तवः स्यात् । अज्ञानकृतो हि मुक्तात्संसारिणो भेदः । सोऽज्ञानिनः संसारिणः प्रतीयते न निवृत्ताज्ञानस्य मुक्तस्येति काऽत्रानुपपत्तिरिति चेन्न । यद्यज्ञानकृतो भेदस्तर्हीश्वरस्याज्ञानाभावात्संसारिणैक्यं तेनानुभूयेत । अनुभूयत इति चेत् । यदीश्वरः संसारिणैक्यमनुभवेत्तर्हि दुःखी स्यात् । न चैवम् । ततो नेश्वरस्य संसारिणैक्यानुभवोऽङ्गीकर्तुमुचितः । यदुक्तं मुक्तस्यान्तःकरणाद्यभावान्न संसारानुभवप्राप्तिरिति । तदसत् । निर्विशेषत्वादेकरसे चैतन्येऽन्तःकरणसंसर्गाभावाभावयोरप्ययोगात् । अज्ञानसदसद्भावाभ्यां सम्भवत इति चेन्न । तदपि तादृगेव ।

द्वितीयतर्कस्याप्याभासत्वं विकल्पपूर्वं व्यनक्ति ॥ एवमिति । पूर्वतर्क इवात्रापि विकल्पदोषौ स्त इत्यर्थः ॥ संसाराधिकरणेति । संसारोपलक्षिताधिकरणेत्यर्थः ।। संसारिण एवेति । संसारोपहितस्येत्यर्थः । भेदसद्भावादिति गूढाभिप्राय: । तात्पर्यज्ञानेन वास्तवभेदं बुद्ध्वा चोदयति । मुक्तस्येति । स्वाभिप्रायमाविष्करोति ।। अज्ञानकृत इति । अज्ञानोपाधिना प्रतीयमान इत्यर्थः । अनिर्वचनीयाज्ञानपरिणामत्वादज्ञानकृत इत्युक्तम् । द्वितीयतर्कस्याभासतानिरासकतया तत्त्वोद्योतवाक्यमेव पठति यदीत्यादिनाऽनुभूयेतेत्यन्तेन । यद्यपि द्वितीयतर्के संसारिणो मुक्तादाविद्यकभेदसत्त्वेन मुक्तत्वानुभवप्रसङ्गो नास्ति तथाऽपीश्वरेण संसारिणैक्यमनुभूयेतेति प्रसङ्गो विपक्षे बाधकोऽस्त्येव । कुतः । ईश्वरस्याज्ञानाच्छादनाभावाद्विक्षेपसद्भावाभ्युपगमाच्चेति भावः I न च मुक्तस्य भेदाभावे बाधकमुपक्रम्येश्वरस्य संसारिणैक्यानुभवापादनं व्यधिकरणमिति शङ्क्यम् । विमत इत्युक्तमुक्तग्रहणेनेश्वरस्यापि प्रागुक्तपक्षद्वये गृहीतत्वादिति भावः । अत्रापि तर्के इष्टापत्तिमाशङ्क्यानिष्टान्तरप्रसञ्जनेन निराह || अनुभूयत इति चेदिति || दुःखी स्यादिति । दुःखिनैक्यादिति भावः । अस्तु तदपीत्यत आह । न चैवमिति । निरनिष्टो निरवद्य इत्यादेरिति भावः । आद्यतर्कस्याभासतां निराह । युक्तमित्यादिना । निर्विशेषत्वादेकरसेऽखण्ड इत्यर्थः ॥ भावाभावयोरिति । संसारिणि भावो मुक्ते त्वभाव इत्यस्यायोगादित्यर्थः । तदप्यज्ञानभावाभावावित्येतदपि । तादृगेवान्त:करणादिभावाभाववदयुक्तमित्यर्थः । तथा च भेदाभावेऽज्ञानादिकमप्यवर्जनीयमिति संसारानुभवो मुक्तस्य स्यादेवेति सुस्थ आद्यस्तर्क इति भावः ।

Loading…