Join Tattvasudhā to study.

भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्

§40Mūla

अथवा संसारसंसर्गाभावो मुक्तत्वम् । तथात्वे घटो दृष्टान्तः । परमात्मप्रतियोगिको वा भेदोऽत्र साध्यः । बन्धप्रध्वंसाधिकरणत्वं च मुक्तत्वमिति न परमात्मनि व्यभिचारः । किञ्च मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसार: संसारिणो वा मुक्तत्वं स्यात् । ननु मुक्तस्य संसार: स्यादिति किं संसाराधिकरणस्वरूपेणैक्यमापाद्यते । उत संसारानुभवः । नाद्यः । इष्टापादनात् । अपाद्यापादकयोर्भेदाभावाच्च । नोत्तरः । अनुभवस्यान्तःकरणादिसापेक्षत्वात् । अन्तःकरणादेश्चाज्ञानसापेक्षत्वात् । निवृत्ताविद्यस्य कार्यान्वयायोगात् ।

पूर्वं हेतोरपि केवलान्वयिधर्मत्वमुपेत्य समाहितमिदानीं व्यतिरेकधर्मत्वमुपेत्याह ।। अथवेति । ध्वंसात्यन्ताभावसाधारण: संसारसंसर्गाभाव इत्यर्थः । संसारस्य प्रामाणिकतयाऽत्यन्ताभावायोगात्संसारसंसर्गेत्युक्तम् । पक्षीभूते मुक्तजीवे तद्ध्वंसमादाय परमात्मनि चात्यन्ताभावमादाय हेतो: पक्षधर्मता ध्येयेति भावः । निगडमुक्तादौ दृष्टान्ते साधनवैकल्यमित्यत आह ।। तथात्वे इति । उक्तरूपस्य हेतुत्व इत्यर्थः । अत एव यदित्थं तत्तथा यथा सम्प्रतिपन्न इत्येवोक्तं भगवत्पादैः । न तु निगडमुक्तादिदृष्टान्तविशेष उपात्तः । घटादौ च संसारसम्बन्धात्यन्ताभावसत्त्वान्न साधनवैकल्यमिति भावः । मुक्तत्वादित्युक्तमुक्तपदस्वारस्यानुरोधेन पक्षान्तरमाह ।। परमात्मेति । अस्मिन्पक्षे निगडमुक्तादिर्दृष्टान्त इति भावः । नन्वेवं मुक्ते परमात्मभेदसिद्धावपि मुक्तामुक्तयोर्भेदोऽसिद्ध इत्यत्र किमागतम् । येन तत्र भेदत्वहेतोर्व्यभिचारः स्यादिति चेन्न । बन्धध्वंसवतो नित्यनिर्मुक्तपरमात्मभेदे बद्धजीवभेदस्य कैमुत्यलब्धत्वाद्वा परेण परमात्मन एवामुक्तजीवभावोपगमेन परमात्मभेदेनैवामुक्तभेदस्य लब्धत्वाद्वेति तात्पर्यात् । यद्वा परमात्मेत्युपलक्षणम् । परमात्मामुक्तोभयप्रतियोगिकभेदः साध्य इत्यर्थः । मुक्तत्वहेतोर्व्यभिचारोद्धाराय परमात्मेत्येवोक्तम् । न चामुक्तभेदसाधनमात्रेण प्रकृतसङ्गतेः परमात्मभेदस्यापि साधनेऽर्थान्तरमिति वाच्यम् । मुक्तामुक्तभेद इव परमात्ममुक्तभेदेऽपि भेदत्वहेतोर्व्यभिचार इत्याशयेनोपपत्तेः । यद्वा पूर्वोक्तपक्षद्वये परमात्मनि विमत इत्युक्तपक्षकोटिप्रविष्टत्वेन मुक्तामुक्तभेदस्य सिद्धतया तत्र व्यभिचारो भेदत्वहेतोरुपपादितः । तत्र मुक्तपरमात्मनोर्भेदे च भेदो मिथ्या भेदत्वादिति हेतोर्व्यभिचारः । न च मुक्तपरमात्मभेदोऽसिद्ध इति वाच्यम् । विमतो भिन्नो मुक्तत्वादित्यनेनैव तत्सिद्धेरिति भावेन साध्यहेत्वोरर्थमाह || परमात्मेति । अस्मिन्पक्षे परमात्मेति नोपलक्षणम् ॥ न व्यभिचार इति । परमात्मनि विपक्षे हेतोरेवाभावादिति भावः । ननु मुक्तत्वहेतोरप्रयोजकत्वं मुक्तत्वेऽप्यमुक्तेन परमात्मना च भेदाभावे बाधकाभावादित्यतस्तत्त्वोद्योत एव भगवत्पादैरुक्तवाक्यं पठित्वा विपक्षे बाधकद्वयं व्यनक्ति । किञ्चेति । उभयोर्भेदाभावे तादात्म्यप्राप्त्या तादात्म्यापन्ने च वस्तुनि साङ्कर्यस्यावर्जनीयत्वादिति भावः । तर्कद्वयमपि तर्काङ्गव्याप्त्यादिशून्यत्वाद्धेतोर्नाप्रयोजकत्वनिरासक्षममिति भावेनाक्षिपति ॥ नन्विति । आद्ये तर्के तावद्विकल्पेनाभासत्वं व्यनक्ति ।। मुक्तस्येति । इतीति । इत्यनेन वाक्येनेत्यर्थः । इष्टेति । अद्वैतिना स्वरूपैक्यस्योपगमादिति भावः | आपाद्येति । मुक्तस्यामुक्ताद्यदि भेदो न स्यात्तदा संसाराधिकरणचैतन्यस्वरूपैक्यं स्यादित्यापाद्यापादकयोर्भेदाभावादित्यर्थः । भेदाभावस्यैवैक्यरूपत्वादिति भावः ।। अन्त: करणादीति । देहेन्द्रियादिरादिपदार्थ: । अस्तु तदपीत्यत आह । अन्त: करणादेश्चेति । तथा चाविद्यान्तः करणादिमत्त्वस्यैवानुसन्धानप्रयोजकत्वेन भेदाभावोऽप्रयोजक इति व्याप्तिशून्यस्तर्क इति भावः ।

Loading…