Join Tattvasudhā to study.

भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्

§40Mūla

अथवा प्रागवस्थायां येन भेदेन विशिष्टस्तेनैव मोक्षेऽपीत्ययमर्थोऽत्राभिप्रेत इति न कश्चिद्दोष इति । ननु किमिदं मुक्तत्वं नाम । किं संसारप्रध्वंसस्तत्संसर्गाभावो वा । नाद्यः । परमात्मन्यसिद्धेः । निगडादिदृष्टान्तस्य साधनवैकल्यापत्तेश्च । अत एव नोत्तर इति चेन्न । अविवक्षितविशेषसंसर्गाभावस्य हेतुत्वात् । ननु चात्र सम्बन्धमात्राभावाधिकरणत्वं हेतुः । तत्राभावाधिकरणमात्रेणालम् किं सम्बन्धमात्रग्रहणेन । अथवाऽधिकरणत्वमात्रं हेतुरस्तु किमभावग्रहणेन । किञ्चाधिकरणं कारकविशेषः । तत्र किं विशेषग्रहणेन । एवं कारकं कारणविशेषः । तत्र किं विशेषग्रहणेनेति चेन्न । तथा सति प्रमेयत्वादीनामपि केवलान्वयित्वभङ्गात् । प्रमाविषयत्वं प्रमेयत्वम् । तत्र विषयत्वेनालम् । किं प्रमाग्रहणेनेत्यादेस्तत्रापि सुवचत्वात् । यद्धेतुव्यवच्छेदकत्वेन पृथगुपादीयते तदेव विशेषणं प्रयोजनान्तरमपेक्षते न पुनस्तन्मात्रान्तर्गतमिति चेत्समं प्रकृतेऽपि ।

आत्मांशे बाधशङ्कानवकाशायाह ।। अथवेति || मुक्तेः प्राक् संसारावस्थायामित्यर्थः । हेतुमपि परिष्कर्तुमाक्षिपति ॥ नन्विति ॥ तत्संसर्गेति । प्रध्वंसात्यन्ताभावसाधरणसंसारसम्बन्धाभाव इत्यर्थः || परमात्मनीति ।। अभेदवादिमते विमतपदोक्तमुक्तग्रहणेनैव परमात्मनोऽपि ग्रहणादिति भावः ।। निगडादिदृष्टान्तस्येति । तस्य संसारसंसर्गवत्त्वेन तद्ध्वंसवत्त्वाभावादिति भावः । अत एव साधनवैकल्यादेवेत्यर्थः ।। अविवक्षितविशेषेति । एतच्च संसर्गस्याभावस्य च विशेषणम् । संसर्गे संसारसंसर्गेति वा निगडसंसर्गेति वा विशेषो न विवक्ष्यते । अभावे च प्रध्वंस इति वाऽत्यन्ताभाव इति वा विशेषो न विवक्ष्यते । किन्तु संसर्गाभावशब्दितसम्बन्धाभावमात्रम् । अयं च हेतुर्दृष्टान्ते पुरुषे निर्मुक्तनिगडादौ पक्षे संसारान्मुक्ते जीवे कदाऽपि संसारसम्बन्धहीने परमात्मनि चास्तीति न कोऽपि दोष इति भाव: । तत्त्वोद्योतटीकायां त्वविवक्षितविशेष- सम्बन्धसंसर्गाभावो मुक्तत्वं निगडमुक्तश्च दृष्टान्त इति व्याख्यातम् । ननु तथैव कस्मान्नोच्यते किं मुक्तत्वादित्युक्त्येति चेन्न । तथोक्तावस्यानुमानस्य केवलान्वयिसाध्यकतया केवलान्वय्यनुमानकतया व्यभिचारशङ्काऽनुदयेन हेतौ विशेषणवैय्यर्थ्यापत्तेः । मुक्तत्वादित्यखण्डोक्तौ विशेषणान्तरस्य पृथगनुपादानेन प्रमेयत्वादिहेताविव विशेषणवैय्यर्थ्यशङ्कानवकाशादिति भावेन विवक्षितहेतौ विशेषणाक्षेपं करोति ॥ ननु चात्रेति । सम्बन्धमात्रेति । यत्किञ्चित्सम्बन्धाभावाधिकरणत्वमित्यर्थः || प्रमेयत्वादीनामपीति । शब्दोऽभिधेयः प्रमेयत्वाज्ज्ञेयत्वादित्यादीनां केवलान्वय्यनुमानत्वभङ्गप्रसङ्गादित्यर्थः । तदेव व्यनक्ति ॥ प्रमेति ॥ इत्यादेरिति । विषयत्वं नाम ज्ञानजन्यफलाधारत्वादिरूपम् । तत्राधारत्वेनालम् । किं विशेषणेन । आधारत्वं च कारणविशेष इत्यादेराक्षेपस्य प्रमेयत्वादावपि सम्भवादित्यर्थः । परमुख़ेनैव समाधिं वाचयति । यद्धेत्विति । हेतौ व्यभिचारादिव्यवच्छेदकत्वेन वा हेतोराभासाद्व्यवच्छेदकत्वेन वा यद्विशेषणं पृथगुपादीयते घटश्चाक्षुषो महत्त्वे सत्युद्भूतरूपत्वादित्यादौ महत्त्वादिकमिव तदेव विशेषणमित्यर्थः । नन्वस्य हेतोः केवलान्वयिसाध्यकत्वेन वस्तुत्वादेरपि हेतूकरणसम्भवात्किं मुक्तत्वहेतूक्तिनिर्वाहक्लेशेनेति चेन्न | एकधैवेत्यादिश्रुत्याऽखण्डैक रसब्रह्मचैतन्याभिन्नमुक्तजीवे वस्तुत्वादेर्भावधर्मस्य कस्याप्यनभ्युपगमात् । अभावधर्मस्य तु नेह नानेत्यादौ व्याघातदण्डभयेन वाक्यार्थपर्यवसानाय बन्धनिवृत्तिबोधकवाक्यानुरोधेन चावश्यं परेण स्वीकार्यत्वेनासिद्धिशङ्काऽनुदयादिति भावः ।

Loading…