भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्
ननु किं भेदः परमात्मप्रतियोगिकः साध्य उत जीवप्रतियोगिकोऽथवा जडप्रतियोगिक आहोस्वित्सकलप्रतियोगिकः । नाद्यः । परमात्मनि हेतोरनैकान्त्यात् । संसाराभावलक्षणमुक्तत्वस्य तत्र सम्भवात् । द्वितीयेऽपि सकलजीवप्रतियोगिको वा स्वव्यतिरिक्तजीवप्रतियोगिको वा । नाद्यः । मुक्तस्यापि जीवत्वेनांशे बाधात् । नोत्तरः । मुक्तस्य तद्भेदसिद्धया विना तेषामेतद्व्यतिरिक्तत्वासिद्ध्याऽप्रसिद्धविशेषणत्वात् । सिद्धौ च सिद्धसाधनत्वात् । सकलजीवप्रतियोगिकभेदसाधनस्य प्रकृतानुपयुक्तत्वेनार्थान्तरत्वाच्च । अत एव न तृतीयः । नापि चतुर्थः । पूर्ववदंशे बाधादप्रसिद्धविशेषणत्वाच्चेति । मैवम् | अविवक्षितप्रतियोगिविशेषस्य भेदस्य साध्यत्वात् । न चैवमर्थान्तरता । मुक्तस्य भेदमात्रमाक्षिपन्तं प्रति तत्साधनस्य सङ्गतत्वात् ।
साध्यं परिष्कर्तुं विकल्पेनाक्षिपति ॥ नन्विति ।। सकलेति । जीवजडपरमात्मेत्यर्थः । जीवत्वेनेति । सिद्धान्तिभिर्मुक्तस्यापि जीवभावाङ्गीकारादिति भाव: ॥ तद्भेदसिद्धयेति । स्वव्यतिरिक्तत्वेनाभिमत जीवप्रतियोगिकभेदसिद्ध्येत्यर्थः । अप्रसिद्धेति । विमतो भिन्न इत्यनुमानात्पूर्वं मुक्ते संसारिभेदस्येव संसारिषु मुक्तभेदस्याप्यसिद्ध्या मुक्तोऽमुक्तभिन्नजीवप्रतियोगिकभेदवानिति विशिष्टसाध्यस्याप्रसिद्धेर्मुक्तपदेन संसारमुक्तस्यैव ग्राह्यत्वादिति भावः || सिद्धौ चेति । संसारिषु मुक्तव्यतिरिक्तत्वज्ञानोपायतया मुक्ते संसारिभेदस्य तदनुमानात्प्रागेव सिद्धौ चेत्यर्थः ॥ सकलेति । स्वातिरिक्तेति विशेषणेऽविशेषणे चोभयथाऽपीति भावः ॥ प्रकृतानुपयुक्तत्वेनेति । यत्किञ्चिदमुक्तभेदसाधनाद्भेदमिथ्यात्वसाधकभेदत्वहेतोर्व्यभिचारसम्भवेनैवंरूपसाध्यसाधनस्य प्रकृतप्रमेयानुपयुक्तत्वेन प्रकृतानुपयुक्तोक्तिरूपार्थान्तरनिग्रहस्थानदोषादित्यर्थः ।। अत एवेति । प्रकृतानुपयुक्तत्वेनार्थान्तरत्वादेवेत्यर्थः ॥ पूर्ववदिति । मुक्तांश इत्यर्थः ॥ अप्रसिद्धेति । परमात्मजीवजडप्रतियोगिकभेदस्याप्रसिद्धेरिति भाव: । एतच्चासत्प्रतीतिरेव नेति मते बोध्यम् । अन्यथाऽसत्येव प्रसिद्धिसम्भवात् ॥ न चैवमिति । यत्किञ्चिदमुक्तभेदसाधनमात्रेण प्रकृतोपयोगेऽप्येवं साधन इत्यर्थः || भेदमात्रमिति । यत्किञ्चिन्निरूपितभेदमपीत्यर्थः । स्वस्मिन्स्वनिरूपितभेदस्य बाधेन स्वातिरिक्तसर्वप्रतियोगिक एव सिध्यतीति भावः । सङ्गतत्वात्तेनैव व्यभिचारोद्भावनसम्भवादिति भावः ।