भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्
किञ्च भेदत्वहेतोरविद्यानिवृत्तिरूपमोक्षात्मभेदे व्यभिचारश्च । न च तयोर्भेद इति चेत्तर्ह्यात्मनोऽनादिनित्यतया तदभिन्नमोक्षस्य ज्ञानसाध्याविद्यानिवृत्तिरूपत्वानुपपत्तिः । अन्यतरचन्द्रस्यैवारोपितत्वेनारोपितानारोपितभेदे व्यभिचारश्च । मुक्तामुक्तभेदेऽनैकान्त्यं च । मुक्तामुक्तयोर्भेदोऽसिद्ध इति चेन्न । विमतो भिन्नो मुक्तत्वादिति तत्सिद्धेः । शुक्ताविव रजतमाविद्यको भेदो मुक्तेऽप्यङ्गीक्रियत इति चेन्न । मुक्तस्याविद्येति व्याहतेः ।
एवं भेदो मिथ्या भेदत्वादित्यस्योपजीव्यप्रबलप्रत्यक्षादिप्रमाणविरोधस्य व्यवहारनिर्वाहकत्वादिसमबलप्रमाणविरोधस्य चोक्त्या प्रतिज्ञाविरोधरूपदोष उक्तः । हेतुदोषयोरसिद्ध्यव्याप्त्योर्मध्येऽसिद्धिरूपदोषो भेदत्वहेतुः सत्यश्चेत्परमतेऽसिद्धिरसत्यश्चेदस्मन्मतेऽसिद्धिरित्युक्तप्राय इति व्याप्त्यभावरूपं हेतुदोषं चाह । किञ्चेति । अविद्यानिवृत्तिरूपो यो मोक्षस्तस्यात्मनश्च यो भेदस्तत्र भेदत्वमस्ति मिथ्यात्वं नेति व्यभिचारः । मोक्षात्मनोरनिवर्त्यत्वेन तद्भेदस्यापि तथात्वादिति भावः । हेतोरेवाभावान्न व्यभिचार इति शङ्कते । न च तयोर्भेद इति चेदिति । तयोर्मोक्षात्मनोः । भेदो न च नैवेति चेदित्यर्थः । ज्ञानेति । ज्ञानसाध्या याऽविद्यानिवृत्तिस्तद्रूपत्वानुपपत्तिरित्यर्थः । ननु मोक्षस्य ज्ञानसाध्याविद्यानिवृत्तिरूपत्वेऽप्यात्मनोऽनादित्वेऽपि ज्ञानोपलक्षितात्मनो ज्ञानसाध्याविद्यानिवृत्तिरूपत्वं युक्तम् । “निवृत्तिरात्ममोहस्य ज्ञातत्वेनोपलक्षितः । उपलक्षणहानेऽपि स्यान्मुक्तिः पाचकादिवदि ' त्युक्तेरिति चेन्न । “वृत्त्योपलक्षितचितः पश्चादिव पुराऽपि च । सद्भावान्मोहकालेऽपि मोहहानि: प्रसज्यत" इत्यादिना न्यायामृतेऽस्य निरासात् । स्थलान्तरेऽपि व्यभिचारमाह ॥ अन्यतरेति । एवकारेण भेदस्यारोपितत्वं व्यवच्छिनत्ति । भेदत्वहेतो: स्थलान्तरेऽपि व्यभिचारमाह । मुक्तेति । तत्र हेतुरेव नेति भावेन शङ्कते ।। मुक्तेति । तत्त्वोद्योते भगवत्पादोक्तानुमानोक्त्या तं भेदं साधयति ॥ विमत इति । भिन्नाभिन्नत्वेन विवादविषयः संसारान्मुक्तः पक्ष इति भावः । तथैवानुक्त्वा विमत इत्येवोक्तौ बीजं तु तत्रैव टीकायां व्यक्तम् । अस्य हेतोर्वक्ष्यमाणदिशा केवलान्वयित्वेन निगडादिरिव यः कश्चन पदार्थो दृष्टान्त: सुलभ इति भावेन तदुक्तमनुमाने सिद्धसाधनमाशङ्क्य निराह । शुक्ताविवेति ।