भेदमिथ्यात्वानुमानस्य प्रतिज्ञाविरोधः
शरीरत्वहेतुरपि परस्पराननुसंहितभोगायतनत्वेन विवक्षित इति न तत्रापि दोषः । नापि दृष्टान्तालाभः । योगिशरीराणां व्यतिरेक- दृष्टान्ततासम्भवात् । अत एव न व्यवस्थानिरुक्तिदौर्घट्यम् । सुखदुःखा- द्यनुसन्धानभावाभावरूपव्यवस्थाया अङ्गीकृतत्वात् । अतो भेदत्वहेतुरुप - जीव्यविरोधान्न भेदमिथ्यात्वं साधयितुं प्रभवेदिति । किञ्च व्यवहारनिर्वाहकतया सत्यता च भेदस्य कुतो न स्यात् । ननु भेदस्य प्रत्यक्षादिविषयत्वेऽपि न तत्त्वावेदकप्रमाणविषयत्वम् । मैवम् । तत एव तत्साधनसम्भवात् । किश्च धर्मित्वहेतुना तत्त्वावेदकप्रमाणवेद्यता च कुतो न भेदस्य स्यात् । न चात्मनि धर्माभावः । आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा इत्यभ्युपगमात् । न परमार्थतो धर्मा इति चेन्न । नित्यत्वाद्यभावेऽनित्यत्वाद्यापातात् । तत्पक्षे पारमार्थिकस्यैव साधनाङ्गतानियमाभावाच्च । चन्द्रभेदे धर्मित्वहेतोर्व्यभिचार इति चेत्कोऽर्थः । चन्द्रभेदमात्राभाव इति वा चन्द्राच्चन्द्राभाव इति वा । आद्ये न व्यभिचारः । पक्षसमत्वात् । द्वितीये तस्यैवाभावेन धर्मित्वहेतोर्व्यभिचारस्य दूरतः परास्तत्वात् ।। छ । भेदमिथ्यात्वानुमानस्य प्रतिज्ञाविरोधः ॥ छ ॥
यत्तु विप्रतिपन्नानि शरीराणि स्वसङ्ख्यासङ्ख्येयात्मवन्ति शरीरत्वादित्यात्मभेदानुमानेऽतीतानागतशरीरादिषु व्यभिचारचोदनं तत्राह । शरीरत्वेति । भोगो नाम सुखदुःखादि । चैत्रगतं सुखादि मैत्रो नानुसन्धत्ते । मैत्रगतं चैत्र इत्येवं परस्पराननुसंहितसुखदु:खाद्याश्रयत्वं विवक्षितम् एतच्चातीतादिशरीरेषु योगिशरीरेषु च नास्तीति न व्यभिचार इति भावः ।। व्यतिरेकदृष्टान्ततेति । हेतुसाध्याभावयोस्तत्र सत्त्वादिति भाव: I व्यवस्थानुपपत्तेश्च दुर्निरूपत्वेनेत्यादिनोक्तदोषमुद्धरति ।। अत एवेति । तमेव हेतुं व्यनक्ति ॥ सुखेति । तर्ह्यत्र प्रत्यक्षादिप्रमाणसिद्धतां किन्न पश्यसीत्युक्तम् । भेदो मिथ्या भेदत्वादित्यनुमानस्य प्रत्यक्षादिबाधमुपसंहरति ।। अत इति । भेदस्य प्रत्यक्षादिप्रमाणसिद्धत्वादित्यर्थः । ननु प्रत्यक्षादिप्रमाणं भेदमेव गोचरयेन्न पुनस्तत्सत्यत्वमपि येन तद्विरोधो भेदमिथ्यात्वानुमानस्येत्यत आह || किश्चेति । यद्वा प्रत्यक्षविरोधमुक्त्वा भेदत्वहेतोरनुमानविरोधमाह । किञ्चेति ।। सत्यता चेति । न केवलं भेद एवोपेय इति चार्थः । भेदः सत्यो भवितुमर्हति व्यवहारनिर्वाहकत्वात् । स्वप्रकाशत्वाज्ज्ञानसुखदुःखादिव्यवहारनिर्वाहक चैतन्यवद्व्यतिरेकेणासत्यवद्वेति भावः । तत्त्वावेदकप्रमाणविषयत्वमुपाधिरिति भावेन साधनाव्यपकत्वाय पक्षे तस्योपाधेरभावं शङ्कते ॥ नन्विति ॥ न तत्त्वावेदकेति । तथा च पक्षादुपाधिव्यावृत्त्या तद्व्याप्यसाध्यस्याप्यभाव इति भावः । साधनाव्यापकत्वमुपाधेर्नेति वक्तुं साधनवति तत्त्वावेदकप्रमाणवेद्यत्वरूपमुपाधिं साधयति ।। तत एवेति । व्यवहारनिर्वाहकत्वादेवात्मवत्तत्त्वावेदकप्रमाणवेद्यत्वसाधनसम्भवादित्यर्थः । आत्मनि व्यवहारनिर्वाहकत्वे विप्रतिपन्नं प्रत्याह ॥ किञ्चेति । धर्मित्वहेतुना धर्मवत्त्वहेतुनेत्यर्थः । भेदेऽपि भेदत्वज्ञेयत्ववाच्यत्वादयो धर्माः सन्तीत्यात्मदृष्टान्तेन धर्मित्वहेतुनोक्तरूपसाध्यसिद्धिः किन्नं स्यात्तथा च साधनव्यापकत्वमुपाधेरिति भाव: I दृष्टान्ते साधनवैकल्यमाशङ्क्य तदीयवचनेन साधनभावं साधयति ।। न चेति । पारमार्थिकधर्मवत्त्वं हेतुरिति मत्वा पुनः साधनवैकल्यमाशङ्कते ॥ नेति । धर्मवत्त्वमात्रं हेतुर्न तु परमार्थधर्मवत्त्वम् । तच्चात्मन्यस्त्येव । न चैतादृशासाधकम् | त्वन्मते मिथ्यात्वानुमानागमयोरपरमार्थसतोरेव परमार्थसदर्थसाधकत्वादिति भावेनाह । तत्पक्ष इति । भेदादिसर्वमिथ्यात्वपक्ष इत्यर्थः ।। चन्द्रभेदमात्राभाव इति । यथा सति चन्द्रेऽनारोपितचन्द्रभेदो नास्ति तथाऽऽरोपितचन्द्रान्तरभेदोऽपि नास्तीति चन्द्रभेदमात्रस्याभावः किमित्यर्थः । चन्द्रभेदारोपमात्रेण द्वित्वप्रतीत्युपपत्तौ चन्द्रन्तरारोपाङ्गीकारे गौरवेणारोपितचन्द्रान्तरभेदे सत्यत्वरहिते धर्मित्वहेतुरस्तीति व्यभिचार इति तवाभिप्राय: किमिति भावः ॥ चन्द्रादिति । सत्यचन्द्रे आरोपितचन्द्रान्तरभेदे सत्यप्यनारोपितचन्द्राद्भेदो नास्तीति तत्र धर्मित्वहेतुसत्त्वेऽपि सत्यत्वादि- रूपसाध्यं नेति व्यभिचार इत्यभिप्रायः किमित्यर्थः । कुतो न व्यभिचार इत्यत आह ॥ पक्षेति । अन्यतरचन्द्रस्यैव तत्रारोपितत्वेनारोपितानारोपितचन्द्रयोर्भेदस्य सत्यत्वादिति भावेन तत्र हेतुसत्त्वेऽपि साध्याभावसत्त्वस्य विप्रतिपन्नत्वेन पक्षसमत्वात् । पक्षे पक्षसमे च व्यभिचारोद्भावनायोगादिति भावः । ननु निश्चितसाध्याभाववति हेतुसन्देह इव पक्षादन्यत्र निश्चितहेतुमति साध्याभावसन्देहेऽपि सन्दिग्धौनकान्त्यमेवेति चेन्न । हेतूच्छित्तिरूपविपक्षबाधकतर्केण व्यभिचारसन्देहस्याप्यसम्भवादिति भावः ।। तस्यैवेति । चन्द्रे चन्द्रप्रतियोगिकभेदस्यैवाभावेन निःस्वरूपत्वेनेत्यर्थः । सत्यपि तत्र साध्याभावे हेतोरप्यभावेन व्यभिचाराभावादित्यर्थः । ननु तादृशस्यापि शशिशृङ्गादेरत्यन्ताभावप्रतियोगित्वरूपो धर्म उपेयत इति तत्र व्यभिचार एवेति चेन्न । धर्मवत्त्वरूपधर्मित्वस्य तत्राभावात् । अभावप्रतियोगित्वस्य धर्मिसत्तानिरपेक्षत्वात् । धर्मित्वादित्यस्य सत्त्वरूपत्वादित्यर्थस्याभिप्रेतत्वादिति तात्पर्यत् ॥ छ ॥