Join Tattvasudhā to study.

भेदप्रतीत्याक्षेपनिरासोपसंहारः

§38Mūla

अन्यैरपि समवायस्याश्रितत्वादिव्यवहारे गतिरियमेवानुसरणीया । तस्माद्ब्रह्मस्वरूपावगाहिविज्ञानमानन्दं ब्रह्मेत्यादिवाक्यसमानयोगक्षेमतया भेदप्रपञ्चमध्यक्षयतः प्रत्यक्षस्य दुराक्षेपैर्नाधिक्षेपः ॥ छ ॥ भेदप्रतीत्याक्षेपनिरासोपसंहारः ॥ छ ॥

तथा च गुणशक्तिक्रियादीनामपि न धर्मितो भेदाश्रयणं युक्तमिति भावः । एवं भेदस्य धर्मिणा सविशेषाभिन्नत्वं जीवात्मैक्यप्रतिबन्द्योपपाद्य ननु कथं प्रत्यक्षस्य भेदग्राहकत्वमित्यादिना ग्रन्थेन कृतं भेदप्रतीत्याक्षेपं प्रत्यक्षरं प्रत्याक्षिप्योपसंहरति । तस्मादिति । भेदस्य धर्मिणा सविशेषाभिन्नतयाऽन्योन्याश्रयानवस्थादिदोषाभावादित्यर्थः ॥ इत्यादिवाक्येति । यथा विज्ञानमानन्दं ब्रह्मेत्यादिवाक्यबोध्यविज्ञानानन्दादीनां न परमते भेदः । अखण्डार्थत्वहानेः । एकधेत्यादिश्रुतिविरोधाच्च । नाप्यभेदः । तथात्वे तच्छब्दानां पर्यायत्वं पदान्तरवैय्यर्थ्यं विज्ञानानन्दयोरेकतरपरिशेषो भ्रमाधिष्ठानत्वेन चैतन्यभानेऽपि मोक्ष इवेदानीमानन्दाप्रकाशो ज्ञानस्यार्थप्रकाशरूपत्वेऽप्यानन्दस्य तदभाव आनन्दस्य निरुपाधिकेष्टरूपत्वेऽपि ज्ञानस्य तदभावो ज्ञानस्यान्यसापेक्षरूपत्वेऽपि ब्रह्मणस्तदभाव इत्यादिभेदकार्योपलम्भविरोधादित्याद्याक्षेपैर्विज्ञानादिवाक्यानां यथा नाक्षेपस्तेषां परमार्थब्रह्मस्वरूपावगाहित्वेन तत्त्वावेदकत्वात् । किन्तूक्तरीत्या सविशेषाभेदाभ्युपगमादिना कथञ्चित्समाधानं वाच्यम् । तथा सविशेषाभिन्नभेदयुक्तप्रपञ्चावगाहिप्रत्यक्षस्यापि स्वव्याघातदुष्टैस्तत्किं भेदमेव गोचरयेदुत वस्त्वपीत्यादिना पूर्वोक्तैराक्षेपैर्न प्रत्याख्यानं युक्तमित्यर्थः । न च प्रत्यक्षं सदोषवाक्यं निर्दोषमिति युक्तम् । लोके क्लृप्तदोषाणामभावनिश्चयस्योभयत्र साम्यात् । कल्प्यस्याविद्यकत्वादुभयत्र साम्यादिति भावः । तस्मादस्ति भेदे प्रत्यक्षं प्रमाणमिति स्थितम् ॥ छ ॥

Loading…