विशेषसमर्थनम्
तच्च निमित्तं भेदोऽत्र बाधित इति चेत्तर्हि तत्प्रतिनिधिः स्वनिर्वाहको विशेषो नाम पदार्थशक्तिरभिषिच्यताम् । न चैवमतिप्रसङ्गः । मुख्यनिमित्तस्यान्यत्र सम्भवेऽन्यस्य कल्पनायोगात् । निर्भेदे वस्तुनि भेदवन्निर्विशेषे तस्मिन्विशेषोऽपि व्याहत इति चेन्न । निर्विशेषत्वविशेषवदुपपत्तेः । स च यदि विरोधात्त्यज्येत तर्हि सुतरां सविशेषतासिद्धिः । तदुक्तमाचार्यै: - भेदहीने त्वपर्यायशब्दान्तरनियामकः । विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥ इति । स्वरूपव्यतिरिक्तं भेदमभ्युपगच्छतामपि स्वरूपभेदयोर्भेदस्य स्वनिर्वाह- कता सिद्धा । तैरपि निर्वाह्यनिर्वाहकनिर्वहणादिरूपवैचित्र्यमेकस्यैव भेदस्याङ्गीकृतं भवेत् । अन्यथाऽनवस्थानात् । ततो वरं पदार्थस्यैव विचित्रशक्तिस्वीकार इति ॥ छ ॥ विशेषसमर्थनम् ॥ छ ॥
तत्प्रतिनिधिर्भेदप्रतिनिधिः । तत्रापि विशेषान्तरकल्पनायामनवस्थेत्यत उक्तं स्वनिर्वाहक इति । कल्पनागौरवमित्यत उक्तं पदार्थशक्तिरिति । न तु वस्त्वन्तरमित्यर्थः । नन्वेवं घटपटादीनां तेनैव व्यवहारोपपत्तौ भेदवार्ता लुप्येतेत्याशङ्क्य निराह || न चैवमित्यादिना । अन्यत्र घटादौ || स चेति । निर्विशेषत्वरूपविशेष इत्यर्थः । सुतरां नि:सन्देहमित्यर्थः । ननु तादृशविशेषे किं मानं किं च लक्षणमित्यतो जन्माधिकरणानुव्याख्यानेन द्रढयति । तदुक्तमिति । निर्भेदेऽपि भेदकार्यनिर्वाहकत्वलक्षणविशेषस्वरूपमुक्तमित्यर्थः ।। भेदहीने त्विति । तुरवधारणे । अपर्यायशब्दान्तरनियामक इत्यशेषभेदकार्यनिर्वाहकत्वोपलक्षणम् । अयम्भावः । जीवात्मैक्यस्यैकधैवेत्यादिश्रुत्यादिना चैतन्यस्वरूपत्वाच्चैतन्ये स्वप्रकाशत्वेन सिद्धेऽपि तस्यासिद्धत्वं चैतन्यस्य निरपेक्षत्वादौ सत्यप्यैक्यस्य सापेक्षत्वादिकं चैतन्यप्रकाशस्याज्ञानानिवर्तकत्वेऽप्यैक्यज्ञानस्य तन्निवर्तकत्वमित्यादिभेदकार्याणां दर्शनाच्च । तदुभयान्यथाऽनुपपत्त्या भेदहीनेऽपि जीवात्मैक्ये भेदप्रतिनिधिस्तत्कार्यकारी कश्चिदतिशयोऽस्तीत्यकामेनापि त्वया वाच्यम् । एवमिहापि भेदधर्मपक्षस्य त्वयैव दूषितत्वेन घट: पटात्मको नेति प्रतीत्या पटतादात्म्यनिषेधरूपभेदस्य मृद्घट इतिवद्धटसामानाधिकरण्येनाभेदस्यैव प्रतीतत्वेन च “सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशय " इति तैत्तिरीयभाष्योक्तवचनेन नान्योन्याभावता पृथगिति तत्त्वविवेकवाक्येन च भेदस्य धर्मिस्वरूपत्वात्सापेक्षत्वनिरपेक्षत्वादिप्रागुक्तभेदकार्यदर्शनाच्च तदुभयान्यथाऽनुपपत्त्या कश्चन वस्तुस्वरूपशक्तिपर्यायो विशेषोऽस्तीति कल्प्यत इति न कोऽपि दोष इति । अयं च विशेषो वैशेषिकादिभिरभ्युपेय इत्याह || स्वरूपेति । धर्मिस्वरूपस्य तन्निष्ठभेदस्य चेत्यर्थः । सिद्धेत्युक्तं व्यनक्ति ।। तैरपीति । अयं घटो भेदीति भेदभेदिनोर्विशेषणविशेष्यभावरूपभेदकार्यनिर्वाहकोऽपि स्वयं भेदभेदिनोर्भेदः स्वनिर्वाहकश्च भवति । कथम् । भेदभेदिनौ भिन्नाविति प्रतीतौ स्वस्य भेदभेदिनोश्च विशेषणविशेष्यभावादिभेदकार्यनिर्वाहकस्यान्यस्याभावात् । तथा च निर्वाह्यनिर्वाहकनिर्वाहरूपं वैचित्र्यमेकस्य प्राप्तम् । तथा भेदभेदिसम्बन्धित्वं स्वसम्बन्धित्वं चेत्यादिवैचित्र्यमुपेयमित्यर्थः । कुत एवं भेदपरम्परैवास्त्वित्यत आह ।। अन्यथेति ।। तत इति । भेदभेदिनोर्भेदमुपेत्य तस्य स्वनिर्वाहकत्वकल्पनादित्यर्थः ।। अन्यैरपीति । समवायवादिभिरपीत्यर्थः । समवायः समवाय्याश्रितो गुणादीनां सम्बन्ध इत्यादौ समवायस्य समवायान्तराभावेन तस्य गुणगुण्यादिविशिष्टव्यवहारनिर्वाहकस्यापि स्वनिर्वाहकत्वमङ्गीकार्यम् । वरमप्रामाणिकसमवायप्रहाणेन गुणगुण्यादिपदार्थशक्तिस्वीकारेण ततो सर्वभेदस्य व्यवहारकल्पनम् ॥ छ ॥