Join Tattvasudhā to study.

धर्मिप्रतियोगि भेदप्रत्ययानां यौगपद्यसमर्थनम्

§36Mūla

परमात्मतदितरभेदोऽपि तत्तत्स्वरूपग्राहकप्रमाणावसेय इति नोक्तदोषावकाशः । न हि धर्मिप्रतियोगिभेदप्रत्ययानां क्रमभावे मानं पश्यामः । जीवब्रह्मैक्यवदेव स्वरूपयोः सापेक्षनिरपेक्षत्वे क्वचित्प्रतीताप्रतीतत्वे अस्येदमिति सम्बन्धितयाऽवभासोऽपर्यायशब्दवाच्यत्वमित्यादिवैचित्र्यं द्रष्टव्यम् । व्यपदेशमात्रमत्रेति चेत्कोऽर्थः । किं परमार्थेन स्वरूपं नाम बाधितमैक्यं वा तत्सम्बन्धो वा व्यवहारो वा तन्निमित्तं वा । नाद्यः । निराश्रयस्यैक्यस्यानिर्वाहात् । निर्वाहे वा ब्रह्मैक्यवादस्तुच्छाद्वैते पर्यवस्येत् । न द्वितीयः । भेदोन्मज्जनप्रसङ्गात् । न ह्युभयोदासीनतत्त्वसिद्धिः । उभयात्मकवस्तुवत्तस्यापि व्याहतत्वात् । न तृतीयः । ऐक्यस्यान्यसम्बन्धितापातात् । मेरुमन्दरादिवत्स्वातन्त्र्येण प्रतीतिप्रसङ्गाच्च । नापि तुरीयः । अर्थबाधमन्तरेण व्यवहारबाधस्यासिद्धेः । आत्मैक्यस्य बाधितत्वे तत्त्वमसीति वाक्यस्यातत्त्वावेदकत्वापातात् । न च पञ्चमः । नैमित्तिकदर्शनादेव निमित्तकल्पनासौलभ्यात् । अन्यथाऽऽत्मैक्यपदयोः पर्यायताप्रसङ्गः ॥ छ ॥ धर्मिप्रतियोगिभेदप्रत्ययानां यौगपद्यसमर्थनम् ॥ छ ॥

एवं जगति भेदं समर्थ्य यदुक्तं पूर्वं पूर्वपक्षिणाऽऽत्मभेदस्तु न प्रमाणगन्धमनुभवतीत्यादि तं दोषमुद्धरति ॥ परमात्मेति । " शास्त्रगम्य (धर्म) परेशानाद्भेदः स्वात्मन ईयत " इत्याद्युक्तदिशेति भावः । नन्वस्त्वेवं यदि युगपदेव धर्मिप्रतियोगिभेदप्रत्ययः स एव नास्तीत्यतः क्रमे मानाभावेनाबाधितयौगपद्यानुभवबलादेवैतत्सिध्यतीति भावेनाह । न हीति । भेदमभ्युपेत्य बहुवचनोक्तिः । ननु भेदस्य धर्म्यादिसापेक्षत्वात्क्वचित्संशयादिस्थले धर्मिप्रतीतावप्यप्रतीयमानत्वादन्यसम्बन्धित्वादिना च प्रतीयमानत्वादेतादृशधर्म्यादिस्वरूपत्वमयुक्तमित्यत आह ॥ जीवेति । स्वरूपयोर्धर्मिस्वरूपतदभिन्नभेदयोरित्यर्थः । जीवब्रह्मचैतन्यस्य निरपेक्षत्वेऽपि तदभिन्नजीवब्रह्मैक्यस्य सापेक्षत्ववचैतन्ये स्वयम्भातेऽपि तदभिन्नस्यैक्यस्याप्रतीतत्ववद्धर्मिस्वरूपस्य निरपेक्षत्वेऽपि तदभिन्नभेदस्य सापेक्षत्वं धर्मिणः प्रतीतावपि क्वचित्संशयविपर्ययस्थले भेदस्याप्रतीतत्वं च युक्तम् । तथा चैतन्यस्यान्यसम्बन्धितयाऽनवभासेऽपि जीवस्य ब्रह्मैक्यं ब्रह्मणो जीवैक्यमित्यैक्यस्य तदभिन्नस्यान्यसम्बन्धितयाऽवभासवदन्यासम्बन्धितयाऽवभासमानधर्मिस्वरूपस्य भेदस्यास्यायं भेद इत्यन्यसम्बन्धितयाऽवभासो युक्त: I ऐक्यब्रह्मणोरभेदेऽप्यैक्यब्रह्मशब्दयोरपर्यायत्ववद्घटभेदशब्दयोरपर्यायत्वमैक्यं ब्रह्मेत्यप्रतीतिवच्च घटो भेद इत्यप्रतीतत्वं ब्रह्मैक्ययोरन्यतरापरिशेषवद्घटभेदयोरन्यतरमात्रपरिशेषाभाव इत्यादिवैचित्र्यं युक्तमित्यर्थः । न चैक्यं न चैतन्यस्वरूपमिति युक्तम् । अतिरिक्तत्वे सत्यत्वेऽद्वैतहानेः । मिथ्यात्वे तत्त्वमस्यादिवाक्यानामतत्त्वावेदकत्वाद्यापत्तेः । न च चैतन्ये प्रतीतेऽपि तदभिन्नमैक्यमपि प्रतीयत इति युक्तम् । तथात्वे तत्र विप्रतिपत्त्यभावप्रसङ्गात् । उपदेशानर्थक्यप्रसङ्गाच्च । न चैक्यस्य स्वतो भानेऽप्यज्ञानविरोधिन्या वृत्तेरभावाद्विप्रतिपत्त्यादीति वाच्यम् । प्रत्यगर्थवदेव वृत्त्यभावेऽपि स्वतो भानेनैक्येऽपि विप्रतिपत्त्याद्ययोगात् । यदि चैक्यस्याविद्यावरणादप्रकाशस्तर्हि भेदस्यापि सादृश्यदोषादप्रतीतिरिति समम् । उक्तं च तत्त्वनिर्णये । न च धर्मिप्रतियोग्यपेक्षया भेदस्यास्वरूपत्वम् । ऐक्यवत्स्वरूपस्यैव तथात्वात् । स्वरूपसिद्धावपि तदसिद्धिश्च जीवेश्वरैक्यं वदतः सिद्धैवेतीति भावः । वैषम्यमाशङ्कते । व्यपदेशमात्रमिति । अत्रैक्यविषय इत्यर्थः । मात्रपदेन किन्निषिध्यते व्यपदेशस्यार्थो वा व्यपदेशस्याबाधितत्वं वा व्यवहारस्य निमित्तं वा । आद्येऽपि किं ब्रह्मस्वरूपं निषिध्यते ऐक्यं वा तत्सम्बन्धो वेति भावेन विकल्पयति ॥ परमार्थेनेति । स्वरूपं ब्रह्मस्वरूपमित्यर्थः । क्रमेण निराह || नाद्य इत्यादिना ॥ भेदोन्मज्जनेति । परस्परविरुद्धयोरेकस्याभावेऽन्यतरस्य सत्त्वनियमादिति भावः । अस्तु भेदाभेदोभयौदासीन्येन तत्त्वसिद्धिरित्यत आह ॥ न हीति । तस्याप्युभयोदासीनवस्तुनोऽपीत्यर्थः । तृतीयेऽप्यैक्यस्यान्यसम्बन्धित्वं वा मेरुमन्दरादिवत्स्वातन्त्र्यं वेति हृदि निधायाद्य आह ।। ऐक्यस्येति । अन्त्य आह || मेर्विति । उभयथाऽपि प्रत्यग्ब्रह्मैक्यस्यासिद्धिरैक्यमात्रस्य मन्मतेऽपि भावेन सिद्धसाधनादिकं च स्यादिति भावः ॥ अर्थेति । ब्रह्मतदैक्यतत्सम्बन्धरूपार्थबाधमन्तरेणेत्यर्थः । अस्त्वित्यतः प्रागुक्तदोषे सत्यपि दोषान्तरमाह ॥ आत्मैक्यस्येति || नैमित्तिकेति । ब्रह्मैक्यमिति व्यपदेशरूपकार्यदर्शनादेवेत्यर्थः || अन्यथेति । आत्मैक्यमिति व्यपदेशनिमित्तस्य कस्यचिदभाव इत्यर्थः || ||

Loading…