भेदप्रत्यक्षस्यान्योन्याश्रयाद्युद्धारः
तेन च कालेन सर्वं विशिष्टमेवानुभूयत इति सर्वाधारतया स्थेयम् । अस्त्यासीद्भविष्यतीति वा प्रतीतिमपहाय पदार्थप्रतीतेरौदासीन्येनाननुभवात् । तद्वदेव युगपत्प्रतीतयोर्धर्मिप्रतियोगिभावेन भेदप्रतीत्युपपत्तेरपि नान्योन्याश्रयाद्यापातः । अत एव परस्परभेदप्रतीतेरपि तत्तत्प्रत्ययापृथग्भावान्नान्योन्यापेक्षा ॥ छ ॥ भेदप्रत्यक्षस्यान्योन्याश्रयाद्युद्धारः ॥ छ ॥
अस्त्वेवं साक्षिवेद्यः काल इति । ततश्च किमित्यतोऽस्ति तावदस्तीदमित्यत्र वर्तमानकालो वस्तुना सहैवानुभूयत इति प्रागुक्तमर्थमाह || तेन चेति । साक्षिसिद्धेन चेत्यर्थः । सर्वं वर्तमानमतीतानागतं च वस्त्वित्यर्थः । विशिष्टं सम्बद्धमेवानुभूयत इत्युक्तं व्यनक्ति ।। अस्तीति । अस्त्वेवं साक्षिसिद्धकालेन विशिष्टतयैव सर्ववस्तुनः प्रतीतिः । ततोऽपि किमित्यतो भेदप्रतीतौ धर्मिप्रतियोगिप्रतीतिसापेक्षत्वकृतमन्योन्याश्रयदोषमुद्धरति ।। तद्वदेवेति । साक्ष्युपनीतकालविशेषणकवस्तुप्रतीतिवदेवेत्यर्थः । प्रतीतयो: साक्षिणेत्यर्थः । एतच्च द्वयोर्व्यवधान एवैकस्यैव धर्म्यादेः सन्निधिरन्यस्यासन्निधिस्तदा साक्षिप्रतीतेन प्रतियोगिना सहैव तद्भिन्नतया धर्मी ज्ञायत इति ज्ञेयम् । अत एवेत्युक्तं व्यनक्ति ।। परस्परेत्यादिना । धर्मिस्वरूपप्रतियोगिभेदस्य प्रतियोगिस्वरूपधर्मिभेदस्य च प्रतीतेरपि धर्मिप्रतियोगिप्रत्ययतः पृथक्त्वाभावादित्यर्थः ॥ छ ॥