Join Tattvasudhā to study.

कालस्य साक्षिवेद्यत्वसमर्थनोपसंहारः

§34Mūla

कथञ्चित्सापेक्षत्वेन परतस्त्वे साक्षिणः साक्षात्स्वतःप्रामाण्यं तदन्यस्यासाक्षादिति व्यवस्था स्यात् । तस्मात्सुषुप्तावपि सुखानुभवादिविशेषणतया प्रतीयमानः कालः साक्षिणैवेक्षणीयः । तथा चात्र प्रयोगः । कालो बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणविषयः । यथाऽसति चक्षुषि प्रतीयमानो गन्ध इति ॥ छ ॥ कालस्यसाक्षिवेद्यत्वसमर्थनोपसंहारः ॥ छ ॥

ननु दोषाभावस्य कारणत्वाभावेऽपि प्रयोजकत्वेनापेक्षाऽस्त्येव । अन्यथाऽदुष्टमिन्द्रियं त्वक्षं तर्कोऽदुष्टस्तथाऽनुमा । आगमोऽदुष्टवाक्यं च स्वदृक् चानुभवः स्मृत इत्यादावदुष्टत्वविशेषणं न स्यादित्यत आह ॥ कथञ्चिदिति । प्रतिबन्धकत्वाभावत्वादिनेत्यर्थः ॥ साक्षादिति । तस्य नित्यनिर्दोषत्वेनान्यापेक्षाभावात् । अत एव स्वदृक् चानुभव इत्येवोक्तम् । न निर्दोषत्यपीति भावः । तदन्यस्य प्रत्यक्षादिजन्यमनोवृत्तिज्ञानस्येत्यर्थः॥ इति व्यवस्थेति । तावताऽपि प्रामाण्यग्राहकतया साक्षिणोऽत्यावश्यकतया साक्षिसत्त्वरूपप्रकृतप्रमेयसिद्धेरिति भावः । नन्वस्तु प्रामाण्यस्य साक्ष्यन्यावेद्यत्वेन तद्ग्राहकतया साक्षिसत्वम् । तथापि न तद्ग्राह्यत्वं कालादेर्युक्तम् । तस्यानुमानिकत्वायोगेऽपि प्रत्यक्षादिवेद्यत्वसम्भवादित्याशङ्कां परिहरन्साक्षिणै वानुभूयते काल इत्यनुक्रान्तावान्तरप्रमेयमुसंहरति ।। तस्मादिति । प्रामाण्यग्राहकत्वेन साक्षिणोऽवश्यापेक्षणीयत्वादित्यर्थः ।। सुखेति । एतावन्तं कालं सुखमहमस्वाप्समित्युत्थितस्य परामर्शदर्शनात्पूर्वमननुभूतस्य पश्चात्परामर्शायोगात्तदा च बाह्येन्द्रियाणां मनसश्चोपरतत्वेन प्रत्यक्षानुमानयोरप्रवृत्त्या परिशेषात्साक्ष्यनुभव एवैष्टव्यः । उक्तं चानुव्याख्याने । "कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतित" इतीति भावः । एतेन षडिन्द्रियवेद्यः काल इत्यादिपक्षोऽपि प्रत्युक्तः । आदिपदेनाज्ञानदुःखाभावादिग्रहपरिग्रहः । उक्तमर्थं प्रयोगारूढतया दर्शयति ।। तथा चेति । सुषुप्तावपि कालप्रतीतौ सत्यां हेतोरसिद्ध्यभावेनानुमानप्रयोगो निर्व्यूढ इत्यर्थः ॥ गन्ध इतीति । चक्षुर्व्यतिरिक्तघ्राणविषय इति शेषः ।। छ ।

Loading…