Join Tattvasudhā to study.

प्रामाण्यस्य स्वतस्त्वसमर्थनम्

§33Mūla

न हि स्वात्मनि कदाऽप्यन्यथाभावः । येन परीक्षानवस्था स्यात् । न चैवं परतस्त्वापत्तिः । परीक्षायाः प्रतिबन्धकदोषशङ्कानिरसने परिक्षीणत्वात् । न हि गोक्षुरकापसरणसापेक्षत्वेन गजस्य गमनशक्तिः परतन्त्रा । न चैवमप्रामाण्यस्यापि स्वतस्त्वापत्तिः । विसंवादानुसन्धनवतामेवाप्रामाण्यज्ञप्तिरित्य व्यभिचरितानन्यथासिद्धान्वयव्यतिरेकवशादनुमेयत्वाध्यवसायात् । प्रामाण्यनिश्चये तु प्रतिबन्धकनिवर्तकतया क्वचिदेव परीक्षापेक्षेति वैषम्यम् । न चाप्रामाण्यं क्वापि निरपेक्षेण साक्षिणा निश्चितचरम् । येन प्रतिबन्धकनिवर्तकतां तस्यां प्रतीमः । दोषाभावान्वयव्यतिरेकनियमात्प्रामाण्यस्य परतस्त्वं किन्न स्यादिति चेन्न । यादृच्छिकसंवादिषु प्रामाण्येऽपि दोषाभावाभावेन कारणत्वभङ्गात् । वेत्रबीजस्य स्वाङ्कुरजननशक्तेर्दाहाभावप्रयुक्ततापत्तिः । तथा च न क्वाप्युत्सर्गापवादौ स्यातामिति ॥ छ ॥ प्रामाण्यस्य स्वतस्त्वसमर्थनम् ॥ छ ॥

स्वविषयेऽप्यस्तु तदनुसरणमित्यत आह ॥ न हीति ॥ एवमिति । परीक्षासहकृतसाक्षिग्राह्यत्वे ज्ञानग्राहकमात्रग्राह्यत्वरूपस्वतस्त्वाभावादिति भावः । बुद्धिदोषनिरासमात्रकारणत्वाद्युक्तीनामिति विष्णुतत्त्वनिर्णयोक्तमाह ॥ परीक्षाया इति । प्रामाण्यग्रहणप्रतिबन्धकेत्यर्थः । गोक्षुरको नाम कण्टकविशेषः ॥ न चैवमिति । परीक्षाया दोषशङ्कानिरासोपक्षीणत्वे विसंवादरूपपरीक्षाया अपि गुणजन्यत्वशङ्कानिरासोपयोगसम्भवेन प्रामाण्यवदप्रामाण्यस्यापि ज्ञानग्राहकसाक्षिणैव ग्राह्यत्वप्राप्तेरिति भावः । दुष्टबुद्धीनामेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यमिति तत्त्वनिर्णयवाक्यं हृदि कृत्वाऽऽह ॥ विसंवादेति ॥ अनुमेयत्वेति । परीक्षासहकृतसाक्षिवेद्यत्वेत्यर्थः। तेन दोषदर्शने त्वप्रामाण्यमिति पूर्ववाक्येन निरपेक्षेण साक्षिणा निश्चितचरमित्युत्तरवाक्येन च विरोधो न शङ्क्यः । उक्तं हि तर्कताण्डवे प्रामाण्यानुमित्यसम्भववादे वादावल्यां चेत्यादिग्रन्थेनैवमेव । अनुमेयत्वोक्तिस्तु साक्षिणोऽप्रामाण्यग्रहणे विसंवादापेक्षा नियतेत्यभिप्रेत्येति च । नन्वेवं परीक्षायामेव प्रामाण्यनिश्चयो नान्यथेति तद्ग्रहः परत एव स्यादित्यत आह ॥ प्रामाण्यनिश्चये त्विति । क्वचिदेवानभ्यासापन्नस्थल एवेत्यर्थः । तथा च संवादो व्यभिचरितोऽन्यथासिद्धश्चेति न प्रामाण्यग्रहोपयोगीति भावः । अप्रामाण्येऽप्येवमस्त्वित्यत आह ॥ न चाप्रामाण्यमिति । व्यक्तमेतत्प्रमेयं तत्त्वनिर्णयटीकायां प्रकृत्यधिकरणसुधादौ च । उपपादितं चैतत्सर्वं तर्कताण्डव इति विस्तरभयान्नात्यन्तं प्रपञ्चनं कृतमस्माभिः । ननूत्पत्तौ प्रामाण्यस्य ज्ञानजनकातिरिक्तदोषाभावजन्यतया परतस्त्वाज्ज्ञाप्तावपि तथात्वमेवाभ्युपेयमिति भावेनोत्पत्तौ परतस्त्वं परः शङ्कते ॥ दोषाभावेति । प्रतिबन्धकाभावसाधारणं प्रयोजकत्वमात्रमाशङ्कते कारणत्वमेव वा । नाद्यः । इष्टापत्तेः । न द्वितीयः । व्यतिरेकव्यभिचारादिति भावेनाह ॥ यादृच्छिकेति । किञ्चान्वयव्यतिरेकाभ्यां दोषाभावस्यापेक्षितत्वेऽपि प्रमाजननशक्ति-र्ज्ञानजननशक्तिवत्सहजा । न तु भ्रमजननशक्तिवदाधेयेत्येतावतैव प्रामाण्यस्य स्वतस्त्वं स्यात् । न हि सहजाऽपि प्रमाजननशक्तिर्दोषाभावप्रयुक्ता । तथात्वे चातिप्रसङ्ग इति भावेनाह ॥ वेत्रबीजस्येति । वेत्रबीजे हि वेत्राङ्कुर-जननशक्तिः सहजा । कदलीकाण्डजननशक्तिर्वह्निदाहजनिता । तथा च दाहाभावस्यान्वयव्यतिरेकनियममात्रेण वेत्राङ्कुरजननशक्तेर्दाहाभावाधेयत्वरूपं तत्प्रयुक्तत्वं स्यादित्यर्थः। अस्त्वेवमित्यत आह ॥ तथा चेति । सहजशक्तेरपि प्रतिबन्धकाभावाधीनत्वे सति प्रतिबन्धकरूपापवादाभावस्यापि सामग्रीकोटिप्रविष्टतयाऽपवादस्थले सामग्रयभावादेव कार्याभावासिद्ध्या न हिंस्यात्सर्वा भूतानीत्यादिरुत्सर्गोऽग्नीषोमीयं पशुमालभेतेत्यादिरपवाद इति न स्यात् । अन्यथा दण्डचक्रादिसर्वकारणमेलनेन घटो जायत इत्युत्सर्गो दण्डाद्यन्यतमाभावस्थले घटो न जायत इत्यपवाद इति स्यात् । अतः प्रतिबन्धकाभावसाधारणस्य तस्य चाहेतुत्वाद्दोषाभावो न प्रामाण्यहेतुरिति भावः । इतिशब्दः प्रामाण्यस्वतस्त्वोक्तिसमाप्तौ । विवृतमेतत्प्रमेयं निपुणतरं तर्कताण्डवे दोषाभावस्य प्रमाहेतुत्वभङ्गे प्रतिबन्धकाभावस्य हेतुत्वभङ्गे च ।। छ ।।

Loading…