Join Tattvasudhā to study.

प्रामाण्यस्य स्वतस्त्वसमर्थनम्

§33Mūla

तथा ह्यस्त्यत्र पानीयमिति श्रुतवतस्तत्प्रामाण्ये सन्दिहानस्य वायुविशेषादिभिरनुमानमपि समुदेति । तत्रापि साशङ्कश्चेच्चक्षुषैव निश्चिनोति । प्रत्यासन्नश्च सलिलपानानन्तरमुदन्याभावनिमित्तं दुःखाभावं सुखं च साक्षादेव साक्षिणाऽनुभवन्न तत्र संशेते । सुखदुःखेच्छातदभावादिषु साक्षिसिद्धेषु क्वचिदन्यथाभावस्यानुपलम्भात् । अन्यथा सर्वत्र संशयानपगमात्सर्वव्यवहारलोपप्रसङ्गः । मानसवृत्तिषु पुनरनादौ संसारे द्वयीं गतिमनुसन्दधत्साक्षी सहसैव प्रमाणमेतदिति न निश्चेतुं प्रभवति । किन्तु दोषाभावनिश्चयद्वारैव । दोषाभावं च न स्वयमेवावधारयितुमीष्टे । अपि तु परीक्षासहकृत एव । परीक्षाया अपि यावत्स्वविषयेषु सुखादिषु पर्यवसानं तावत्परीक्षान्तरमनुसरति ।

स्वानुभूतेष्वित्यादिनोक्तं व्यनक्ति ॥ तथा ह्यस्त्यत्रेति ॥ श्रुतवत इति । वाक्यमिति शेषः । तत्प्रामाण्ये वाक्यप्रामाण्ये । किमिदं विप्रलम्भादिमूलमुत नेति सन्दिहानस्येत्यर्थः ॥ वाय्विति । शीतलवायुविशेषेण ततो निर्गतार्द्रपक्षिदर्शनेन रूपविशेषदर्शनादिना चेदं जलमित्यनुमानमित्यर्थः ॥ तत्रेति । लिङ्गजन्यानुमितिरूपज्ञाने प्रमाणमुत नेति साशङ्कश्चेदित्यर्थः । निश्चिनोति जलमेवेदमिति निश्चिनोतीत्यर्थः । उदन्याभावः पिपासाशान्तिः । तन्निमित्तमित्यर्थः ॥ न तत्रेति । साक्ष्यनुभूते दुःखाभावे सुखे चेत्यर्थः । संशेते संशयं करोति । संशयाभावे हेतुमाह ॥ सुखेति । इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः । साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान्कचित् ॥ इत्यनुव्याख्यानोक्तेरिति भावः ॥ अन्यथेति । अन्यथाभावानुपलम्भेऽपि सन्देह इत्यर्थः । किमनया द्विधाकल्पनया । साक्षिवत्प्रत्यक्षादिज्ञानस्यापि प्रामाण्यग्रहः परीक्षानपेक्ष एव किन्न स्यादित्यत आह ॥ मानसवृत्तिष्विति । द्वयीं गतिं बाधाबाधलक्षणां गतिमित्यर्थः ॥ अनुसन्दधदिति । नाभ्यस्ताच्छतुरिति नुमभावः । साक्षिणैवास्तु तर्हि दोषाभावानिश्चय इत्यत आह ॥दोषाभावं चेति । अशक्तत्वादिति भावः ।

Loading…