Join Tattvasudhā to study.

प्रामाण्यस्य स्वतस्त्वसमर्थनम्

§33Mūla

न च परीक्षायां परीक्षान्तरापेक्षायामनवस्था । नापि स्वपरीक्षापेक्षा साक्षिरूपस्यानुभवस्य स्वप्रकाशात्मस्वरूपत्वाभ्युपगमान्न तत्र परीक्षापेक्षा । मामहं जानामीत्यनुभवाद्विशेषबलाच्च न कर्तृकर्मभावविरोधः । नापि स्वानुभूतेषु परीक्षाकाङ्क्षा । तस्यादोषतया संशयानवकाशात् । तदुक्तं - सुदृढो निर्णय यत्र ज्ञेयं तत्साक्षिदर्शनम् । न परीक्षाऽनवस्था स्यात्साक्षिसिद्धे त्वसंशयात् ॥ इति । यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत् । इति च ।

ननु परीक्षामपेक्ष्य साक्षिणा प्रामाण्यग्रहणे तत्रापि प्रामाण्यावधारणार्थं दोषाभावनिश्चयाय परीक्षान्तरापेक्षायामनवस्था स्यात्तथा साक्षिणोऽप्यनवधृतप्रमाणभावस्य स्वयं दुष्टस्य न परप्रामाण्यावधारणसामर्थ्यमिति स्वप्रामाण्यावधारणाय दोषाभावनिश्चायकपरीक्षान्तरापेक्षायां साक्षिप्रामाण्यग्राहकान्तरापेक्षाया आवश्यकत्वादित्याशङ्क्य निषेधति ॥ न चेति ॥ नापि स्वपरीक्षापेक्षेति च । स्वेति साक्षी गृह्यते । उपलक्षणमेतत् । । ग्राहकान्तरापेक्षेति च ग्राह्यम् । यदि साक्षी स्वयम्भातो न मानमिति वैशेषिकनयानुव्याख्याने स्वयम्भात इत्युक्तहेतुना परीक्षानवस्थां ग्राह- कानवस्थां च तावन्निराह ॥ साक्षिरूपस्येति । आत्मस्वरूपत्वेत्युक्त्या प्रागुक्तानात्मत्वकार्यत्वादिहेतुविरोधः प्रत्युक्तः । स्वप्रकाशात्मस्वरूपत्व- घटनायानुभवस्येत्युक्तम् । तावता स्वयम्प्रकाशत्वेन स्वप्रामाण्यस्यापि स्वेनैव ग्रहणे ग्राहकानवस्थाभावेऽपि कथं न परीक्षाऽनवस्थेत्यत आह ॥ न तत्रेति । स्वेनैव स्वप्रामाण्यग्रहण इत्यर्थः । तस्यादोषत्वनिर्णयादिति भावः । आत्मनः स्वप्रकाशत्वमेवासिद्धमित्यत आह ॥ मामिति । नन्वेकस्यां क्रियायां कर्तृत्वं कर्मत्वमेकस्य विरुद्धमित्यत आह ॥ विशेषेति । वस्तुसामर्थ्यापरपर्यायरूपविशेषबलादित्यर्थः । समर्थितश्च विशेषोऽनुव्यख्यानादौ तत्र तत्र, मूलग्रन्थेषु तद्विवरणरूपोपाधिखण्डनटीकाभावप्रकाशिकायां च । नन्वथाऽपि वृत्तिज्ञानप्रामाण्यग्रहणे परीक्षानवस्थेति दोषं निराह ॥ नापीति । स्यादियमनवस्था यदि सर्वत्र परीक्षापेक्षा स्यात् । न चैवं किन्तु सन्दिग्ध एव । सन्देहश्च मनोवृत्तिविषये पानीयादावेव । न तु साक्षिसिद्धसुखादाविति । तावदेव परीक्षा यावत्साक्षिगृहीतेषु सुखादिष्ववतार इति कुतोऽनवस्थेति भावेनाह ॥ तस्यादोषतया संशयानवकाशादिति । क्वचिदप्यर्थव्यभिचारित्वाभाववत्तयेत्यर्थः । साक्षिसिद्धे संशयो नेत्येतदनु- व्याख्यानेन संवादयति ॥ तदुक्तमिति । ज्ञानपादीयानुव्याख्याने उक्तमित्यर्थः । सुदृढः कदाऽपि बाधरहितः । निर्णयोऽवधारणात्मकः प्रत्ययः । यत्रेति निपातो य इत्यर्थः । तत्रैव पूर्वत्र पठितमर्धश्लोकमाह ॥ न परीक्षेति । एवं हि तत्र क्रमः । न परीक्षानवस्था स्यात्साक्षिसिद्धे त्वसंशयात् । मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने । सुदृढो निर्णय इत्यादिः । ननु साक्षिदर्शनं बाधरहितमित्ययुक्तम् । शुक्तिरूप्यज्ञानप्रामाण्ये बाधदृष्टेरित्यत आह ॥ यत्क्वचिद्व्यभिचारि स्यादिति । क्वचिच्छुक्तिरूप्यज्ञानप्रामाण्य इत्यर्थः । तज्ज्ञानमप्रमाणमपि मनस्येव प्रामाणमिति गृह्यते । न साक्षिणा । साक्षी तु ज्ञानमात्रमेव गृहीत्वोदास्त इति भावः । यद्वा मायावादिमते शुक्तिरूप्यादिज्ञानं साक्षिरूपमेव बाधितं चात: साक्षी बाधशून्य इत्ययुक्तमित्यत आह ॥यदिति । क्वचिच्छक्तिरूप्यादौ । यद्दर्शनं व्यभिचारि बाधितं स्यात् । तच्चक्षुरादिकरणकमन: परिणतिरूपमेव न साक्षिरूपमित्यर्थः । इति च तत्रैवोक्तमनुव्याख्यान इत्यर्थः ।

Loading…