Join Tattvasudhā to study.

प्रामाण्यस्य स्वतस्त्वसमर्थनम्

§33Mūla

स च ज्ञानं गृह्णन्न दोषं चेत्प्रमाणं न चेदन्यथेत्येव व्यवस्थया गृह्णाति । तथा च नारोपितज्ञानप्रामाण्यग्रहणप्रसङ्गः । यदा त्वर्थित्वेन प्रामाण्यं निश्चिचीषति तदा सजातीयविजातीयसंवाद- विसंवादभावाभावलक्षणया परीक्षया दोषाभावं निश्चित्य प्रामाण्यमवधारयति । दोषदर्शने त्वप्रामाण्यम् ।

ननु यदि साक्षिणैव तत्प्रामाण्याध्यवसायस्तर्हि बौद्धागमज्ञान- प्रामाण्यस्यापि ग्रहणप्रसङ्ग इत्युक्तदोषापत्त्या न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यत इत्युक्तिव्याहतिः । तदर्थं परीक्षापेक्षायां ज्ञानग्राहकमात्रग्राह्यत्वभङ्ग इत्यतो ज्ञानस्य ग्राहकेणैव साक्षिणा मानता मितेः । दोषाभावे प्रामाणत्वं दोषाभावस्य साक्षिणा । निश्चितत्वं क्वचिचैव स्वतः प्रामाण्यमिष्यते । इति ज्ञानपादीयानुव्याख्यानमेव हृदि कृत्वाऽऽह ॥ स चेति । साक्षीत्यर्थः। अन्यथाऽप्रमाणमित्येव न तु प्रमाणमेवेदमित्यर्थः ॥ तथा चेति । एवं सत्यारोपितार्थविषयज्ञानप्रामाण्यस्य न ग्रहणप्रसङ्ग इत्यर्थः । एवं हि प्रामाण्यनिर्णयो न स्यादित्यत आह ॥ यदा त्विति । अर्थित्वेन प्रामाण्यनिश्चयजन्यफलकामनया । तद्धेतुप्रामाण्यनिश्चयमिच्छति पुरुष इत्यर्थः । सजातीयसंवादभावस्तद्विषयविषयकप्रमाणभूतज्ञानान्तरमिति भाव: | तदुचितार्थक्रियाकारित्वाभावाद्यभावो विजातीयसंवादाभावस्ताभ्यां प्रामाण्यमवधारयति साक्षीत्युक्ते ज्ञानग्रहणं निरपेक्षेण साक्षिणा प्रामाण्यग्रहणं तु सापेक्षेणेति स्वतस्त्वभङ्गनिरासाय दोषाभावनिश्चये तयोरुपयोगं वक्तुं दोषाभावं निश्चित्येत्युक्तम् । नन्वप्रामाण्यमपि यदि साक्षिग्राह्यं तर्हि तस्यापि स्वतस्त्वं स्याद्यदि परतस्तर्हि किमदुष्टकरणजन्यत्वेनेत्यादिप्रागुक्तहेतुविपरीतहेतुभिश्चेत्तद्वदेव दोषाः प्रसरन्तीत्याह ॥ दोषदर्शने त्वप्रामाण्यमिति । पूर्वोक्तपरीक्षासहकृतः साक्षी अप्रामाण्यं निर्धारयतीत्यर्थः । तथा च न कोsपि दोष इति भावः ।

Loading…