साक्षिसमर्थनम्
न पञ्चमः । अनुपसञ्जातबाधभ्रमेष्वपि प्रामाण्यनिश्च- यापातात् । पुरुषदेशकालविशेषविकल्पानुपपत्तेश्च । न षष्ठः । अनात्मरूपेषु मनोवृत्तिज्ञानेषु स्वयम्प्रकाशत्वासम्भवात् । वेदवाक्याद्बाह्यस्योत्पन्ने ज्ञाने तत्प्रामाण्यं तेनैव स्फुरति न वा । आद्ये न तन्निराकुर्यात् । द्वितीये कथं स्वतस्त्वसिद्धिः । अपौरुषेयत्वादियुक्तिभिः कथं वा परः पश्चात्प्रतिबोध्यते । न च ज्ञानतत्प्रामाण्ययोः सहैवानुमानमिति पक्ष: । अनुमेयत्वे मानाभावात् । व्यवहारस्य त्वन्यथाऽप्युपपत्तेः । अपरोक्षानुभवविरोधाच्च । ज्ञानं हि ज्ञाततया व्यवहारेण वा कार्येणानुमेयम् । न च तत्प्रामाण्याविनाभावि । शुक्तिरूप्यादौ व्यभिचारात् । बाह्यागमज्ञानानामपि प्रामाण्यानुमानप्रसङ्गः । प्रसक्तमप्यपोद्यत इति चेत्तर्ह्यपवादनिरासाय परीक्षापेक्षायां यौगपद्यभङ्गात्कुतो ज्ञानग्राहकमात्रग्राह्यत्वम् । तस्माज्ज्ञानग्राहकेणैव साक्षिणा तत्प्रामाण्याध्यवसायः ॥ छ ॥ साक्षिसमर्थनम् ॥ छ ॥
॥ अनुपसञ्जातेति । यस्य पुरुषस्य भ्रमो वृत्तस्तस्यान्यत्र व्यासङ्गादिना बाधो न जातस्तत्र विसंवादाभावो व्यभिचारीति भावः । तत्र तस्य विसंवादानवतारेऽप्यन्यबाधावतारोऽस्तीत्यनुशयेनाह ॥ पुरुषेति । किं यस्य भ्रमो वृत्तस्तत्पुरुषीयविसंवादाभावोऽभिमतोऽथ पुरुषान्तरीयतदभाव उत सर्वपुरुषीयतदभावः । आद्येऽनुपसञ्जातबाधेत्युक्तदोष एव । द्वितीये पुरुषान्तराभावस्थले व्यभिचारः । न तृतीयः । तस्यैव प्रथमं दुर्ज्ञानत्वात् । ज्ञानयाथार्थ्येन तन्निश्चयेऽन्योन्याश्रयात् । एवं देशे काले च विकल्पदोषौ बोध्यौ । न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यत इति ज्ञानपादीयानुव्याख्यानं हृदि कृत्वा मीमांसकपक्षं प्रतिक्षिपति ॥ न षष्ठ इति । तत्र प्राभाकरमतं तावद्दूषयति ॥अनात्मरूपेष्विति । मानाभावादिदमहं जानामीत्यनुभवस्य साक्षिरूपत्वेनोपपत्तेर्विमतं न स्वप्रकाशमनात्मरूपत्वात्कार्यत्वादनित्यत्वा-न्मनोरूपत्वात्सुखादिवदित्यादिमानविरुद्धत्वाच्च स्वप्रकाशत्वानुपपत्तेरिति भावः । दोषान्तरं वक्तृं विकल्पयति ॥ वेदेति ॥ न तन्निराकुर्यादिति । प्रमितस्य निराकरणायोगादिति भावः । द्वितीये तज्ज्ञानं स्वस्वरूपं गृह्णाति न वा । द्वितीये स्वप्रकाशत्वभङ्ग इति दूषणं स्पष्टत्वादित्युपेक्ष्याद्य आह ॥ द्वितीय इति । ज्ञानग्रहणेऽपि प्रामाण्याग्रहणे कथं न स्वतस्त्वभङ्ग इत्यर्थः । किञ्चोत्पद्यमानं ज्ञानं स्वरूपं स्वप्रामाण्यं च यदि निश्चिनुयात्तर्हि वेदादुत्पन्ने ज्ञानेऽप्रामाण्यशङ्कायामपौरुषेयवाक्यजातत्वाद्दुष्टकरणाजन्यत्वाद्बाधशून्यत्वादित्यादियुक्तिभिः कथं पश्चात्परो ब्रह्मादि निश्चिनुयात् । तेन ज्ञायते न सर्वत्रान्यनिरपेक्ष्यवृत्तिज्ञानं स्वप्रामाण्यमवधारयतीति भावेनाह ॥ अपौरुषेयत्वेति ॥ पश्चादिति । अन्यथा वृत्तिज्ञानेनैव तत्प्रामाण्यग्रहणे ज्ञानस्वरूप इव वैदिकज्ञानप्रामाण्ये कस्यापि विप्रतिपत्तिर्न स्यादिति भावः । किञ्चैवं वादिनो मते शुक्तिरजतादिविभ्रमो न स्यात् । इदमनुभवस्य रजतस्मरणस्य भेदाग्रहो हि विभ्रमः । तत्र प्रामाण्यवद्भेदस्यानुभवत्वस्मरणत्वयोश्च प्रकाशोऽवश्यम्भावीति कथं विभ्रमावकाशः । न च स्वरूप एव स्वप्रकाशं न भेदादिस्वधर्मेष्वपीति वाच्यम् । प्रामाण्येऽपि साम्यात् । न च प्रामाण्यादन्यस्वधर्मेष्विति युक्तम् । विशेषाभावादित्यपि बोध्यम् । भट्टमतं प्रतिक्षिपति ॥ न च ज्ञानेति ॥ सहैवेति । ज्ञानानुमापकेनैव सर्वत्रान्यानपेक्षेण प्रामाण्यमनुमीयत इत्यर्थः ॥ अनुमेयत्व इति । ज्ञानस्येति शेषः । ज्ञानस्यानुमेयत्वे हि तद्ग्राहकेणैव प्रामाण्यस्य ग्रहणमिति तस्याप्यनु-मेयत्वं ज्ञानेन सह प्राप्नोति । तदेव नास्ति । प्रमाणाभावादित्यर्थः । ननु घटमहं जानामीति व्यवहारान्यथाऽनुपपत्तिर्ज्ञानस्यानुमेयत्वे मानमित्यत आह ॥ व्यवहारस्य त्विति । साक्षिवेद्यत्वेनाप्युपपत्तेरित्यर्थः । कोऽन्वत्र विशेष इत्यत आह ॥ अपरोक्षेति । ज्ञानं साक्षात्करोमीत्यनुभवविरोधे-नानुमेयत्वं हित्वा साक्षिप्रत्यक्षत्वमेवोपेयमिति भावः । उपलक्षणमेतत् । आशुतरविनाशिज्ञानस्य वर्तमानतया प्रतिभासायोगाच्चेत्यपि बोध्यम् । अस्तु वा ज्ञानस्यानुमेयत्वं तथाऽपि ज्ञानानुमापकेनैव प्रामाण्यमनुमातुं न शक्यं व्यभिचारादित्याह ॥ ज्ञानं हीति । व्यवहारेणार्थविषयकाभिलापादि-व्यवहारेणेत्यर्थः । ततश्च किमित्यत आह ॥ न चेति । दोषान्तरं चाह ॥ बाह्येति । बाह्यागमाज्जायमानज्ञानेष्वपि तत्कार्यज्ञाततादिलिङ्गेन तत्प्रामाण्यानुमानप्राप्तावप्यनाप्तवाक्यजत्वादिनाऽपोद्यत इत्याशङ्क्याह ॥ प्रसक्तमिति ॥ परीक्षेति । अपवादनिरासयुक्त्यपेक्षायामित्यर्थः । ज्ञानानुमापकं हि लिङ्गं पूर्वं ज्ञानं गृहित्वा तत्र दोषजन्यत्वशङ्काद्यपवादनिरासकयुक्त्यन्तरानुसन्धानरूपपरीक्षामपेक्ष्यैव पश्चात्प्रामाण्यं निश्चाययति । न तु ज्ञानेन सहैव ज्ञानत्वमिव । तथा च कथं सर्वत्र ज्ञानानुमापकं ज्ञानेन सहैवान्यदनपेक्ष्य प्रामाण्यमप्यनुमापयतीति यौगपद्यं स्यादित्यर्थः । उत्सर्गतो ज्ञानग्राहकेणैव गृह्यते प्रामाण्यं क्वचित्परीक्षामपेक्ष्येत्येवंरूपं स्वतो ग्राह्यत्वं न वक्ष्यमाणास्मन्मतप्रतिकूलमिति भावः । एवं प्रसक्तपक्षान्प्रतिक्षिप्य परिशिष्यमाणं प्राक् प्रतिज्ञातमर्थमाह ॥ तस्मादिति । प्रसक्तपक्षाणामनु-पपन्नत्वादित्यर्थः ॥ छ ॥