साक्षिसमर्थनम्
प्रमाणानां प्रामाण्यनिर्वाहकत्वेन चापेक्षणीयः साक्षी । तद्धि याथार्थ्यलक्षणं किमदुष्टकरणजन्यत्वेनावसेयं दुष्टकरणाजन्यत्वेन वाऽथ प्रवृत्तिसामर्थ्येन यद्वा ज्ञानान्तरसंवादेन किं वा विसंवादाभावेनाहोस्वि- त्स्वतः । नाद्यः । तस्यैव दुरवधारणत्वात् । ज्ञानयाथार्थ्येन तन्निश्चये परस्पराश्रयापातः । अत एव न द्वितीयः । नापि तृतीयः । सर्वत्र ज्ञाने तदभावात् । चतुर्थस्तु सुखादिज्ञानेष्वसम्भावितः । ज्ञानमात्रसंवादेन च प्रामाण्याभ्युपगमे धारावाहिकविभ्रमो नाम न स्यात् । यथार्थज्ञानसंवा- दाभ्युपगमे च तस्यापि याथार्थ्यावधारणायामनवस्था स्यात् ।
स्यादेतद्यदि साक्षिरूपं किञ्चित्प्रमाणं स्यात् । तदेव नभोनलिनायतमिति चेन्न । कालाकाशादीनां मानान्तरावेद्यत्वस्योक्ततया तत्साधकतया साक्षिणोऽपेक्षणीयत्वात् । यदि साक्षीस्वयम्भातो न मानं केन गम्यते । अक्षजादेश्च मानत्वमनवस्थाऽन्यथा भवेदिति वैशेषिकनयानु- व्याख्यानोक्तरीत्या प्रामाण्यग्राहकत्वेनापि साक्षिसिद्धिरिति भावेनाह ॥ प्रमाणानामिति । प्रत्यक्षानुमानागमजन्यानां प्रमितीनामित्यर्थः । प्रामाण्यनिर्वाहकत्वेन प्रामाण्यनिश्चायकत्वेन । ननु प्रामाण्यस्यान्यतोऽपि ग्रहसम्भवात्कुतस्तन्निर्वाहकत्वेन साक्षिसिद्धिरित्यतः परिशेषादित्याशयेन तत्र प्रसक्तानि प्रत्याचिख्यासुः प्रमाकरणत्वानधिगतार्थगन्तृत्वादिप्रामाण्यानां परोदीरितानामव्याप्त्यादि- दुष्टत्वस्यान्यत्र व्युत्पादितत्वात् । गुरुतया साक्ष्ययोग्यत्वाच्च स्वाभिमतं प्रामाण्यमाह ॥ तद्धीति । यन्निर्वाहकत्वेन साक्ष्यपेक्षणीय इत्युक्तं तदित्यर्थः । “ याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयो: " इति ब्रह्मतर्कादिप्रसिद्धिं हिशब्देनाह । अर्थशब्दोऽर्यत इति व्युत्पत्त्या ज्ञेयवाची ऋ गतावित्यस्य कर्मणि थप्रत्यये गत्यर्थस्य ज्ञानार्थत्वाज्ज्ञेयलाभः । यथाशब्दश्च "योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था" इत्यर्थचतुष्टयवाचित्वेऽपीह योग्यतया पदार्थानतिवृत्तिवाची । तथा च ज्ञेयमनतिक्रम्य वर्तमानं यथार्थम् । अव्ययं विभक्तीत्यादिनाऽव्ययीभावसमासः । यथावस्थितज्ञेयविषयीकारीति यावत् । यथार्थं भावः याथार्थ्यम् । तच्च ज्ञाने साक्षात् करणेषु परम्परया । न चैवं वैरूप्यम् । ज्ञानवत्करणानामपि सविषयकत्वेन विषयीकारित्वस्य ज्ञानकरणयोरुभयत्र साम्यम् । ज्ञेयत्वांशस्य ज्ञाने स्वोपाधिकतया करणे चान्योपाधिकतयेत्येतावन्मात्रेण ज्ञानकरणयोः साक्षात्पारम्पर्यव्यवहारात् । शिष्टं सुधायां स्पष्टम् । भीषयत्यस्मांस्तु विस्तरः । इह च ज्ञाननिष्ठं साक्षाज्ज्ञेयविषयीकारित्वं साक्षिग्राहित्वेनाभिमतम् । नान्यदिति ध्येयम् । तत्र प्रसक्तान्युट्टङ्कयति ॥ किमदुष्टेति । अदुष्टं यत्करणं प्रत्यक्षादि तज्जन्यत्वेन लिङ्गेनावसेयं निश्वेयं तत्प्रामाण्यमित्यर्थः । इदमुक्तं भवति । इदं ज्ञानं प्रमाणमदुष्टकरणजन्यत्वाद्व्यतिरेकेणाप्रमाव- दिति । एवमग्रेऽपि करणजन्यत्वमात्रस्य भ्रमे व्यभिचाराददुष्टेत्युक्तम् । नित्यज्ञाने प्रामाण्यानिश्चयप्रसङ्गादाह ॥ दुष्टेति । गगने घटादौ च व्यभिचारवारणाय दुष्टकरणाजन्यज्ञानत्वेनेति ज्ञानपदं योज्यम् । इदं च जन्येऽजन्ये च ज्ञानेऽस्तीति भावः । अस्य प्रथमतो दुर्ज्ञानत्वात्पक्षान्तरमाह ॥ अथेति । प्रवृत्तेर्यत्सामर्थ्यं सप्रयोजनत्वं तेनेत्यर्थः । समर्थप्रवृत्तिजनकत्वेनेति यावत् । तेन न व्यधिकरणासिद्धिशङ्का । अस्य सर्वत्राभावेन भागासिद्धिप्रसङ्गादाह ॥ यद्वेति । भ्रमरूपधारावाहिकज्ञाने व्यभिचारादाह ॥ किं वा विसंवादेति । मीमांसकमतमाह || स्वत इति । स्वशब्दः पक्षीभूतप्रामाण्याश्रयज्ञानपरः । तथा च स्वेनैव च स्वप्रामाण्यं गृह्यत इत्यर्थः । प्राभाकरैर्मनोवृत्तिरूपज्ञानस्य स्वप्रकाशत्वाङ्गीकारात् । तथा स्वशब्दः स्वीयवाची । स्वजन्यज्ञाततारूपलिङ्गादित्यर्थः । भट्टमते ज्ञानस्यातीन्द्रियत्वेन ज्ञाततारूपलिङ्गाज्ज्ञानं तत्प्रामाण्येन सहैव गृह्यत इत्यङ्गीकारात् । एवमनूदितान्कल्पान्क्रमेण निरस्यति ॥ नाद्य इति । तस्यादुष्टकरण- जन्यत्वस्येत्यर्थः । निश्चायकाभावादिति भावः । ननु विमतमदुष्टकरणजन्यं यथार्थज्ञानत्वात् । व्यतिरेकेण भ्रमवदिति तदवधारणं सुशकमित्यत आह ॥ ज्ञानेति । तन्निश्चयेऽदुष्टकरणजन्यत्वनिश्चये । अङ्गीक्रियमाणे सति ज्ञानयाथार्थ्यनिश्चये तन्निश्चयस्तन्निश्चये च तन्निश्चय इत्यन्योन्याश्रयादित्यर्थः ॥ अत एवेति । हेतोर्दुरवधारणत्वात्परस्पराश्रयत्वापाताच्चेत्यर्थः ॥ सर्वत्र ज्ञान इति । सर्वेषु ज्ञानेष्वित्यर्थः । उदासीनादिज्ञाने प्रवृत्तेरभावेन भागासिद्धेरित्यर्थः । न च तद्भिन्नमेव पक्ष इति वाच्यम् । तत्र प्रामाण्यानिश्चयप्रसङ्गात् । न च तत्र लिङ्गान्तरात्तनिश्चयः। तस्याप्युक्त- वक्ष्यमाणरीत्या दुष्टत्वादिति भावः। ज्ञानान्तरसंवाद इत्यत्र विजातीयसंवादः सजातीयसंवादो वा । आद्य आह ॥ सुखादीति । सुखदुःखादीनां साक्ष्येकगोचरत्वे मानसत्त्वे वोभयथाऽपि न प्रमाणान्तरसंवादोऽस्ति । न चाहं सुखी प्रसादवत्त्वादिति प्रमाणान्तरसंवादोऽस्तीति वाच्यम् । समाने विषयेऽनुमितिसामग्रीतः प्रत्यक्षसामग्रयाः प्रबलत्वात् । तदाऽपि तस्य मनसा साक्षिणा वा ग्रहादित्याहुः । द्वितीयेऽपि भ्रमप्रमासाधारणसजातीयज्ञानमात्रसंवादो वा यथार्थज्ञानसंवादो वा । आद्य आह ॥ ज्ञानमात्रेति । तत्राप्युत्तरोत्तरसंवादेन पूर्वपूर्वस्य पूर्वपूर्व- संवादेनोत्तरोत्तरस्य च प्रामाण्यसम्भवादिति भावः । अन्त्य आह ॥ यथार्थेति । पूर्वपूर्वज्ञानेनैव तद्याथार्थ्यनिर्णयेऽन्योन्याश्रयापातेन परम्पराश्रयणावश्यम्भावेनानवस्था स्यादित्यर्थः । न चावश्यवेद्यत्वाभावान्नानवस्थेति वाच्यम् | निष्कम्पप्रवृत्त्यर्थतयाऽवश्यवेद्यत्वात् । अन्यथाऽप्रामाण्यशङ्काशून्यार्थनिश्चयादेव प्रवृत्त्युपपत्तौ प्रामाण्यं नावधार्यमेव स्यात् । अप्रामाण्यशङ्काभावार्थमपि प्रामाण्यनिश्चयस्यावश्यकत्वात् । बह्वायाससाध्ये जिज्ञासाया आवश्यकत्वेन कोटिस्मरणादेरवर्जनीयत्वादिति भावः ।