कालादेः साक्षिसिद्धत्वसमर्थनम्
न चैवमाकाशस्यैवापन्हवः । अत्रावरणाभाव इति तदाश्रयतया झडित्येव स्फुरणात् । न चैवं गगने व्यवहारः । क्वचिदिह गगनमिति व्यवहारस्तु मूर्तवस्तुसम्बन्धवशाद्वा प्रदेशनिष्ठतया वा निर्वहति । शब्दो विभुगुणो न भवति बाह्येन्द्रियग्राह्यगुणत्वादिति किन्नानुमीयते । स्पर्शो न पृथिव्यादिगुणो नीरूपेन्द्रियग्राह्यत्वादिति द्रव्यान्तरं वा किमिति न लभ्यते । अत आकाशकालदिगात्ममनांसि सुखदुःखेच्छादयश्च साक्षात्साक्षि- गोचराः । अन्ये तु पदार्था यथायथमिन्द्रियलिङ्गागमगम्या इत्याचार्य- सिद्धान्तः ॥ छ ॥ कालादेः साक्षिसिद्धत्वसमर्थनम् ॥ छ ॥
यदि विशेष्यतया गगनस्य व्यवहारः स्यात्तदोपनीतस्य विशेष्यतया भानाभावादावरणाभाववत्तस्य चाक्षुषत्वमङ्गीक्रियते न चैवमस्तीत्याह ॥ न चैवमिति । विशेष्यतयैवेत्येवंशब्दार्थः । पररीत्याऽऽह ॥ मूर्तवस्त्विति । आकाशोपाधिभूतस्य मूर्तवस्तुन एव तत्प्रतीतिविषयत्वमित्यर्थः । सिद्धान्तमाह ॥ प्रदेशेति । एवं शब्देनाकाशानुमाने प्रतिकूलतर्कपराहतिमभिधायेदानीं सत्प्रतिपक्षत्वं चाह ॥ शब्द इति । आत्मगुणे बुद्ध्यादौ व्यभिचारवारणाय बाह्येति पदम् । रूपवदिति दृष्टान्तो बोध्यः । तथा च तदाश्रयतया नाकाश-सिद्धिरिति भावः । अस्मदादीति विशेषणं बोध्यम् । तेन योगिबाह्येन्द्रिय-ग्राह्यपरमाणुसंयोगादौ न व्यभिचारः । गुणपदं विशेषगुणपरं बोध्यम् । एवं सामान्यानुमानं निरस्य परिशेषानुमानमप्याभाससाम्यदुष्टमिति भावेनाह ॥ स्पर्श इति । पृथिव्यादीति जलतेजोवायवो गृह्यन्ते । शब्दवज्ज्ञानवदिति वा दृष्टान्तो बोध्यः । तथा च पृथिव्यादिचतुष्टयातिरिक्तं स्पर्शवद्द्रव्यान्तरं सिध्येत् । तच्चाप्रामाणिकम् । तद्वदिहापि शब्दाश्रयभूतमष्टद्रव्यातिरिक्तमप्रामाणिकमित्यर्थः । तत्र स्पर्शस्य पृथिव्यादिगुणत्वनिषेधे प्रत्यक्षबाध इति चेत्तर्हि पञ्चीकरणप्रक्रियया पृथिव्यादेरपि शब्दवत्त्वेन बाधसाम्यमिति भावः । कालाकाशयोरानुमानिकत्वनिरासेन लब्धसाक्षिसिद्धत्वं तुल्यन्यायतयाऽन्येषामपि दर्शयन्नुपसंहरति ॥अत इति । आनुमानिकत्वायोगादित्यर्थः । आत्मनो बुद्ध्यादिगुणलिङ्गकत्वमुक्तन्यायेन व्युदसितव्यमिति भावः । सुखादीनां साक्षिसिद्धत्वं– इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः । साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान्क्वचित् ।। इति ज्ञानपादीयानुव्याख्याने व्यक्तमत्राप्यग्रे स्पष्टीभविष्यति । साक्षा-न्मनोवृत्तिव्यवधानमन्तरेणेत्यर्थः । यथायथं यथायोग्यमित्यर्थः । ननु कथमनुमानवेद्यतानिरासमात्रेण साक्षिगोचरतासिद्धिः । प्रत्यक्षागमवेद्यत्वेनापि सम्भवादिति चेन्मैवं वोचः । सुप्ताविन्द्रियाणामुपरतत्वेन न प्राकृतेन्द्रिय-प्रत्यक्षागमयोः प्रवृत्तिः । अस्ति च तदाऽप्याकाशकालात्मादीनां प्रतिभासः । तदा हस्तप्रसरणादिदर्शनात् । एतावन्तं कालं सुखमहमस्वाप्समिति परामर्शस्य च दर्शनात् । उक्तं चानुव्याख्याने । कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतित इति । विस्तृतं चैतदनानुमानिकत्वं न्यायसुधाया-मित्यभिप्रायस्योपसंहारग्रन्थे व्यक्तीकरिष्यमाणत्वात् ।। छ ।।