Join Tattvasudhā to study.

कालादेः साक्षिसिद्धत्वसमर्थनम्

§31Mūla

तदसत् । वाच्यवाचकादिवत्स्वभावप्रत्यासत्त्यैव विशिष्टप्रतीत्युपपत्तेः । अन्यथा युगपदुत्पन्नाभावादिषु यौगपद्यव्यवहारो न स्यात् । एवं परापरव्यवहारोऽपि । दिश एव कल्प्यतामुभयविधपरापरत्वव्यवहारनिर्वाहकत्वम् । अप्रसिद्धकालकल्पनात्प्रसिद्धस्यैवोपनायकताकल्पनस्य लघुत्वात् । शब्दाश्रयतया गगनानुमाने च जातिबधिरमूकादेर्गगनानिश्चयात्सञ्चार एव कुण्ठितः स्यात् । अरूपिद्रव्येषु चक्षुर्व्यापरायोगात् । कूपोऽयं रन्ध्रमेतदित्यादौ चक्षुर्व्यापारस्यावरणाभावविषयतयाऽप्युपपत्तेः ।

अनूदितं पूर्वपक्षं प्रतिक्षिपति ॥ तदसदिति ॥ वाच्यवाचकादीति । आदिपदेन भूतलाभावादिपरिग्रहः । यथा डित्थोऽयं देवदत्तोऽयमिति नामविशिष्टनामिव्यवहारजनकस्य विशेषणभूतस्य डित्थादिनाम्नो व्योमसमवेत- स्यावनिगतेन डित्थादिशब्दवाच्येन पिण्डेन सह वाच्यवाचकभावरूपसम्बन्धेनैवायं डित्थोऽयं देवदत्त इति विशिष्टव्यवहारजनकत्वम् । यथा वा घटशून्यं भूतलमिति विशिष्टव्यवहारहेतोर्घटाभावस्य भूतलेन सह स्वरूपसम्बन्धेन विशिष्टव्यवहारहेतुत्वम् । यथा चात्मगुणस्य ज्ञानेच्छादेर्घटेन स्वरूपसम्बन्धेन ज्ञातो घटो दृष्टो घट इत्यादिविशिष्ट-व्यवहारहेतुत्वं तद्वत्तपनधर्मस्यापि परिस्पन्दस्यावनिगतेन परापरादिपिण्डेन सह स्वरूपसम्बन्धेनैवायं परोऽयमपर इत्यादिविशिष्टव्यवहारहेतुत्वोपपत्तौ संयुक्तसंयोगिसमवायरूपपरम्परासम्बन्धकल्पने मानाभावादित्यर्थः | तथा च सम्बन्धसामान्यानुमाने स्वरूपसम्बन्धमादायार्थान्तरताऽतिरिक्तसम्बन्धसाधने च वाचकशब्दादौ व्यभिचार इति भाव: । सूर्यसञ्चारस्य पिण्डेन स्वरूपसम्बन्धेन विशिष्टव्यवहारहेतुत्वमनङ्गीकृत्य संयुक्तादिपरम्परासम्बन्धेन तद्धेतुत्वेऽङ्गीकृते बाधकमाह ॥अन्यथेति । आदिपदाद्युगपदुत्पन्नेषु ज्ञानेषु वाचकशब्देष्वित्यादि ग्राह्यम् । अभावादीनां केनाप्यसंयोगेन तै: साकं तपनपरिस्पन्दस्य संयुक्तसंयोगिसमवायरूपसम्बन्धाभावादेकतपनप्रचारविशिष्टत्वादिरूपयौगपद्यादि-विशिष्टव्यवहारजनकत्वं न स्यात् । अस्ति च युगपदुत्पन्नावभावाविति व्यवहारोऽतस्तत्र यौगपद्यादिविशिष्टव्यवहारार्थं स्वरूपसम्बन्ध एवैष्टव्य इति भावः ॥ एवं परापरव्यवहारोऽपीति । न स्यादिति वर्तते । परत्वादिव्यवहारोऽप्यभावादिषु न स्यादित्यर्थः । एवं स्वरूपसम्बन्धेन विशिष्टव्यवहारहेतुत्वं सूर्यसञ्चारस्योपपाद्याधुना परम्परासम्बन्धाङ्गीकारेऽपि न कालसिद्धिः पृथिव्यादेरव्यापकतया तपनपिण्डसम्बन्धाभावेऽपि दिशो व्यापकत्वेन तपनपिण्डसंयुक्ततया पिण्डे तपनधर्मसंक्रामकत्वेनान्यथोपपत्तौ मध्ये सम्बन्धः घटकतया न कालः कल्पनीय इत्याह ॥ दिश एवेति । परत्वापरत्वव्यवहारनिर्वाहकत्वं कल्प्यतामित्यन्वयः । ननु तस्याः कालकृतपरत्वापरत्वविपरीतदिकृतपरत्वा-परत्वण्यवहारनिर्वाहकत्वात्कथं कालकृतपरत्वापरत्वव्यवहारनिर्वाह- कत्वमेकस्य विरुद्धकार्यद्वयनिर्वाहकत्वायोगादित्यत उक्तमुभयेति । दिक्कृतकालकृतेत्यर्थः । एकस्या अपि दिश: सहकारिभेदेन व्यवस्थिताव्यवस्थित- प्रतीतिजनकत्वं कल्प्यतामिति भावः । कुत एवमप्रमाणिककल्पनेति चेद्धर्मिकल्पनातो वरं धर्मकल्पनेति न्यायेनाप्रामाणिककालरूप-धर्मिकल्पनापेक्षया क्लृप्ताया एव दिशो विरुद्धकार्यनिर्वाहार्थकत्वरूपधर्मकल्पनस्य लघीयस्त्वादित्याह ॥ अप्रसिद्धेति । एतेन परापरशब्दाभ्यां परत्वापरत्वे गुणौ युवस्थविरपिण्डवर्तिनावुच्येते । तयोस्तु समवायिकारणं पिण्डः । निमित्तकारणम-पेक्षाबुद्धिः । असमवायिकारणं तु कालपिण्डसंयोगो वाच्यः । तथा च परत्वापरत्वासमवायिकारणसंयोगाश्रयतया कालसिद्धिरिति केनचिदुक्तं निरस्तम् । दिक्संयोगस्यैवासमवायिकारणत्वोपपत्तेः । वस्तुतस्तु परापरादिप्रत्ययानां सूर्यगतिर्वा परत्वापरत्वे वा यद्यालम्बनं तदाऽस्तु कालानुमानम् । न चैतदस्ति । कालभेदानामेव विशेषणतया प्रतीतेः । तथा हि । परोऽयमित्यादिप्रयुक्तवन्तः कोऽस्यार्थ इति पृष्टा लौकिकाः परीक्षकाश्च बहुकालीन इत्यादि व्याचक्षाणा दृश्यन्ते । तत्र कालस्वरूपं साक्षिसिद्धम् । तद्बहुत्वादि च कचित्साक्षिणा क्वचिदनुमानादिना ज्ञायत इति । विस्तरस्तु न्यायसुधायां द्रष्टव्यः । एवं कालस्यानुमानिकत्वं निरस्य तत्प्रसङ्गादाकाशस्यापि तन्निरस्यति ॥ शब्देति । अयमर्थः । शब्दस्तावत्प्रत्यक्षसिद्धः । स च गुणः । सामान्यवत्त्वे सत्यस्मदादिबाह्यैकेन्द्रियग्राह्यत्वात् । रूपवदिति । तस्य गुणत्वे सिद्धे गुणश्च गुण्याश्रितः । गुणत्वा-द्रूपवदिति । तदाश्रयत्वेन सामान्यतो द्रव्ये सिद्धे तच्च द्रव्यं न पृथिव्यादिचतुष्टयम् । तस्य श्रोत्रग्राह्यगुणवत्त्वाभावात् । अस्य च श्रोत्रग्राह्यगुणवत्त्वात् । नापि दिक्कालमनसां गुणः । तेषां विशेषगुणशून्यत्वात् । नाप्यात्मा । तस्य मानसगुणवत्त्वात् । परिशेषादष्टद्रव्यातिरिक्तं द्रव्यं सिध्यति । तदेवाकाशमित्युच्यते । तथा च प्रयोगः । शब्दोऽष्टद्रव्याति- रिक्तद्रव्याश्रित: तद्वृत्तौ बाधकवत्त्वे सति गुणत्वात् । रूपवदिति । शब्दाश्रयतया सामान्यपरिशेषाभ्यां गगनानुमाने च जात्या बधिरस्य, जात्या मूकस्य च शब्दज्ञानाभावेन तदनुमेयाकाशज्ञानाभावः स्यात् । तदभावे चाकाशज्ञानाधीनः सञ्चारोऽपि न स्यात् । न चैवम् । अतस्तस्यापि साक्षिसिद्धत्वमेष्टव्यमिति । ननु जातिबधिरादेः सञ्चारो न स्यादित्ययुक्तम् । तेषां प्रत्यक्षत एवाकाशज्ञानसम्भवात् । इह विहगः पततीह चैत्रो गच्छतीति चक्षुर्व्यापारानन्तरं प्रतिभासात् । इतीदंशब्दार्थस्याकाशत्वादित्यत आह ॥ अरूपीति | रूपरहितद्रव्येषु चाक्षुषताप्रयोजकस्योद्भूतरूपवत्त्वस्या- भावादित्यर्थः । ननु यद्याकाशो न चाक्षुषः कथं तर्ह्ययं कूप एतद्रन्ध्रमिति चक्षुर्व्यापारानन्तरं प्रतीतिः । कूपादीनामाकाशत्वादित्यत आह ॥ कूपोऽयमिति । चक्षुर्व्यापरस्य मृदाद्यावरणाभावविषयप्रतीतिजनकतयाऽन्यथोपपत्तेरित्यर्थः । ननु प्रतीतेरन्यविषयत्वे आकाशापलापः कृतः स्यादित्याशङ्क्य निषेधति ॥ न चैवमिति ॥ तदाश्रयतयेति । मृदाद्यावरणाभावाधिकरणतयेत्यर्थः । न चैवमपि चाक्षुषत्वप्रसङ्गः । आवरणाभावाधिकरणतया चाक्षुषज्ञाने भानादिति । वाच्यम् । साक्ष्युपनीताधाररूप-विशेषणविशिष्टप्रतीत्युपपत्तेः । परमते इह भूतले घटाभाव इति ज्ञानानन्तरं गृहीतभूतलविशिष्टाभावप्रतीतिवदिति भावः ।

Loading…