कालादेः साक्षिसिद्धत्वसमर्थनम्
अत्र केचिदाहुः । बहुतरणिपरिस्पन्दान्तरितजन्मत्वं परत्वम् । अल्पतरसूर्यसञ्चारान्तरितजनिमत्त्वं चापरत्वम् । एकतपन- प्रचारविशिष्टत्वं यौगपद्यम् । अनेकतद्विशिष्टत्वमयौगपद्यम् । बहुतपनक्रिया विशिष्टत्वमक्षिप्रत्वम् । कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम् । तत्प्रत्ययैरनुमेयः कालः । तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययहेतुतया स्वप्रत्यासत्ति- मपेक्षन्ते । विशिष्टव्यवहारजनकत्वात् । चन्दनसौरभवत् । स च सम्बन्धः परम्परया वाच्यः । साक्षादसम्भवात् । पटविशेषणस्येव नीलिम्नः । अतः पदार्थानां तपनपरिस्पन्दैः संयुक्तसंयोगिसमवायात्मके सम्बन्धे यन्निमित्तं द्रव्यं स काल इति ।
एवं कालविषयाण्यनुमानानि सामान्यतो निरस्य विशेषतोऽपि निरसितुमाह ॥ अत्र केचिदिति । तार्किका इत्यर्थः । काल: परापरव्यतिकरयौगपद्यचिरक्षिप्रप्रत्ययलिङ्ग इति तदीयभाष्यं मनसि निधाय तस्य तदभियुक्तव्याख्यानमनुवदति ॥ बहुतणीति । अस्ति तावत्स्थविरे परोऽयमिति प्रत्ययो यूनि चापर इति । सोऽयं दिक्कृतपरापरविलक्षणा- त्वात्परापरव्यतिकरप्रत्ययः । तथा युगपदागतावेतावयुगपदागतावेतौ चिरेणा- गतोऽयं क्षिप्रमागतोऽयमिति प्रत्ययाः । तैरेतैः षभिः प्रत्ययैरनुमेय: काल इत्यर्थः । तत्र परत्वादीनि निर्वक्ति ।। बहुतरणीत्यादिना । बहवो ये तरणिपरिस्पन्दाः सूर्यसञ्चारास्तैरन्तरितं व्यवहितं जन्म यस्य तस्य भावस्तत्त्वम् । । यस्योत्पत्त्यनन्तरं बहवः सूर्यपरिस्पन्दा जातास्तस्य परत्वमित्यर्थः । एतेनाल्पतरेति व्याख्यातम् ।। एकेति । एको यस्तपनस्य सूर्यस्य प्रचारः परिस्पन्दस्तद्वैशिष्ट्यमित्यर्थः । एकस्मिन्नेव तपनप्रचारे ययोरागमनं तयोर्यौगपद्यमित्यर्थः । अनेकेति । अनेकतपनप्रचारवैशिष्ट्य- मित्यर्थः । एकसूर्यप्रचारे एकस्यागमनमन्यसूर्यप्रचारेऽन्यस्य चेत्तदा तयोर्भिन्न- तपनप्रचारविशिष्टत्वादयौगपद्यमित्यर्थः ॥ बह्विति । बहुतपनपरिस्पन्द- रूपक्रियावैशिष्ट्यं चिरत्वम् । तस्यार्थनिर्देशोऽक्षिप्रत्वमिति । यस्यागमनानन्तरं बहवः सूर्यपरिस्पन्दा जातास्तस्याचिरत्वम् । तद्विपरितं क्षिप्रत्वमित्यर्थः । तत्प्रत्ययैस्तेषां परत्वादीनां प्रत्ययैरित्यर्थः । कथमेतैः कालानुमानप्रकार इत्यतः सामान्यपरिशेषाभ्यामिति भावेन सामान्यानुमानप्रकारं तावदाह || तरणीति । तरणिपरिस्पन्दा इति पक्षनिर्देशः । पदार्थसार्थे परावरादिवस्तुसमूहे ।। विशिष्टेति । परत्वापरत्वयौगपद्यादिविशिष्टप्रत्ययहेतुतयेत्यर्थः । पदार्थविषय- कपरत्वादिविशिष्टप्रत्ययजनकप्रत्यासत्तिमन्त इति साध्यार्थः । विशिष्टेति । परत्वादिविशिष्टव्यवहारजनकत्वादित्यर्थः ॥ चन्दने । यथा सौरभं चन्दनखण्डे सुरभिचन्दनमिति विशिष्टव्यवहारजनने समवायरूपप्रत्यासत्ति- मपेक्षते तद्वदित्यर्थः । अनेन तपनपरिस्पन्दानां परापरादिपिण्डानां च सम्बन्धसामान्यं सिध्यतीति भावः । अस्त्वेवं कालसिद्धौ किमायातमित्यत आह ।। स चेति । सूर्यपरिस्पन्दानां परापरादिपिण्डानां च सिध्यन् सम्बन्ध इत्यर्थः । || साक्षादिति । तपनसमवेतानां परिस्पन्दानामवनिगतैः पिण्डैः संयोगसमवायादेरसम्भावादित्यर्थः । तत्रानुरूपं दृष्टान्तमाह । पटेति । पटस्य स्वभावतः शुक्लत्वेन नैल्यस्योपाधिकतया कर्दमलिप्ते पटे नीलः पट इति विशिष्टव्यवहारजनकस्य नैल्यस्य पटसंयुक्तकर्दमादिद्रव्यसमवेतत्वे पटेन सह संयुक्तसमवायरूपसम्बन्ध इव परम्परया वाच्य इत्यर्थः । अस्तु परम्परासम्बन्धस्ततोऽपि किमित्यत आह । अत इति । साक्षात्सम्बन्धस्या सम्भवादित्यर्थः ।। संयुक्तसंयोगीति । पिण्डसंयुक्तं यद्द्रव्यं तत्संयोगी यस्तपनस्तत्समवायात्मके यन्निमित्तं यत्सम्बन्धघटकं स काल इति । अयमर्थः । परम्परासम्बन्धोऽपि न संयुक्तसमवायः । सूर्यपरिस्पन्दादीनां सूर्यस्य च समवायसम्बन्धे सत्यपि सूर्यस्यावनिगतपिण्डस्य च संयोगाभावात् । अतः सूर्यस्य पिण्डानां मध्ये पिण्डसंयुक्तं सूर्यसंयुक्तं च किञ्चिद्द्रव्यं कल्पनीयम् । तन्न तावत्पृथिव्यादिभूतचतुष्टयम् । तपनपिण्डाभ्यामसंसर्गात् । नाप्याकाशः । तस्य पिण्डतपनसंयोगेऽपि विशेषगुणवत्त्वेन पृथिव्यादिवत्पिण्डे तपनधर्मोपसङ्क्रामकत्वाभावात् । किञ्च यद्याकाशं स्वसम्बन्धेनान्यगतं धर्ममन्यत्र सङ्क्रामयेत्तदा सर्वं सर्वत्र सङ्क्रामयेत् अविशेषात् । एतेन दिगात्मनोरपि तत्सम्बन्धेन तद्धर्मसङ्क्रामकत्वं प्रत्युक्तम् । दिशो दिक्संसर्गोप- नायकत्वेनान्यथासिद्धत्वाच्च । मनस्तु नोभाभ्यां संयुक्तम् । अतोऽष्टद्रव्याति- रिक्तं किञ्चिदान्तरालिकमुभयसंयुक्तं द्रव्यं वाच्यम् । तदेव कालशब्देनोच्यत इति परिशेषात्कालसिद्धिरिति ।