Join Tattvasudhā to study.

कालादेः साक्षिसिद्धत्वसमर्थनम्

§31Mūla

स्वरूपत्वेन च भेदस्यानेकप्रतीत्यभावान्नान्योन्या- श्रयादेरवकाशः । अस्ति तावदस्तीदमित्यत्र वर्तमानकालो वस्तुना सहैवानु- भूयते साक्षिणेति । तदुक्तम् । तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् । साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥ इति । नह्यानुमानिकः कालः कालसिद्ध्यसिद्ध्योः सिद्धसाधनाश्रयासिद्धिभ्यां तमेव पक्षीकृत्यानुमानस्यानुत्थानात् । नापि तत्सम्बन्धिनः कस्यचित्पक्षी - कारेणानुमानप्रवृत्तिः । कालवृत्तिमन्तरेण तेन साहचर्यस्मरणाद्यसम्भवात् ।

– अस्त्वेवं भेदस्य धर्मिस्वरूपत्वम् । कथमनेनान्योन्याश्रयादेः परिहार इत्यपेक्षायामाह || स्वरूपत्वेन चेति । यदि भेदो धर्म्यतिरिक्तः स्यात्तदा भेदज्ञानं धर्मिज्ञानापेक्षं प्रतियोग्यपेक्षया भिन्नत्वेन ज्ञानस्य धर्मित्वेन ज्ञानमित्यन्योन्याश्रयः स्यात् । यदा तु भेदो धर्मिस्वरूपं तदा धर्मिज्ञानं भेदज्ञानमिति ज्ञानद्वयाभावेनान्योन्यापेक्षाभावान्नान्योन्याश्रयत्वमित्यर्थः । ननु यद्यपि भेदो धर्मिस्वरूपमिति न तदपेक्षयाऽन्योन्याश्रयः । तथाऽपि प्रतियोगिस्वरूपं नेति धर्मिणो भिन्नत्वेन ज्ञातस्य प्रतियोगिता तज्ज्ञानानन्तरं धर्मिस्वरूपभेदज्ञानमिति प्रतियोग्यपेक्षयाऽन्योन्याश्रयो दुर्वार एवेति चेन्न । धर्मिणो भेदोऽपि प्रतियोगिस्वरूपमेवेति यदा प्रतियोगी ज्ञायते तदैव तत्स्वरूपभूतभेदोऽपि ज्ञायत एव I एवमपि प्रतियोगिज्ञानानन्तरं धर्मिस्वरूपभूतभेदज्ञानं धर्मिज्ञानानन्तरं च तज्ज्ञानाधीनप्रतियोगिज्ञानमित्य- न्योन्याश्रय इति वाच्यम् । सर्वं सामान्यतो यस्मात्सर्वैरेवानुभूयते । तस्माद्व्यावृत्तता सर्वैः सर्वस्मादनुभूयते ॥ ।। इत्यनुव्याख्यानोक्तरीत्या सर्वस्यापि साक्षिसिद्धत्वेन घटादिधर्मि- प्रतीतिदशायां तत्स्वरूपभूतसर्वप्रतियोगिकभेदोऽपि साक्ष्युन्नीतेन प्रतियोगिना सहैव गृह्यत इति धर्मिप्रतियोगिज्ञानभेदाभावेन ज्ञानद्वयाभावान्नान्योन्याश्रय इति परिहारं तद्वदेव युगपत्प्रतीतयोर्धर्मिप्रतियोगिभावेनेत्याद्युपरितनेन विवक्षुः कथं साक्षिसिद्धमुपनीतं सत्पटादिज्ञाने भासते । क्वाप्यदर्शनादित्याशङ्क्य साक्षिसिद्धस्य कालस्य घटादिचाक्षुषज्ञाने प्रतीतिदर्शनादिति भावेन दृष्टान्तं साधयितुं प्रतिजानीते ।। अस्ति तावदिति । तावच्छब्दः क्रमार्थः । तद्वदेव धर्मिप्रतियोगिनोर्युगपत्प्रतीतिरिति वक्ष्यते इत्यर्थः । इदं घटादि । अस्ति वर्तमानकालसम्बद्धमित्यर्थः ॥ साक्षिणेति । उपनीत इति भावः । यथा चन्दनखण्डे घ्राणोपनीतं सौरभं चक्षुषागृह्यते तद्वदिति भावः । उक्तेऽर्थे आचार्यसूक्तिं संवादयति ।। तदुक्तमिति । तत्साक्षिसिद्धेन कालेन सहैव वस्तुनः प्रतीयमानत्वमानुमानिकपादीयानुव्याख्याने भगवत्पादैरुक्तमित्यर्थः । तद्वचनं पठति ।। तदेतदिति । तदिति स्मृतिगोचरमेतदिति दृश्यं वा सर्वमपि साक्षिसिद्धेन कालेन खचितं सम्बद्धमेव वर्तते हि यस्मात्तस्मात्तं कालं विना कालप्रतिभासं विना किञ्चित्स्म वा धर्म्यादिकं द्रष्टुं वा न शक्यमिति तस्मान्न तं विना किञ्चित्स्मर्तुं द्रष्टुमथाऽपि वेत्युत्तरवाक्येनान्वयः । स्यादेतदेवम् । यदि कालस्य साक्षिसिद्धत्वं स्यात् । तदेव कुत इति चेत्परिशेषादिति ब्रूमः । तथा हि । न तावद्वाह्यप्रत्यक्षत्वम् । तत्प्रयोजकस्य महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वस्याभावात् । नापि मानसत्वम् । मनसो बहिरस्वातन्त्र्यात् । जातिबधिरमूकानामपि कालप्रतिभासदर्शनेन नागमवेद्य- त्वमपि । अथानुमानिकत्वं वाच्यम् । तदपि नेति प्रतिजानीते || न हीति । यद्यपि कालस्यानुमानिकत्वेऽप्यनुमानेनोपनीतस्य तस्य घटादिवस्तुप्रतीतौ सहभानसम्भवेनेष्टसिद्धिः । तथाऽपि वस्तुस्थितिमभिप्रेत्य तस्य साक्षिसिद्धत्वं साधयितुमानुमानिकत्वखण्डनमिति ध्येयम् । तदनुमानमपि कालमेव पक्षीकृत्य प्रवर्तते उत तत्सम्बन्धिकिञ्चित्पक्षीकृत्येति विकल्प्य पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तत इत्यनुव्याक्यानं मनसि निधायाद्यं दूषयति । कालेति ।। कालस्य सिद्धौ सिद्धसाधनत्वादसिद्धौ त्वा श्रयासिद्धेरित्यर्थः । द्वितीयं निराह ॥ नापीति ।। कालवृत्तिमिति । कालगोचरवृत्तिं कालप्रतिभासमन्तरेण तेन कालेन साहचर्यस्मरणासम्भवाद्व्याप्तिस्मरणासम्भवादित्यर्थः । अयमाशयः । अनुभूतव्याप्तिकस्य पुंसोऽनुभूयमाने धर्मिणि व्याप्यधर्मस्यानुभवात्पूर्वानुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षेऽनुसन्धानमनुमानम् । तच्च व्यापक- सम्बन्धप्रमिति लक्षणाऽनुमितिकरणम् । स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते । अपि तु कालकलितमेव तदिति हि स्मृतिरुत्पद्यते न । पुना रूपमिति । तत्ता तत्ता च पूर्वकालसम्बन्धितैव । एवमनुभवोऽपि चक्षुरादिजन्यस्तावदेतदिति जायते । अनुमानादिजन्योऽप्यभूदिति वा भवतीति वा भविष्यतीति वोदेति । एतत्त्वादिकं न वर्तमानादिकालातिरिक्तं किञ्चित् । तथा च व्याप्त्यादिविषया अपि प्रतीतयो न कालविशेषितं स्वार्थं गोचरयितुं शक्नुवन्तीति कालाप्रतिभासे. व्याप्तिस्मरणाद्यभावेनानुमानस्यानुत्थानादिति । एतेन तदेतदिति वचनस्य द्वितीयपक्षदूषणपरत्वं च सूचितं भवति ।

Loading…