भेदस्य धर्मिस्वरूपत्वसमर्थनम्
न हि दृष्टपदार्थस्य पुरुषस्य वस्त्वन्तरात्तस्य भेदे संशयः क्वचिद्दृष्टः । न च सर्वतो व्यावृत्त्यनुभवे सार्वज्ञापत्तिदोषः । सामान्यतः सर्वस्य साक्षिसिद्धत्वाङ्गीकाराच्च । अन्यथा सार्वत्रिकव्याप्तिपरिज्ञानासम्भवेन सर्वानुमानतर्कोच्छेदप्रसङ्गः । न च विशेषज्ञानापेक्षा । भेदस्वरूपमात्र - प्रतीतेस्तदनपेक्षणात् । न च संशयाभावप्रसङ्गः । कुतश्चिद्व्यावृत्तस्य वस्तुनः प्रतीतावपि व्यावृत्तिविशेषाग्रहणवशादेव संशयोपपत्तेः । अन्यथा सर्व कोटय- वलम्बी संशयः स्यात् ॥ छ ॥ भेदस्य धर्मिस्वरूपत्वसमर्थनम् ॥ छ ॥
अस्तु तथा संशयादिकमिति चेन्न । अप्रामाणिकाङ्गीकार- स्यानुचितत्वादित्याह । न हीति । दृष्टः पदार्थो धर्मी घटादिर्येन तस्य पुरुषस्य । वस्त्वन्तरात्पटादितः । तस्य घटादेः । भेदविषये संशय: कचिदपि देशे न दृष्ट इत्यर्थः । धर्मिज्ञानाभावादेव न संशयः इति शङ्कानिरासायोक्तं दृष्टपदार्थस्येति । तथा च संशयादिप्रतिबन्धार्थं पदार्थदर्शनवेलायां सर्वतो व्यावृत्तत्वेनैव दृश्यत इत्युपेयम् । तच्च भेदस्य धर्मिस्वरूपत्वं विना न घटत इति धर्मिस्वरूपत्वमेष्टव्यमित्यखण्डतात्पर्यार्थः । एवं भेदस्य धर्मिस्वरूपत्वे साधकमुक्त्वा बाधकमाशङ्कते ॥ न चेति । यदुक्तं धर्मिस्वरूपं भेद इति तन्न । तथात्वे हि धर्मिस्वरूपं प्रतीयमानं सर्वतो व्यावृत्तं प्रतीयेत न च तद्युक्तम् । सर्वाप्रतीतौ सर्वतो व्यावृत्तेः प्रत्येतुमशक्यत्वात्सर्वेषां सर्वज्ञता - पत्तिरिति दोषो नेत्यर्थः । कुतो नेत्यतस्तत्र युक्तिमाह || सामान्यत इति । घटादिज्ञानदशायां सामान्यत: सर्वज्ञत्वस्य प्राणभृन्मात्रसिद्धत्वादिति भावः । सामान्यतः सर्वज्ञानानङ्गीकारे बाधकमाह । अन्यथेति । सामान्यतः सर्वज्ञानाभावे यत्प्रमेयं तदभिधेयमित्यादिरूपेण सर्वत्र विद्यमानयोर्हेतु- साध्ययोर्व्याप्तिज्ञानं न स्यात् । तस्य सर्वज्ञानसाध्यत्वात् । तथा च मूलभूतव्याप्तिज्ञानाभावात्सर्वानुमानानां तर्काणां चोच्छेदः स्यादित्यर्थः । तर्कस्यानुमानत्वेऽपि दूषणानुमानत्वाद्गोबलीवर्दन्यायेन पृथग्ग्रहणम् । उक्तं च। सर्वं सामान्यतो यस्मात्सर्वैरेवानुभूयत इति । उपलक्षणमेतत् । सर्वाज्ञाने सर्वशब्दप्रयोगो न स्यात् । सर्वं खल्विदं ब्रह्मेति वाक्यार्थधीश्च न स्यादिति बोध्यम् । नन्वेवमपि विशिष्य घटादि- सर्वपदार्थज्ञाने विशिष्य सर्वतो व्यावृत्तेर्ज्ञातुमशक्यत्वेन विशिष्य सर्वज्ञाना- पेक्षायां पुनः सार्वज्ञदोष इत्याशङ्क्याह ॥ न चेति ॥ विशेषेति । घटपटत्वादिना तत्तदसाधारणधर्मेणेत्यर्थः । प्रतियोगिनः सर्वस्यापि शेष: । किं घटादिधर्मिस्वरूपभूतभेदस्य भेदत्वेन रूपेण भेदस्वरूपज्ञाने प्रतियोगि- विशेषज्ञानापेक्षोत घटप्रतियोगिकत्वेन स्तम्भप्रतियोगिकत्वेन च रूपेण विशिष्य भेदज्ञाने तदपेक्षा । तत्र द्वितीये परिहारं वक्ष्याम इति भावेनाद्ये न दोष इत्याह || भेदेति । सर्वतो भेदत्वेन रूपेण भेदप्रतीतेरित्यर्थ: । मात्रपदेन घटादिप्रतियोगिकत्वरूपविशेषणविषयकत्वं व्यावर्त्यते । नन्वथाऽपि भेदस्य धर्मिस्वरूपत्वं न युज्यते । तथात्वे संशयाभावप्रसङ्गात् । धर्मिज्ञानस्य संशयहेतुत्वेन तज्ज्ञानेनैव तदभिन्नस्य भेदस्य ज्ञानत्वाद्भेदज्ञानस्य च संशयनिरोधित्वादित्याशङ्क्य निषेधति न चेति । पुरोवर्तिन ऊर्ध्वत्वादिविशिष्टस्य वस्तुनः पटादितो व्यावृत्तिमत्त्वेन प्रतीतावपि सादृश्यादिदोषवशात्स्थाणुपुरुषादिव्यावृत्तिविशेषस्य पुरोवर्तिन्यग्रहणसम्भवेनायं स्थाणुर्वा पुरुषो वेति संशय उपपद्यत इत्याह । कुतश्चिदिति । यद्वा प्रतियोगिनानात्वेन भेदनानात्वाभावात् सर्वप्रतियोगिको भेदः पुरोव- र्तिन्येक एव । तथा च कुतश्चित्पटादेर्व्यावृत्तस्य व्यावृत्तिमत: पुरो वर्तिनो वस्तुनः प्रतीतौ पटादिप्रतियोगिकभेदवत्त्वेन प्रतीतावपि दोषवशात्पुरोवर्ति - निष्ठव्यावृत्तौ विशेषणस्य स्थाण्वादिप्रतियोगिकत्वरूपविशेषस्याग्रहणेन संशयोपपत्तेरित्यर्थः । तदुक्तं तत्त्वनिर्णयटीकायाम् । एक एव खल्वेकस्य वस्तुनो भेदः । अनेकत्वे प्रमाणाभावात् । स च वस्तुप्रतीतौ प्रतीयत एव । किन्तु तस्य घटप्रतियोगिकत्वं पटप्रतियोगिकत्वमित्यादयोऽनन्ता धर्माः । तत्र भेदनिष्ठो यत्प्रतियोगिकत्वरूपो धर्मः सादृश्यादिवशान्न प्रतीयते तत्र संशयादिकमुत्पद्यते । न तु तत्रापि भेदस्याप्रतीतिरिति । उक्तं च न्यायामृतेऽपि । न च निरूपकभेदेन निरूप्यभेदः । एकघटनिरूप्ययोः प्रागभावप्रध्वंसयोर्भेददर्शनादनेकविषयनिरूप्यस्यापीश्वरज्ञानादेरनेकद्वैतनिरूप्यस्याद्वैतस्य चैक्यदर्शनाच्चेति । इदं च संशयस्थले कतिपयपदार्थभेदप्रतीतावपि यत्किञ्चित्स्थाण्वादिभेदाप्रतीतिस्त्वयाऽपि वाच्या । अन्यथा भेदमात्राप्रतीतौ स्थाण्वादिकोटिकसंशयवत्पटादिप्रतियोगिकोऽपि स स्यात् । व्यावृत्त्यप्रतीतौ साधारणधर्मस्य सुलभत्वात् । प्रतियोगिस्मृत्यादिसम्भवाच्चेति भावेनाह ।। अन्यथेति । भेदमात्राप्रतीतावित्यर्थः । अतः संशयादेरन्यथोपपत्तेर्निर- पेक्षत्वादन्यतरपरिशेषापत्त्यादिबाधकानामुपरि पराकरिष्यमाणत्वेन बाधका- भावात्साधकसद्भावाच्च भेदस्य धर्मिस्वरूपत्वं सुस्थम् || छ ।।