Join Tattvasudhā to study.

भेदस्य धर्मिस्वरूपत्वसमर्थनम्

§30Mūla

तृतीयेऽपि सापेक्षतामात्रं निवर्तताम् । दर्शनस्य किमायातम् । प्रकारान्तरासम्भवात्स्वयमपि निवर्तत इति चेन्न । प्रकारान्तरेण निर्वाहकल्पनस्य शक्यत्वेन प्रतीतेरपन्हवायोगात् । अन्यथा स्वाभिलषितस्याप्यभेदस्यासिद्धेरुक्तत्वात् । इयं चात्र दर्शनस्थितिः । न भेदो युगधर्मः । किन्त्वेकस्य धर्मोऽपरेण निरूप्यः । इमौ भिन्नावित्यत्रापि स्तम्भात्कुम्भस्य भेदः कुम्भात्स्तम्भस्य भेद इत्येवार्थः । अनयोर्भेद इति तूभयधर्मिकं भेदद्वयमेव । एकवचनं त्वनयोः स्वरूपमितिवत् । स च भेदो धर्मिणः स्वरूपमेव । अन्यथा स्वरूपं प्रतीयमानं सर्वात्मना प्रतीयेत । तथा चात्मन्यपि घटोऽहमिति प्रतीतिप्रसङ्गः ।

।। दर्शनस्य किमायातमिति । धर्मिप्रतियोगिप्रतीतिसापेक्षत्वप्रयुक्त- मन्योन्याश्रयादिकं धर्म्यादिप्रतीतिसापेक्षत्वमेव निवर्तयेन्न तु दर्शनमित्यर्थः ।। स्वयमिति । भेददर्शनमित्यर्थः । तथा चान्यजन्यत्वस्याभावाद्धर्म्यादि जन्य- त्वस्यान्योन्याश्रयदुष्टतयाऽसम्भवान्निष्कारणकस्य भेददर्शनस्यानुत्थानादि- त्यर्थः । भेदस्य स्वरूपत्वेन निर्वाहस्य वक्ष्यमाणत्वादिति भावेन प्रकारान्त- रासम्भवोऽसिद्ध इत्याह । प्रकारान्तरेणेति । प्रतीतेर्भेदप्रतीतेरित्यर्थः । प्रकारान्तरमनुसृत्यान्योन्याश्रयादिकं त्वयाऽप्युद्धर्तव्यम् । अन्यथा प्रकारान्तरेण निर्वाहमपरिकल्प्य क्लृप्तप्रतीत्यपलापे त्वदभिमतैक्यसिद्धिरपि न स्यात् । ऐक्यधियोऽपि धर्म्यादिधीसापेक्षत्वादित्याह || अन्यथेति । उक्तत्वादिति । वेदान्तवाक्यवृत्तेरप्यविश्वसनीयत्वापातादित्यनेनोक्तत्वादित्यर्थः । प्रकारान्त- रेण निर्वाहकल्पनस्य शक्यत्वादित्यस्य प्रौढिवादतानिरासाय भेदस्य धर्मिस्व- रूपत्वेन निर्वाहं चिकीर्षुर्भेदस्य धर्मिस्वरूपत्वे घटपटाभेदप्रसङ्गरूपं बाधकमुज्जिहीर्षुः सिद्धान्तस्थितिमाह ॥ इयमिति । भावाभावस्वरूप- त्वान्नान्योन्याभावता पृथगिति वदतो बादरायणाचार्यस्य दर्शनमर्यादेत्यर्थः ।। युगधर्म इति । यथा न्यायमते घटपटोभयसंयोगस्यैकस्योभयत्र व्यासज्य- वृत्तितयाऽवस्थानं तथा घटपटोभयनिरूपितस्यैकस्य भेदस्य घटे पटे चोभयत्र न व्यासज्यवृत्तित्वमित्यर्थः । तथात्वे हि तादृशभेदस्य धर्मिभूतोभयस्वरूपत्वे घटाभिन्नधर्माभिन्नत्वात्पटस्यापि घटाभिन्नता स्यात् । यद्यदभिन्नधर्माभिन्नं तत्तदभिन्नं यथा घट इति व्याप्तिसम्भवात् । यदा तु घटनिरूपितो भेदः पटमात्रधर्मिक एव पटस्वरूपं पटनिरूपितो घटमात्रधर्मिको घटस्वरूपमित्य- धिकरणभेदेन भेदे नानात्वं तदा नैष दोष: प्रसज्यते । उक्तं च तैत्तिरीयभाष्ये । अस्माद्व्यावृत्तिरन्यस्य स्वरूपमन्यस्माद्व्यावृत्तिरस्य स्वरूप- मिति नैकस्वरूपतेति भावः । ननु यदि धर्मिभेदेन भेदनानात्वं तर्हीमौ घटत्ववन्तावितिवदिमौ घटपटौ भिन्नावित्युभयनिष्ठैकभेदधीः कथमित्य- तोऽर्थमाह ।। इमाविति । इमौ रूपवन्तावित्यत्र यथा नैकं रूपं व्यासज्य वर्तते तद्वदिति भावः । एवं तर्हि घटपटयोर्भेदाविति द्विवचनप्रसङ्गः । न तु घटपटयोर्भेद इत्येकवचनम् । तेन ज्ञायते उभयनिष्ठ एक एव भेद इत्याशङ्क्य समुदायाभिप्रायेणैकवचनमित्यनुरूपदृष्टान्तेनाह । अनयोरिति । न हि घटपटयोरेकं स्वरूपमित्यर्थः । अस्त्वेवमेकधर्मिकोऽपरनिरूप्यो भेद इति प्रकृते किमायातमित्यत आह ।। स चेति । उक्तविध इत्यर्थ: ।। धर्मिण इति । स्वयं यत्रास्ति तत्स्वरूपमित्यर्थः । स्वरूपत्वे च भेदस्यानेकप्रतीत्यभावान्ना- न्योश्रयावकाश इति वक्ष्यत इति भावः । ननु भवेदेवं यदि भेदो धर्मिस्वरूपं तदेव कुतो मानादवसीयत इत्यतो धर्मिरूपं दृश्यमानं सर्वविलक्षणत्वेनैव दृश्यत इत्यनुभवादेव मानादवसीयत इति भावेन भेदस्य धर्म्यतिरिक्तत्वे बाधकमाह । अन्यथेति । धर्मिणो भिन्नत्वे भेदस्य धर्मिप्रतीतौ तद्धर्मभूतभेदप्रतीतिनियमाभावेन घटादिस्वरूपं प्रतीयमानं घटदिसर्वपदार्थाभिन्नतया प्रतीयेत । न चैवं प्रतीयते । सर्वविलक्षणत्वेनैव पदार्थस्वरूपप्रतीत्यनुभवात् । अतो न धर्म्यतिरिक्तो भेद इत्यर्थः । अस्त्वेवं ततः किमित्यत आह ।। तथा चेति । धर्मिस्वरूपस्य सर्वात्मना प्रतीतावात्म- विषयेऽपि घटादिस्मृतिमतः पुंसः प्रतीयमानोऽहं घटो वा न वेति संशयस्याहं घट एवेति विपर्ययस्य वा प्रसङ्ग इत्यर्थः ।

Loading…