Join Tattvasudhā to study.

भेदस्य धर्मिस्वरूपत्वसमर्थनम्

§30Mūla

न च प्रातिभासिक एवायं भेदः । अपसिद्धान्तापातात् । नापि परप्रसिद्ध्या परबोधनम् । परस्य स्वक्रियास्वन्यायविरुद्धविकल्पसाधु- त्वाप्रसिद्ध्या बोधयितुमशक्यत्वात् । कथञ्चात्रापादनक्रमः । यदि भेददर्शनं स्यात्तदाऽन्योन्याश्रयादिकं स्याद्यदि भेददर्शनं वास्तवं स्यात्तदाऽन्योन्या- श्रयादिकं स्यादिति वा यदि भेददर्शनं धर्म्यादिसापेक्षं स्यात्तर्हीति वा । नाद्यः । यदि भेददर्शनं न स्यात्तर्हि सकलव्यवहारविधुरः परः प्रसज्येतेति प्रतितर्क - पराहतत्वात् । न द्वितीयः । व्याप्तिवैकल्यात् ।

किञ्च व्यावहारिकभेदाभ्युपगमेऽपि व्यावहारिकभेदनिर्वाहायान- वस्थादिकं त्वयाऽपि परिहार्यम् । न ह्यनवस्थादिना दुष्टस्य व्यावहारिकत्वं दृष्टचरमिति भावेन प्रत्यक्षाद्यवगतस्य प्रातिभासिकत्वं निराचष्टे ॥ न चेति । यद्वाऽऽद्ये कथमङ्गीकृतस्य निराकरणमित्येतदयुक्तम् । प्रत्यक्षाद्यवगतस्य प्रातिभासिकत्वेन व्यावहारिकत्वाभावात्तन्निराकरणे न व्याघात इति मन्दाशङ्कानिराकरणेनाद्यपक्षे दूषणमुपपादयति । न चेति । ननु प्रत्यक्षाद्या- कलित एव भेदो निराक्रियते । न चैवमङ्गीकृतनिरासदोष: । भेदमात्रस्या- नङ्गीकारात् । उक्तं च- “न ममत्वं मुमुक्षूणामनिर्वचनवादिनामि'ति । न चैवं विकल्पाद्यनुपपत्तिः । परमते भेदस्योपेतत्वेन पररीत्या विकल्प्य परबोधनसम्भवादित्याशङ्क्य निषेधति ॥ नापीति ॥ परप्रसिद्धयेति । विकल्पानामिति शेषः । कुतो नेत्यतो हेतुमाह ।। परस्येति । सिद्धान्तिन इत्यर्थः । बोधयितुमशक्यत्वादित्यन्वयः । भेदज्ञानमकारणजन्यमतत्का- रणजन्यं वेति विकल्पयोः स्वक्रियास्वन्यायविरुद्धत्वात् भेदो भिन्नो वाऽभिन्नो वेति विकल्पस्य स्वन्यायविरुद्धत्वादित्यादि बोध्यम् । विकल्पसाधुत्वस्य विकल्पसामीचीन्यस्येत्यर्थः । एवं भेदखण्डनतर्काणां जात्युत्तरतामभिप्रेत्य व्याघातेन साधारणदोषेण तान् दूषयित्वा युक्ताङ्गहीनत्वरूपासाधारण- दोषेणापि दूषयितुमापाद्यापादकस्वरूपनिष्कर्षेण तर्कस्वरूपं निर्धारयितुं पृच्छति ।। कथं चेति ।। अत्रेति । स्तम्भात्कुम्भभेदसिद्धौ कुम्भात्स्तम्भ- भेदसिद्धिरिति परस्पराश्रयप्रसङ्गादित्यत्रेत्यर्थः ।। वास्तवमिति । तात्त्वि- कमित्यर्थः । तर्हीत्यनन्तरमन्योन्याश्रयादिकं स्यादिति शेषः । आद्ये न च तद्युक्तम् । तस्मान्नास्ति भेददर्शनमिति । द्वितीये न च तद्युक्तमतो भेददर्शनं न वास्तवम् । तृतीये न च तद्युक्तमतो न भेददर्शनं धर्म्यादिसापेक्षमिति विपर्यये पर्यवसानं च बोध्यम् । ॥ सकलेति । प्रमाणतदाभास- स्वपरपक्षभूषणदूषणनित्यानित्यवस्तुविवेकशून्यब्रह्मादि सर्वव्यवहारोच्छेदः स्यात् । सर्वस्य भेददर्शनकार्यत्वात् । तथा च व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये । अनिष्टाननुकूलत्वे इति तर्कापञ्चकम् ॥ इत्युक्ताङ्गपञ्चकमध्ये तर्काप्रतिहतिरूपाङ्गहीनत्वादाभास इत्यर्थः । | उपलक्षणमेतत् । भेदादर्शने तन्निरासायोगेन विपर्ययेऽपर्यवसानाच्चेत्यपि बोध्यम् ।। न द्वितीय इति । वास्तवान्योन्याश्रयादेरदर्शनेन यत्र वास्तवत्वं सत्यत्वमित्यर्थस्तत्रान्योन्याश्रयादीत्यापाद्यपादकयोर्व्याप्तिवैकल्यादित्यर्थः उपलक्षणमेतत् । भेददर्शनस्यासत्यत्वेऽप्यभेदस्येव भेदस्यापि सत्यत्वोप- पत्तेश्चेत्यपि बोध्यम् । यद्वा वास्तवत्वं नाम प्रमात्वम् । तथा च यत्र प्रमात्वं तत्रान्योन्याश्रय इति व्याप्त्यभावादित्यर्थः । स्तम्भात्कुम्भस्य भेदप्रतीतौ कुम्भात्स्तम्भस्य भेदप्रतीतिरिति प्रतीतावन्योन्याश्रयस्योक्तत्वेन चोरापरा- धान्माण्डव्यस्य शूलप्राप्तिवत्प्रतीतिगतेनान्योन्याश्रयेण प्रमात्वनिरासायोगा- च्चेत्यपि दूषणं ध्येयम् ।

Loading…