भेदस्य धर्मिस्वरूपत्वसमर्थनम्
किश्च नायं भेद इति वा नास्त्यत्र भेद इति वाऽन्यदेव भेदात्मना प्रत्यभादिति वा बाधकज्ञानेन भवितव्यम् । नेदं रजतमित्या- दिवत् । तदेतत्सर्वथा भेदावगाहीति कथं तत्परिपन्थिभावमाकलयेत् । तस्मात्क्लृप्तविषयत्वान्नानवस्थादेरुत्थानम् । उत्थितस्य वा भवेदाभासत्वम् । पारमार्थिकभेदानभ्युपगमेऽपि व्यावहारिकाङ्गीकारेण विकल्प्य निराकरणोप- पत्तिरिति चेन्न । स किं प्रत्यक्षाद्याकलितो वाऽन्यो वा यो निराक्रियते । आद्ये कथमङ्गीकृतस्य निराकरणम् । अन्यश्चेन्निषिध्यतां न नो हानिः ।
एवं बाधकस्य विषयविवेचनेन भेदस्याबाधितत्वमुक्त्वाऽधुना बाधकाकारं च विवेचयन् भेदस्याबाधितत्वमाह । किञ्चेति । नेदं रजतमि- त्यादीत्यादिपदेन नास्त्यत्र रजतमन्यदेव रजतात्मना प्रत्यभादित्याकारद्वयं गृह्यते । तदेतत्त्रेधा जायमानमपि बाधकज्ञानं सर्वथा भेदावगाहीति नायं भेद इति भेदप्रतियोगिकभेदावगाहितया नास्त्यत्र भेद इति प्रतियोगिविलक्षणतयैव भेदाभावावगाहितयाऽन्यदेव भेदात्मनेत्यत्र भेदान्यत्वरूपभेदप्रतियोगिकभेदा- वगाहितया पक्षत्रयेऽपि साक्षाद्भेदस्य विषयीकरणेनैव स्वस्योत्पत्तिरिति स्वोपजीव्यं भेदं प्रति विरोधित्वं कथं प्राप्नुयात् । अन्यथा स्वस्योत्थानमेव न स्यात् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न्यायादित्यर्थः । एतेनैकमेवानेकात्मना प्रत्यभादिति ज्ञानं बाधकमिति निरस्तम् । एकानेकयोर्वस्तुनोर्भेदाभावे वैलक्षण्याग्रहे च तस्य बाधकत्वायोगात् । उक्तं च न्यायामृते । भेदाद्भिन्नतयाऽप्यर्थं बाधधीर्गाहते न वा । आद्ये भेदः स्थिरोऽन्त्ये तु न सा स्याद्भेदस्य बाधिका ॥ इति । उपसंहारव्याजेन प्रागुक्तानवस्थादिदोषमुद्धरति ॥ तस्मादिति I यस्माद्भेदप्रतीतेस्तस्याः कारणजन्यत्वस्य वा निरासो न सम्भवति यतश्च बाधकमपि भेदमेवोपजीवति तस्माद्भेदस्य प्रामाणिकतया कृप्तत्वात्तद्विषये उक्तमनवस्थाऽन्योन्याश्रयादिकं नोत्पत्तुमर्हति । कथञ्चिदुत्पन्नमविरोधादाभा- सतामेव प्राप्नोतीत्यर्थः । ननु यदुक्तं भेदस्याप्रतीतौ विकल्पपूर्वं तन्निरासानुपपत्तिरित्यादि तदयुक्तम्। न हि वयं सर्वात्मना भेदं वा भेदे प्रतीतिं वा निराकुर्मः । येनोक्तदोषः स्यात् । किन्तु तात्त्विकमेव भेदं तात्त्विकभेदप्रतीतिं वा । व्यावहारिकभेदस्य तत्प्रतीतेचाभ्युपगमेन न कोऽपि दोषः । व्यावहारिक- भेदेनैव च स्वपरपक्षदूषणभूषणादिव्यवस्था चोपपन्ना । अत एव भेदभिन्नतया स्वविषयं व्यवस्थापयद्बाधकं व्यावहारिकमेव भेदमुपजीवत्पारमार्थिकभेदं बाधत एवेति न तात्त्विकभेदसिद्धिरिति भावेन शङ्कते ॥ पारमार्थिकेति । व्यावहारि- केत्यनन्तरं भेदेति ग्राह्यम् || विकल्प्येति । भेदमेव गोचरयेदुत वस्त्वपीत्यादि - रूपेण विकल्प्य निराकरणेत्यर्थः । तत्र व्यावहारिकभेदमङ्गीकृत्य त्वया निराक्रियमाणोऽन्यो भेद: किं प्रत्यक्षादिप्रमाणैरवगतोऽनवगतो वा । आद्ये प्रत्यक्षाद्यवगतस्य त्वया व्यावहारिकत्वाङ्गीकारेणाङ्गीकृतस्य निराकरणे व्याघातः । द्वितीये तस्याप्रामाणिकत्वेन तन्निरासे नास्माकमनिष्टमिति भावेन सिद्धान्तयति || नेति Į स इत्यस्य यो निराक्रियत इति वक्ष्यमाणयच्छब्देनान्वयः ।